अध्यायः 089

अर्जुनयुद्धवर्णनम् ॥ 1 ॥

अर्जुन उवाच
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः ।
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥
सञ्जय उवाच ।
एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः ।
एकस्य च बहूनां च रथनागनरक्षयः ॥
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।
परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् ।
अवाकिरन्बाणजालैस्तत्र कृष्णधनञ्जयौ ॥
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि ।
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥
उद्धान्तनयनैर्वक्रैः सन्दष्टौष्ठपुटैः शुभैः ।
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥
पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।
विनिकीर्णानि योधानां वदनानि चकाशिरे ॥
सुवर्णचित्राभरणाः संसिक्ता रुधिरेण च ।
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥
शिरसां पततां राजञ्शब्दोऽभूद्वसुधातले ।
कालेन परिपक्वानां तालानां पततामिव ॥
कबन्ध उत्थितः कश्चिद्विष्फार्य सशरं धनुः । किञ्चित्खङ्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ।
`गृहीत्वाऽन्यस्य केशेषु शिरो नृत्यति चापरः' ॥
पतितानि न जानन्ति शिरांसि पुरुषर्षभाः ।
अमृष्यमाणाः सङ्ग्रामे कौन्तेयं जयगृद्धिनः ॥
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी ।
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥
अयं पार्थः कुतः पार्थः पार्थोऽयमिति सर्वशः । `तिष्ठ पार्थेहि मां पार्थ क्व यासीति च जल्पताम्' ।
तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे ।
पार्थभूतममन्यन्त जनाः कालेन मोहिताः ॥
निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः ।
शयाना बहवो वीराः कीर्तयन्तः स्वबान्धवान् ॥
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वथाः ।
सनिर्व्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥
सबाणवर्माभरणाः सगदाः साङ्गदा रणे ।
महाभुजगसङ्काशा बाहवः परिघोपमाः ॥
उद्वेष्टन्ति विचेष्टन्ति सञ्चेष्टन्ति च सर्वशः ।
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥
यो यः स्म समरे पार्थं प्रतिसञ्चरते नरः ।
तस्यतस्यान्तको बाणः शरीरमुपसर्पति ॥
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा ।
न कश्चित्तत्र पार्थश्च ददृशेऽन्तरमण्वपि ॥
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् ।
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च ।
अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ॥
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः ।
प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ॥
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः ।
तथाऽर्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत ।
अन्तकाले यथा भूमिर्व्यवकीर्णा महीधरैः ॥
यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा ।
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप ।
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥
मारुतेनेव महता मेघानीकं व्यदीर्यत ।
प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥
प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः ।
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः ।
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागं चोदयन्तस्तथाऽपरे ।
शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः ॥
तव योघ हतोत्साहा विभ्रान्तमनसस्तदा ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोननवतितमोऽध्यायः ॥ 89 ॥

5-89-17 निर्व्यूह आयुधविशेषः ॥ 5-89-20 प्रतिसञ्चरते प्रत्युद्रच्छति ॥ 5-89-22 यत्तस्यावहितस्य ॥ 5-89-28 द्रुतं विद्रुतम् । आविग्नं भीतम् ॥ 5-89-30 साधुवाहितैः सुष्ठु व्यापारीतैः ॥ 5-89-89 एकोननवतितमोऽध्यायः ॥

श्रीः