अध्यायः 032
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः ।
सोऽभ्याहनद्गुरुं षष्ट्या कर्णं च दशभिः शरैः ॥
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः ।
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ॥
आनन्तर्यमभिप्रेप्सुः षड्विंशत्या शमार्पयत् ।
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः ॥
षङ्भिर्दुर्योधनो राजा तत एनमथाकिरत् ।
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः ॥
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ।
दर्योधनं द्वादशभिर्दौणिमष्टाभिराशुगैः ॥
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे ।
तस्मिन्सन्त्यति प्रामान्मृत्युसाधारणीकृते ॥
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् ।
ते ययुर्भीमसेनस्य समीपममितौजसः ॥
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ।
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः ॥
महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः ।
समापेतुर्महावीर्या भीमप्रभृतयो रथाः ॥
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ।
महारथानतिबलान्वीरान्समरयोधिनः ॥
बाह्यं मृत्युभयं कृत्वा तावकान्पाण्डवा ययुः ।
सादिनः सादिनोऽब्यघ्नंस्तथैव रथिनो रथान् ॥
असिशक्त्यृष्टिसङ्घातैर्युद्धमासीत्परश्वथैः ।
प्रकृष्टमसियुद्धं च बभूव कटुकोदयम् ॥
कुञ्जराणां च सम्पाते युद्धमासीत्सुदारुणम् ।
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः ॥
नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष ।
तत्रान्यस्य च सम्पर्दे पतितस्य विवर्मणः ॥
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ।
अपरांश्चापरेऽमृद्रन्वारणाः पतितान्नरान् ॥
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् ।
नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः ॥
बभ्रमुः समरे नागा मृद्रन्तः शतशो नरान् ।
कार्ष्णायसतनुत्राणान्नराश्वरथकुञ्जरान् ॥
पतितान्पोथयाञ्चक्रुर्द्विपाः स्थूलनलानिव ।
गृध्रपत्राधिवासांसि शयनानि नारधिपाः ॥
हीमन्तः कालसम्पर्कात्सुदुःस्वान्यनुशेरते ।
हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे ॥
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत ।
रथो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यों निपातितम् ॥
युगार्धं च्छिन्नमादाय प्रदुद्राव तथा हयः ।
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् ॥
गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ ।
रथिना ताडितो नागो नाराचेनापतत्क्षितौ ॥
सारोहश्चापतद्वाजी गेजेनाभ्याहतो भृशम् ।
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् ॥
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि ।
प्रहराहर जह्मेनं स्मितश्वेडितगर्जितैः ।
इत्येवमुच्चैरत्यर्थं श्रूयन्ते विविधा गिरः ॥
नरस्याश्वस्य नाग्स्य समसञ्जत शोणितम् ।
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ॥
चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे ।
अतीतेषुपथे काले जहार गदया सिरः ॥
असीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् ।
नखैर्दन्तैश्च सूराणामद्वीपे द्वीपमिच्छताम् ॥
तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः ।
सधुनश्चापरस्यापि सशरः साङ्कुशस्तथा ॥
आक्रोशदन्यमन्योऽत्र तथाऽन्यो विमुखोऽद्रवत् ।
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ॥
सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद्भृशम् ।
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ॥
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः ।
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ॥
तथैव रथिनं नागः क्षरन्गिरिरिवारुजन् ।
अभ्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ॥
शूरान्प्रहरतो दृष्ट्वा कृताश्स्त्रान्रुधिरोक्षितान् ।
बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ॥
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन ।
सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत ॥
ततः सेनापतिः शीघ्रमयं क्राल इति ब्रुवन् ।
नित्याभित्वरितानेव त्वरयामास पाण्डवान् ॥
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः ।
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ॥
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत ।
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ॥
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः ।
विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन् ॥
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः ।
शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवै सह ॥
ततो द्रोणोऽतिसंक्रुद्धो विसृजञ्शतशः शरान् ।
चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ॥
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षं मारिष ।
वज्रसंह्रादसङ्काशस्त्रासयन्मानवान्बहून् ॥
एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान्बहून् ।
अभ्ययात्तत्र यत्रासौ द्रोणः पाण्डून्प्रमर्दति ॥
ताञ्शरौघान्महावर्ताञ्शोणितोदान्महाहदान् ।
तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ॥
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः ।
दीप्यमानमपश्याम तेजसा वानरध्वजम् ॥
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः ।
स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ॥
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा ।
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ॥
तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः ।
ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाःशरार्दिताः ॥
केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः ।
पार्थबाणहताः केचिन्निपेतुर्विगतासवः ॥
तेषामुत्पतितान्कांश्चित्पतितांश्च पराङ्मुखान् ।
न जघानार्जुनो योधान्योधव्रतमनुस्मरन् ॥
ते विकीर्णरथाश्चित्राः प्रायशश्च पराङ्मुखः ।
कुरवः कर्णकर्णेति हाहेति च विचुक्रुशुः ॥
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् ।
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ॥
स भारतरथश्रेष्ठः सर्वभारतहर्षणः ।
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वारः ॥
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च ।
`वारुणेन तदस्त्रेण विधूयाथ धनञ्जयः' ।
शरौघाञ्शरजालेन विदुधाव धनञ्जयः ॥
तथैवाधिरथिस्तस्य बाणाज्ज्वलिततेजसः ।
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ॥
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः ।
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ॥
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः ।
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ॥
ते निकृत्तायुघाः शूरा निर्विषा भुजगा इव ।
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ॥
ता भुजाग्रैर्महावेगा निसृष्टा भुजगोपमाः ।
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ॥
ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः ।
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ॥
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः ।
कर्णादवरजं बाणैर्जघान निशितैः शरैः ॥
ततः शत्रुंजयं हत्वा पार्थः षङ्भिरजिह्मगैः ।
जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ॥
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना ।
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ॥
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् ।
वरासिना कर्णपक्षाञ्जधान दश पञ्च च ॥
पुनस्तु रथमास्थाय धनुरादाय चापरम् ।
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ॥
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् ।
जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम् ॥
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् ।
आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ॥
शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः ।
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥
भल्लाभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् ।
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः ।
निम़ज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ॥
पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे ।
कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः ॥
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च ।
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ॥
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् ।
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ॥
पदातिरथनागाश्वा गजाश्वरथपत्तिभिः ।
रथिनो नागपत्त्यश्वैरथ पत्तीरथ द्विपैः ॥
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह ।
संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ॥
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् ।
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ॥
ततो हता नररथवाजिकुञ्जरै
रनेकशो द्विपरथपत्तिवाजिनः ।
गजैर्गजा रथिभिरुदायुधा रथा ।
हयैर्हयाः पत्तिगणैश्च पत्तयः ॥
रथैर्द्विपा द्विरदवरैर्महाहया
हयैर्नरा वररथिभिश्च वाजिनः ।
निरस्तजिह्वादशनेक्षणाः क्षितौ
क्षयं गताः प्रमथितवर्मभूषणाः ॥
तथा परैर्बहुकरणैर्वरायुधै-
र्हता गताः प्रतिभयदर्शनाः क्षितिम् ।
विपोथिता हयगजपादताडिता
भृशाकुला रथमुखनेमिभिः क्षताः ॥
प्रमोदने श्वापदपक्षिरक्षसां
जनक्षये वर्तति तत्र दारुणे ।
महाबलास्ते कुपिताः परस्परं
निषूदयन्तः प्रविचेरुरोजसा ॥
ततो बले भृशलुलिते परस्परं
निरीक्षमाणे रुधिरौघसम्प्लुते ।
दिवाकरेऽस्तंगिरिमास्थिते शनै
रुभे प्रयाते शिबिराय भारत ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धावहारे
द्वात्रिंशोऽध्यायः ॥ 32 ॥
5-32-6 मृत्युसाधारणीकृते मरणतुल्यावस्थां गमिते ॥ 5-32-12
कटुकस्य परुषस्योदयो यत्र ॥ 5-32-16 अविनं गत्वा अभित्य । विषाणालग्नसंश्रयैः
दन्तलग्नैकदेशैः ॥ 5-32-18 गृध्रपक्षाधिवासांसि गृध्रपक्षास्तरणानि ॥ 5-32-25
समसज्जत घनतामगमत् ॥ 5-32-26 अतीतः इषुपथः शरावकाशो यत्र ॥ 5-32-27
द्वीपमाश्रयम् ॥ 5-32-29 आक्रोशत् आहूतवान् ॥ 5-32-32 क्षरन्मदमिति शेषः । रथिनं
तथैव सहसारथिं अर्थाद्रथं च पदा आरुजन् भूमौ अभ्यतिष्ठदित्यन्वयः ॥ 5-32-37
विभीता अभीताः । दुर्धर्षस्य द्रोणस्य ॥ 5-32-39 आर्यधर्मेण संरब्धाः सोद्यमाः ॥ 5-32-53 विदुधाव खण्डितवान् ॥ 5-32-61 विघातस्य शिर इति क.पाठः ॥ 5-32-72
प्राणांस्त्यक्त्वा युध्यतामिति शेषः ॥ 5-32-75 अभीतानामभिमुखागतानां भयहीनानां
वा ॥ 5-32-78 बहुकरणैरनेकप्रक्रियैः । रथमुखानां रथमुख्यानां
नेमिभिश्चक्रान्तैः ॥ 5-32-32 द्वात्रिंशोऽध्यायः ॥
श्रीः