अध्यायः 033

युधिष्ठिरस्याग्रहणात् दुर्मनायमानं दुर्योधनं प्रति द्रोणेन कस्यचिन्महारथस्य हननप्रतिज्ञा ॥ 1 ॥ सञ्जयेन धृतराष्ट्रं प्रति सङ्क्षेपतोऽभिमन्युवधकथनम् ॥ 2 ॥

सञ्जय उवाच ।
पूर्वमस्मासु भग्नेषु फल्गुगेनामितौजसा ।
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ॥
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः ।
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ॥
अवहारं ततः कृत्वा भारद्वाजस्य सम्मते ।
लब्धलक्षैः शरैर्भिन्ना भृशावहसिता रणे ॥
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् ।
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ॥
अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ।
ततः प्रभातसमये द्रोणं द्रुयोधनोऽब्रवीत् ॥
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ।
शृण्वतां सर्वयोधानां संरब्धो वाक्यकोविदः ॥
नूनं वयं वध्यपक्षे भवतो द्विजसत्तम ।
तथाहि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ॥
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः ।
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ॥
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि ।
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ॥
सञ्जय उवाच ।
ततोऽप्रीतस्तथोक्तः सन्भारद्वाजोऽब्रवीन्नृपम् ।
नार्हसे मां तथा ज्ञातुं घटमानं तव प्रिये ॥
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः ।
नालं लोका रणे जेतुं पाल्यमानं किरीटिना ॥
विश्वसृग्यत्र गोविन्दः पृतनानीस्तथाऽर्जुनः ।
तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ॥
सत्यं तात ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् ।
अद्यैकं प्रवरं कञ्चित्पातयिष्ये महारथम् ॥
चक्रब्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि ।
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ॥
न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन ।
तेन ह्युपात्तं सकलं सर्वज्ञानमितस्ततः ॥
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः ।
आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ॥
ततोऽर्जुनस्याथ परैः सार्धं समभवद्रणः । तादृशो यादृशो नान्यः श्रुतो दृष्टोपि वा क्वचित् ।
तत्र द्रोणेन विहितो व्यूहो राजन्व्यरोचत ।
चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दृशः ॥
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत ।
बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ॥
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः ।
राजपुत्रशतं हत्वा कौसल्यं च बृहद्बलम् ॥
महारथं शल्यपुत्रं पौत्रं ते लक्ष्मणं तथा । षट््सु वीरेषु संसक्तो दौःशासनिवशं गतः ।
सौभद्रः पृथिवीपाल जहौ प्राणान्परन्तप ॥
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः ।
सौभद्रे निहते राजन्नवहारमकुर्महि ॥
`जनमेजय उवाच ।
समरोद्युक्तकर्माणः कर्मभिर्व्यञ्जितश्रमाः ।
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ॥
शश्वत्कर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया ।
न भूतो भविता वापि कृष्णस्य सदृशः पुमान् ॥
सत्यधर्मतपोदानैर्द्विजपूजादिभिर्गुणैः ।
सदेहस्त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ॥
युगान्ते चान्तकश्चैव जामदग्न्यश्च कीर्तिमान् ।
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ॥
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः ।
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ॥
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः ।
नकुले त्वाभिरूप्यं च शौर्यं च नियतानि षट् ॥
श्रुतमाधुर्यगाम्भीर्यसत्त्वरूपपराक्रमैः ।
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ॥
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः ।
अभिमन्यौ किलैकस्था दृश्यन्ते ते गुणाः शुभाः ॥
युधिष्ठिरस्य शौर्येण कृष्णस्य चरितेन च ।
कर्मणा भीमसेनस्य सदृशं भीमकर्मणः ॥
धनञ्जयस्य रूपेण विक्रमेण शुभेन च ।
विनये सहदेवस्य सदृशं नकुलस्य च ॥
अभिमन्युं द्विजश्रेष्ठ सौभद्रमपराजितम् ।
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ॥
वैशंपायन उवाच ।
अभिमन्युं हतं श्रुत्वा धृतराष्ट्रो जनाधिपः ।
विस्तरेण महाराज पर्यपृच्छत्स सञ्जयम्' ॥
धृतराष्ट्र उवाच ।
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम् ।
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ॥
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः ।
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ॥
बालमत्यन्तसुखिनं विचरन्तमभीतवत् ।
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ॥
बिबित्सता रथानीकं सौभद्रेणामितौजसा ।
विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् ।
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ॥
विक्रीडितं कुमारेण यथानीकं बिभित्सता ।
आरुग्णाश्च यथा वीरा दुःसाध्याश्चापि विप्लुवे ॥
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे ।
वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

5-33-2 रजस्वला धूलिव्याप्ताः ॥ 5-33-9 विकृतवानन्यथा कृतवान् ॥ 5-33-15 कलाभिः सहितं सकलम् । इतोऽस्मत्तः । ततोऽन्यतः ॥ 5-33-21 षट््सु द्रोणद्रौणिकृपकर्णभोजशल्येषु ॥ 5-33-28 नैभृत्यं कृतकर्तव्याप्रकाशनम् ॥ 5-33-36 धर्मकर्तृभिर्मन्वादिभिः ॥ 5-33-33 त्रयस्त्रिंशोऽध्यायः ॥

श्रीः