अध्यायः 201

नारयणास्त्रेणावेष्टिते भीमे कृष्णार्जुनाश्यां हस्ततः शस्त्रापकर्षणपूर्वकं रथादवरोपिते सत्यस्त्रस्य प्रशमनम् ॥ 1 ॥ ततः सङ्कुलयुद्धम् ॥ 2 ॥

सञ्जय उवाय ।
भीमसेनं समाकीर्णं दृष्ट्वाऽस्त्रेण धनञ्जयः ।
तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ॥
नालक्षयत तत्कश्चिद्वारुणास्त्रेण संवृतम् ।
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ॥
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः ।
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ॥
यथा रात्रिक्षये राजञ्ज्योतीष्यस्तगिरिं प्रति ।
समापेतुस्तथा बाणा भीमसेनरथं प्रति ॥
स हि भीमो रथश्चास्य हयाः सूतश्च मारिष ।
संवृता द्रोणपुत्रेण पावकान्तर्गताऽभवन् ॥
यथा जग्ध्वा जगत्कृत्स्नं समये सचराचरम् ।
गच्छेद्वह्निर्विभोरास्यं तथाऽस्त्रं भीममावृणोत् ॥
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः ।
तथा प्रविष्टं तत्तेजो न आज्ञायत पाण्डवः ॥
`तदस्त्रं भीमहुङ्कारादपयाति पुनःपुनः । पुनः पुनस्तमायाति हुंकारात्तं विमुञ्चति ।
ततो देवाः सगन्धर्वा भीमं दृष्ट्वा सुविस्मिताः' ॥
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति ।
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे ॥
सर्वसैन्यं च पाण्डूनां न्यस्तशस्त्रमचेतनम् ।
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथनान् ॥
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती ।
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ॥
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम् ।
विगाह्य तौ सुबलिनौ माययाऽविशतां तथा ॥
न्यस्तशस्त्रौ ततस्तौ तु नादहत्सोऽस्त्रजोऽनलः ।
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ॥
ततश्चकृषतुर्भीमं सर्वशस्त्रायुधानि च ।
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ॥
आकृष्यमाणः कौन्तेयो नदत्येव महारवम् ।
वर्धते चैव तद्वोरं द्रौणेरस्त्रं सुदुर्जयम् ॥
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन ।
वार्यमाणोऽपि कौन्तेय यद्युद्वान्न निवर्तसे ॥
यदि युद्वेन जेयाः स्युरिमे कौरवनन्दनाः ।
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ॥
रथेभ्यस्त्ववतीर्णाः स्म सर्व एव हि तावकाः ।
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ॥
एवमुक्त्वा तु तं कृष्णो रथाद्भूमिमवर्तयत् ।
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ॥
यदाऽपकृष्टः स रथान्न्यासितश्चायुधं भुवि ।
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ॥
सञ्जय उवाच ।
तस्मिन्प्रशान्ते विधिना तेन तेजसि दुःसहे ।
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ॥
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः ।
वाहनानि च हृष्टानि प्रशान्तेऽस्त्रे सुदुर्जये ॥
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत ।
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ॥
हतशेषं बलं तत्तु पाण्डवानामतिष्ठत ।
अस्त्रव्युपरमाद्वृष्टं तव पुत्रजिघांसया ॥
व्यवस्थिते बले तस्मिन्नेस्त्रे प्रतिहते तथा ।
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् ॥
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय ।
अवस्थिता हि पाञ्चालाः पुनरेते जयैषिणः ॥
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष ।
सुदीनमभिनिः श्वस्य राजानमिदमब्रवीत् ॥
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते ।
आवृतं हि निवर्तेत प्रयोक्तारं न संशयः ॥
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् ।
`अस्य तु ह्येष वै दाता मानुषेषु न विद्यते ॥
परावरज्ञो लोकानां न तदस्ति न वेत्ति यत् ।
तदेतदस्त्रं प्रशमं यातं कृष्णस्य मन्त्रितैः' ॥
द्विविधो विहितः सङ्ख्ये वधः शस्त्रोर्जनाधिप ।
पराजयो वा मृत्युर्वा श्रेयान्मृत्युर्न निर्जयः ॥
विजिताश्चारयो ह्योते शस्त्रोत्सर्गान्मृतोपमाः ॥
दुर्योधन उवाच ।
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते ।
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ॥
त्वयि शस्त्राणि दिव्यानि त्र्यम्बके चामितौजसि । `घ्नतैतान्सुमहावीर्य शात्रवान्युद्वकोविदः' ।
इच्छतो न हि ते मुच्येत्सङ्क्रुद्धो हि पुरन्दरः ॥
धृतराष्ट्र उवाच ।
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते ।
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ॥
दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समुपस्थितान् ।
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ॥
सञ्जय उवाच ।
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः ।
सक्रोधो भयमुत्सृज्य सोऽभिदुद्राव पार्षतम् ॥
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभ ।
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभः ॥
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् ।
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ॥
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः ।
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ॥
विद्व्वा विद्वाऽनदद्द्रौणिं कम्पयन्निव मेदिनीम् ।
आददे सर्वलोकस्य प्राणानिव महारणे ॥
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्चयः ।
द्रौणिमेवाभिदुद्राव मृत्युं कृत्वा निवर्तनम् ॥
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि ।
अवासृजदमेयात्मा पाञ्चाल्यो रथिनांवरः ॥
तं द्रौणिः समरे क्रुद्धं छादयामास पत्रिभिः ।
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ॥
द्वाभ्यां च सुविसृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके ।
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ॥
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहावे ।
तस्य चानुचरान्सर्वान्क्रुद्धः प्राद्रावयच्छरैः ॥
ततः प्रदुद्रुवे सैन्यं पाञ्चालानां विशाम्पते ।
सम्भ्रान्तरूपमार्तं च न परस्परमैक्षत ॥
दृष्ट्वा तु विमुखान्योधान्धृष्टद्युम्नं च पीडितम् ।
शैनेयोऽचोदयत्तूर्णं रथं द्रौणिरथं प्रति ॥
अष्टभिर्निशितैर्बाणैरश्वत्थामानमार्दयत् । विंशत्या पुनराहत्य नानारूपैरमर्षणः ।
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ॥
[धनुर्ध्वजं* ; संयत्तश्चिच्छेद कृतहस्तवत् । स साश्वं व्यधमच्चापि रथं हेमपरिष्कृतम् ।
हृदि विव्याध समरे त्रिंशता सायकैर्भृशम् ॥
एवं स पीडितो राजन्नश्वत्थामा महाबालः ।
शरजालैः परिवृतः कर्तव्यं नान्वपद्यत ॥
एवं गते गुरोः पुत्रे तव पुत्रो महारथः ।
कृपकर्णादिभिः सार्धं शरैः सात्वतमावृणोत् ॥
दुर्योधनस्तु विंशत्या कृपः शारद्वतस्त्रिभिः ।
कृतवर्माऽथ दशभिः कर्णः पञ्चाशता शरैः ॥
दुःशासनः शतेनैव वृषसेनश्च सप्तभिः ।
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ॥
ततः स सात्यकी राजन्सर्वानेव महारथान् ।
विरथान्विमुखांश्चैव क्षणेनैवाकरोन्नृप ॥
अश्वत्थामा तु सम्प्राप्य चेतनां भरतर्षभ ।
चिन्तयामास दुःखार्तो निःश्वसंश्च पुनःपुनः ॥
अथो रथान्तरं द्रौणिः समारुह्य परन्तपः ।
सात्यकिं वारयामास किरञ्शरशतान्बहून् ॥
तमापतन्तं सम्प्रेक्ष्य भारद्वाजसुतं रणे ।
विरथं विमुखं चैव पुनश्चक्रे महारथः ॥
ततस्ते पाण्डवा राजन्दृष्ट्वा सात्यकिविक्रमम् ।
शङ्खशब्दान्भृशं चक्रुः सिंहनादांश्च नेदिरे ॥
एवं तं विरथं कृत्वा सात्यकिः सत्यविक्रमः ।
जघान वृषसेनस्य त्रिसाहस्रान्महारथान् ॥
अयुतं दन्तिनां सार्धं कृपस्य निजघान सः ।
पञ्चायुतानि चाश्वानां शकुनेर्निजघान ह ॥
ततो द्रौणिर्महाराज रथमारुह्य वीर्यवान् । सात्यकिं प्रति सङ्क्रुद्धः प्रययौ तद्वधेप्सया ।
पुनस्तमागतं दृष्ट्वा शनेयो निशितैः शरैः । अदारयत्क्रुरतरैः पुनःपुनररिन्दम ॥]
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः ।
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ॥
शैनेयाब्युपपत्तिं ते जानाम्याचार्यघातिनि ।
न चैनं त्रास्यसि मया ग्रस्तमात्मानमेव च ॥
शपेत्मनाऽहं शैनेय सत्येन तपसा तथा ।
अहत्वा सर्वपाञ्चालान्यदि शान्तिमहं लभे ॥
यद्बलं पाण्डवेयानां वृष्णीनामपि यद्बलम् ।
क्रियतां सर्वमेवेह निहनिष्यामि सोमकान् ॥
एवमुक्त्वाऽर्करम्याभं सुतीक्ष्णं तं शरोत्तमम् ।
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ॥
स तं निर्भिद्य तेनास्तः सायकः शरावरम् ।
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ॥
स भिन्नकवचः शूरस्तोत्रार्दित इव द्विपः ।
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ॥
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् ।
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ॥
अथान्येन सुपुङ्खेन शरेणानतपर्वणा ।
आजघान भ्रवोर्मध्ये धृष्टद्युम्नं परन्तपः ॥
स पूर्वमतिविद्धश्च भृशं पस्चाच्च पीडितः ।
ससदाथ च पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ॥
तं नागमिव सिंहेन दृष्ट्वा राजञ्शरार्दितम् ।
जवेनाभ्यद्रवञ्छूराः पञ्च पाण़्डवतो रथाः ॥
किरीटी भीमसेनश्च वृद्वक्षत्रश्च पौरवः ।
युवराजश्च चेदीनां मालवश्च सुदर्शनः ॥
एते हाहाकृताः सर्वे प्रगृहीतशरासनाः ।
वीरं द्रौणायनिं वीराः सर्वतः पर्यवारयन् ॥
ते विंशतिपदे यत्ता गुरुपुत्रममर्षणम् ।
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ॥
आशीविषाभैर्विंशत्या पञ्चभिस्तु शितैः शरैः ।
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् ॥
सप्तभिस्तु शितैर्बाणैः पौरवं द्रौणिरार्दयत् । मालवं त्रिभिरेकेन पार्थं ष़ड्भिर्वृकोदरम् ।
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः ।
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ॥
युवराजश्च विंशत्या द्रौणिं विव्याध पत्रिभिः ।
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ॥
ततोऽर्जुनं षड्भिरथाजघान द्रौणायनिर्दशभिर्वासुदेवम् ।
भीमं दशार्धैर्युवारजं चतुर्भि- र्द्वाभ्यां द्वाभ्यां मालवं पौरवं च ॥
सूतं विद्व्वाः भीमसेनस्य षड्भि-- र्द्वाभ्यां विद्व्वा कार्मुकं च ध्वजं च ।
पुनः पार्थं शरवर्षेण विद्व्वा द्रौणिर्घोरं सिंहनादं ननाद ॥
तस्यास्यतस्तान्निशितान्पीतधारा-- न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च ।
धरा वियद्द्यौः प्रदिशो दिशश्च च्छन्ना बाणैरभवन्धोररूपैः ॥
आसन्नस्य स्वरथं तीव्रतेजाः सुदर्शनस्येन्द्रकेतुप्रकाशौ ।
भुजौ शिरश्चेन्द्रसमानवीर्य-- स्त्रिभिः शरैर्युगपत्सञ्चकर्त ॥
स पौरवं रथशक्त्या निहत्य च्छित्त्वा रथं तिलशश्चास्य बाणैः ।
छित्त्वा च बाहू वरचन्दनाक्तौ भल्लेन कायाच्छिर उच्चकर्त ॥
युवानमिन्दीवरदामवर्णं चेदिप्रभुं युवराजं प्रसह्य ।
बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै-- र्विद्व्वा प्रादान्मृत्येव साश्वसूतम् ॥
[*मालवं पौरवं चैव युवराजं च चेदिपम् । दृष्ट्वा समक्षं निहतं द्रोणपुत्रोण पाण्डवः ।
भीमसेनो महाबाहुः क्रोधमाहारयत्परम् ॥
ततः शरशतैस्तीक्ष्णैः सङ्क्रुद्धाशीविषोपमैः ।
छादयामास समरे द्रोणपुत्रं परन्तपः ॥
ततो द्रौणिर्महातेजाः शरवर्षं निहत्य तम् ।
विव्याध निशितैर्बाणैर्भीमसेनममर्षणः ॥
ततो भीमो महाबाहुद्रौणेर्युधि महाबलः ।
क्षुरप्रेण धनुश्छित्त्वा द्रौणिं विव्याध पत्रिणा ॥
तदपास्य धनुश्छिन्नं द्रोणपुत्रो महामनाः ।
अन्यत्कार्मुकमादाय भीमं विव्याध पत्रिभिः ॥
तौ द्रौणिभीमौ समरे पराक्रान्तौ महाबलौ ।
अवर्षतां शरवर्षं वृष्टिमन्ताविवाम्बुदौ ॥
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।
द्रौणिं सञ्छादयामासुर्घनौघा इव भास्करम् ॥
तथैव द्रौणिनिर्मुक्तैर्भीमः सन्नतपर्वभिः ।
अवाकीर्यत स क्षिप्रं शरैः शतसहस्रशः ॥
स च्छाद्यमानः समरे द्रौणिना रणशालिना ।
न विव्यथे महाराज तदद्भुतमिवाभवत् ॥
ततो भीमो महाबाहुः कार्तस्वरविभूषितान् ।
नाराचान्दश सम्प्रैषीद्यमदण्डनिभाञ्छितान् ॥
ते जत्रुदेशमासाद्य द्रोणपुत्रस्य मारिष ।
निर्भिद्य विविशुस्तूर्णं वल्मीकमिव पन्नगाः ॥
सोऽतिविद्धो भृशं द्रौणिः पाण्डवेन महात्मना ।
ध्वजयष्टिं समासाद्य न्यमीलयत लोचने ॥
स मुहूर्तात्पुनः संज्ञां लब्ध्वा द्रौणिर्नराधिप ।
क्रोधं परममातस्थौ समरे रुधिरोक्षितः ॥
दृढं सोऽभिहतस्तेन पाण्डवेन महात्मना ।
वेगं चक्रे महाबाहुर्भीमसेनरथं प्रति ॥
तत आकर्णपूर्णानां शराणां तिग्मतेजसाम् ।
शतमाशीविषाभानां प्रेषयामास भारत ॥
भीमोऽपि समरश्लाघी तस्य वीर्यमचिन्तयत् ।
तूर्णं प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ॥
ततो द्रौणिर्महाराज च्छित्त्वाऽस्य विशिखैर्धनुः ।
आजघानोरसि क्रुद्धः पाण्डवं निशितैः शरैः ॥
ततोऽन्यद्धनुरादाय भीमसेनो ह्यमर्षणः ।
विव्याध निशितैर्बाणैर्द्रौणिं पञ्चभिराहवे ॥
जीमूताविव घर्मान्ते तौ शरौघप्रवर्षिणौ ।
अन्योन्यक्रोधताम्राक्षौ छादयामासतुर्युधि ॥
तलशब्दैस्ततो घोरैस्त्रासयन्तौ परस्परम् ।
अयुध्येतां सुसंरब्धौ कृतप्रतिकृतैषिणौ ॥
ततो विष्फार्य सुमहच्चापं रुक्मविभूषितम् । भीमं प्रैक्षत स द्रौणिः शरानस्यन्तमन्तिकात् ।
शरद्यहर्मध्यगतो द्रीप्तार्चिरिव भास्करः ॥
आददनास्य विशिखान्सन्दधानस्य चाशुगान् ।
विकर्षतो मुञ्चतश्च नान्तरं ददृशुर्जनाः ॥
अलातचक्रप्रतिमं तस्य मण्डलमायुधम् ।
द्रौणेरासीन्महाराज बाणान्विसृजतस्तदा ॥
धनुश्च्युताः शरास्तस्य शतशोऽथ सहस्रशः ।
आकाशे प्रत्यदृश्यन्त शलभानामिवायतीः ॥
ते तु द्रौणिविनिर्मुक्ताः शरा हेमविभूषिताः ।
अजस्रमन्वकीर्यन्त घोरा भीमरथं प्रति ॥
तत्राद्भुतकमपश्याम भीमसेनस्य विक्रमम् ।
बलं वीर्यं प्रभावं च व्यवसायं च भारत ॥
तां स मेघादिवोद्भूतां बाणवृष्टिं समन्ततः ।
जलवृष्टिं महाघोरां तपान्त इव चिन्तयन् ॥
द्रोणपुत्रवधप्रेप्सुर्भीमो भीमपराक्रमः ।
अमुञ्चच्छरवर्षाणि प्रावृषीव बलाहकः ॥
तद्रुक्मपृष्टं भीमस्य धनुर्घारं महारणे ।
विकृष्यमाणं विबभौ शक्रचापमिवापरम् ॥
तस्माच्छराः प्रादुरासञ्छतशोऽथ सहस्रशः ।
सञ्छादयन्तः समरे द्रौणिमाहवशोभिनम् ॥
तयोर्विसृजतोरेवं शरजालानि मारिष ।
वायुरप्यन्तरा राजन्नाशक्नोत्प्रतिसर्पितुम् ॥
तथा द्रौणिर्महाराज शरान्हेमविभूषितान् ।
तैलधौतान्प्रसन्नाग्रान्प्राहिणोद्वधकाङ्क्षया ॥
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् विशेषयन्द्रोणसुतं तिष्ठतिष्ठेति चाब्रवीत् ॥
पुनश्च शरवर्षाणि घोराण्युग्राणि पाण्डवः ।
व्यसृजद्बलवानक्रुद्धो द्रोणपुत्रवधेप्सया ॥
ततोऽस्त्रमायया तूर्णं शरवृष्टिं निवार्य ताम् । धनुश्चिच्छेद भीमस्य द्रोणपुत्रो महास्त्रवित् ।
शरैश्चैनं सुबहुभिः क्रुद्धः सङ्ख्ये पराभिनत् ॥
स छिन्नधन्वा बलवान्रथशक्तिं सुदारुणाम् ॥
वेगेनाविध्य चिक्षेप द्रोणपुत्ररथं प्रति ॥
तामापतन्तीं सहसा महोल्काभां शितैः शरैः ।
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ॥
एतस्मिन्नन्तरे भीमो दृढमादाय कार्मुकम् ।
द्रौणिं विव्याध विशिखैः स्मयमानो वृकोदरः ॥
ततो द्रौणिर्महाराज भीमसेनस्य सारथिम् ।
ललाटे दारयामास शरेणानतपर्वणा ॥
सोऽतिविद्धो बलवता द्रोणपुत्रेण सारथिः ।
व्यामोहमगमद्राजन्रश्मीनुत्सृज्य वाजिनां ॥
ततोऽश्वाः प्राद्रवंस्तूर्णं मोहिते रथसारथौ ।
भीमसेनस्य राजेनद्र् पश्यतां सर्वधन्विनाम् ॥
तं दृष्ट्वा प्रद्रुतैरश्वैरपकृष्टं रणाजिरात् ।
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ॥
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण़्डवः ।
धृष्टद्युम्नरथं त्यक्त्वा भीताः सम्प्राद्रवन्दिशः ॥
तान्प्रभग्नांस्ततो द्रौणिः पृष्ठतो विकिरञ्शरान् ।
अभ्यवर्तत वेगेन कालयन्पाण्डुवाहिनीम् ॥
ते वध्यमानाः समरे द्रोणपुत्रेण पार्थिवाः ।
द्रोणपुत्रभयाद्राजन्दिशः सर्वाश्च भेजिरे ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वण नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥

5-201-* एतदादि 14 श्लोकाः झ. पुस्त एव दृश्यन्ते । 5-201-* एतदादि 42 श्लोकाः झ. पाठ एव सन्ति ।

श्रीः