अध्यायः 026

भगदत्तपराक्रमवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
तेष्वेवं सन्निवृत्तेषु प्रत्युद्यातेषु भागशः ।
कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति ।
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय ॥
सञ्जय उवाच ।
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः ।
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥
स नाग इव नागेन गोवृषेणेव गोवृषः ।
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः ।
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥
ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् ।
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥
विधमेदभ्रजालानि यथा वायुः समुद्धतः ।
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत ।
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥
ते भीमबाणाभिहताः संस्यूता विबभुर्गजाः ।
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥
तथा गजानां कदनं कुर्वाणमनिलात्मजम् ।
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः ।
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥
स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् ।
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥
तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम् ।
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष ।
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥
तमापतन्तं नागेन्द्रमम्बुदप्रतिमस्वनम् ।
कुम्भान्तरे भीमसेनो नाराचैरार्दयद्भृशम् ॥
तस्य कायं विनिर्भिद्य न्यमज्जद्धरणीतले ।
ततः पपात द्विरदो वज्राहत इवाचलः ॥
तस्वावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः ।
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः ।
सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्गती ॥
तेष्वनीकेषु भग्नेषु विद्रवत्सु समन्ततः ।
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥
येन नागेन मघवानजयद्दैत्यदानवान् ।
तदन्वयेन नागेन भीमसेनमुपाद्रवत् ॥
स नागप्रवरो भीमं सहसा समुपाद्रवत् ।
श्रवणाभ्यामथो द्वाभ्यां संहतेन करेण च ॥
व्यावृत्तनयनः क्रुद्वः प्रमथन्निव पाण्डवम् ।
वृकोदररथं साश्वमविशेषमचूर्णयत् ॥
पद्भ्यां भीमोऽप्यथो धावंस्तस्य गात्रेष्वलीयत ।
जानन्नञ्जलिकावेधं नापाक्रामत पाण्डवः ॥
गात्राभ्यन्तरगो भूत्वा करेणाताडयन्मुहुः ।
लालयामास तं नागं वधाकाङ्क्षिणमव्ययम् ॥
कुलालचक्रवन्नागस्तदा तूर्णमथाभ्रमत् ।
नागायुतबलः श्रीमान्कालयानो वृकोदरम् ॥
भीमोऽपि निष्क्रम्य ततः सुप्रतीकाग्रतोऽभवत् ।
भीमं करेणावनम्य जानुभ्यामभ्यताडयत् ॥
ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत ।
करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत् ॥
पुनर्गात्राणि नागस्य प्रविवेश वृकोदरः । यावत्प्रतिगजायातं स्वबलं प्रत्यवैक्षत ।
भीमोपि नागगात्रेभ्यो विनिःसृत्यापयाज्जवात् ॥
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् ।
अहो धिङ्गिहतो भीमः कुज्जरेणेति मारिष ॥
तेन नागेन सन्त्रस्ता पाण्डवानामनीकिनी ।
सहसाऽभ्यद्रवद्राजन्यत्र तस्यौ वृकोदरः ॥
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् ।
भगदत्तं सपाञ्चाल्यः सर्वतः समवारयत् ॥
तं रथं रथिनां श्रेष्ठाः परिवार्य परन्तपाः ।
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥
स विघातं पृषत्कानामङ्कुशेन समाहरन् ।
क्षणेन पाण्डुपाञ्जालान्व्यधमत्पर्वतेश्वरः ॥
तदद्भुतमपश्याम भगदत्तस्य संयुगे ।
तथा वृद्धस्य चरितं कुञ्जरेण विशाम्पते ॥
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् ।
तिर्यग्यातेन नागेन समदेनाशुगामिना ॥
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः ।
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥
प्राग्ज्योतिषपतेर्नागः सन्निवृत्त्यापसृत्य च ।
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः ।
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥
व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः ।
रथानीकेन महता सर्वतः पर्यवारयत् ॥
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः ।
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् ।
किरतां शरवर्षाणि स नागः पर्यवर्तत ॥
ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम् ।
प्रेषयामास सहसा युयुधानरथं प्रति ॥
`आपतन्तं च सम्प्रेक्ष्य नागं सात्वतपुङ्गवः ।
अविध्यत्पञ्चभिर्बाणैः शितैराशीविषोपमैः' ॥
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः ।
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥
बृहतः सैन्धवानश्वान्समुत्थाप्यथ सारथिः ।
तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं प्रति ॥
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् ।
निष्पतन्सततं सर्वान्परिचिक्षेप पार्थिवान् ॥
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः ।
तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो द्विपान् ॥
ते गजस्थेन काल्यन्ते भगदत्तेन पार्थिवाः ।
ऐरावतस्थेन यथा देवराजेन दानवाः ॥
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः ।
गजवाजिकृतः शब्दः सुमहान्समजायत ॥
भगदत्तेन समरे काल्यमानेषु पाण्डुषु ।
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा ।
सिक्त्वा व्यत्रासयन्नागस्ते पार्थसहरंस्ततः ॥
ततस्तमभ्ययात्तूर्णं रुचिपर्वा कृतीसुतः ।
समघ्नञ्छरवर्षेण रथस्योऽन्तकसन्निभः ॥
ततः स रुचिपर्वाणं शरेणानतपर्वणा ।
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः ।
चेकितानो धृष्टकेतुर्ययुत्सुश्चार्दयन्द्विपम् ॥
त एनं शरधाराभिर्धाराभिरिव तोयदाः ।
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः ।
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् ।
युयुत्सुस्तु रथाद्राजन्नपाक्रामत्त्वरान्वितः ॥
ततः पाण्डवयोधास्ते नागराजं शरैर्द्रुतम् ।
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् । स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः ।
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः ।
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥
`चेकितानः चतुःषष्ट्या सोत्तरायुधिकं पुनः ।
प्रत्यविध्यत्ततः सर्वान्भगदत्तस्त्रिभिस्त्रिभिः' ॥
सोऽतियत्नार्पितैर्बाणैराचितो द्विरदो बभौ ।
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥
नियन्तुः शिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः ।
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥
गोपाल इव दण्डेन यथा पशुगणान्वने ।
सङ्कालयति तां सेनां भगदत्तस्तथा मुहुः ॥
क्षिप्रं श्येनाभिप्रन्नानां वायसानामिव स्वनः ।
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥
स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप ।
भयं तदा रिपुषु समादधद्भृशं वणिग्जनानां क्षुभितो यथाऽर्णवः ॥
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै र्भयाद्रवद्भिर्जनितोऽतिभैरवः ।
क्षितिं वियद् द्यां विदिशो दिशस्तथा समावृणोत्पार्थिवसंयुगे ततः ॥
स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम् ।
पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूतिनीमिव ॥
भृशं ववौ ज्वलनसखो वियद्रजः समावृणोन्मुहुरपि चैव सैनिकान् ।
तमेकनागं गणशो यथा गजान् समन्ततो द्रुतमथ मेनिरे जनाः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे षड्विंशोऽध्यायः ॥ 26 ॥

5-26-17 आवर्जितः पतनप्रवणो नागो यस्य ॥ 5-26-21 संहतेन सङ्कुचितेन ॥ 5-26-35 तिर्यग्यातेन पार्श्वतोगामिना ॥ 5-26-39 व्यवच्छिद्य विद्ध्वा ॥ 5-26-41 पर्यवर्तत भ्रान्तवान् ॥ 5-26-45 समुत्थाप्य स्थिरीकृत्य ॥ 5-26-52 सुपर्वा पार्वतीसुतः इति क.ङ.पाठः ॥ 5-26-53 सुपर्वा शोभनाङ्गसंधिः ॥ 5-26-67 वियदाकाशम् । द्यां स्वर्गम् ॥ 5-26-26 षड्विंशोऽध्यायः ॥

श्रीः