अध्यायः 104

अर्जुनस्य भूरिश्रवःप्रभृतिभिरष्टभिर्युद्धम् ॥ 1 ॥

सञ्जय उवाच ।
तावकास्त्वभिसम्प्रेक्ष्य वृष्ण्यन्धकरूद्वहौ ।
सत्वरास्तौ जिघांसन्तस्तथैव विजयः परान् ॥
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः ।
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥
रुक्मपुङ्खैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते ।
कूजद्भिरतुलान्नादन्रोषितैरुरगैरिव ॥
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः ।
कृपश्च मद्रराजश्च द्रोणिश्च रथिनां वरः ॥
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः ।
व्यराजयन्दश दिशो वैयार्घ्रैर्हेमचन्द्रकैः ॥
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिःस्वनैः ।
समावृण्वन्दश दिशः पार्थस्य निशितैः शरैः ॥
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् ।
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः ।
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः ।
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः ।
पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ।
प्रवरौ सर्वदेवानां सर्वशङ्खवरौ भुवि ॥
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ।
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः ॥
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ।
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः ॥
सर्वशब्दानतिक्रम्य पूरयामास रोदसी ।
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले ॥
भीरूणां त्रासजनने शूराणां हर्षवर्धने ।
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च ॥
मृदङ्गेष्वपि राजेन्द्र वाद्यमानेष्वेनकशः ।
महारथसमाख्याता दुर्योधनहितैषिणः ॥
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ।
कर्णादयो महेष्वासास्त्वत्सैन्यपरिरक्षिणः ॥
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः ।
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥
बभूव तव तत्सैन्यं शङ्खशब्दे समीरिते ।
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभों ॥
तत्प्रहृष्टजनाबाधं भेरीशङ्खनिनादितम् ।
बभूव भृशमुद्विग्नं निर्घातैरिव संवृतम् ॥
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् ।
त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ॥
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः ।
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् ।
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥
तमर्जुनः पृषत्कानां शतैः षङ्भिरताडयत् ।
अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ॥
कर्णं च दशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा ।
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् ।
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥
कर्णो द्वात्रिंशता चैव वृषसेनश्च सप्तभिः । जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ।
मद्राजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् ।
वासुदेवं च विंशत्या पुनः पार्थं च पञ्चभिः ॥
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः ।
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥
कर्णं द्वादशभिर्विद्व्वा वृषसेनं त्रिभिः शरैः ।
शल्यस्य सशरं चापं मुष्टिदेशे व्यकृन्तत ॥
सौमदत्तिं त्रिभिर्विद्व्वा शल्यं च दशभिः शरैः ।
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥
गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह ।
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः ।
अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥
ततः शरशतैस्तीक्ष्णैस्तानरीन्श्वेतवाहनः ।
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुरधिकशततमोऽध्यायः ॥ 104 ॥

5-104-2 वैयाघ्रैर्व्याघ्रचर्मचित्रैः ॥ 5-104-7 कौलतकाः कुलूतदेशजाः पार्वतीयसमानलक्षणाः ॥ 5-104-8 आजानेयैः कुलीनैः । नदीजैर्नदीतीरजैः ॥ 5-104-104 चतुरधिकशततमोऽध्यायः ॥

श्रीः