अध्यायः 041
अभिमन्युपराक्रमवर्णनम् ॥ 1 ॥
सञ्जय उवाच ।
सोऽभ्यगच्छद्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः ।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥
सोऽपिध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् ।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥
पितृपैतामहं कर्म कुर्वाणमतिमानुषम् ।
दृष्ट्वार्दितं शरैः कार्ष्मिं त्वदीया हृषिताऽभवन् ॥
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा ।
शिरः प्रच्यावयामास तद्रथात्प्रापतद्भुवि ॥
कर्णिकारमिवाधूतं वातेनापतितं नगात् ।
`कर्णानुजं च सम्प्रेक्ष्य तावका व्यथिताऽभवन्' ।
भ्रातरं निहतं दृष्ट्वा कर्णश्चासीत्पराङ्मुखः ॥
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः ।
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ॥
ततस्तद्विततं सेन्यं हस्त्यश्वरथपत्तिमत् ।
क्रद्धोऽभिमन्युरभिनत्तिग्मतेजा महारथः ॥
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना ।
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्रवत् ॥
`तिंष्ठ कर्ण महेष्वास कृप दुर्योधनेति च ।
द्रोणस्य क्रोशतो राजंस्तदनीकमभज्यत' ॥
शलभैरिव चाकाशं धाराभिरिव पर्वतः ।
अभिमन्यो शरैश्छन्नं न प्राज्ञायत किञ्चन ॥
तावकानां तु योधानां वध्यतां निशितैः शरैः ।
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ॥
सौभद्रस्तु ततः शङ्खं प्रध्माय पुरुषर्षभः ॥
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ॥
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् ।
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ॥
रथनागाश्वमनुजानर्दयन्निशितैः शरैः ।
सम्प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम् ॥
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः ।
स्वानेवाभिमुखान्ध्नन्तः प्राद्रवञ्जीवितार्थिनः ॥
ते घोरा रौद्रकर्माणो विपाठा बहवः शिताः ।
निघ्न्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् ॥
सायुधाः साङ्गुलित्राणाः सगदाः साङ्गदा रणे ।
दृश्यन्ते बाहवश्चिन्ना हेमाभारणभूषिताः ॥
शराश्चापानि खङ्गाश्च शरीराणि शिरांसि च ।
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ॥
सोपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
अक्षैर्विमथितैश्चक्रैर्बहुधा पतितैर्युगैः ॥
शक्तिचापासिभिश्चैव पतितैश्च महाध्वजैः ।
चर्मचापशरैश्चैव व्यवकीर्णैः समन्तततः ॥
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशाम्पते ।
अगम्यरूपा पृथिवी क्षणेनासीत्सुदारुणा ॥
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् ।
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ॥
स शब्दो भरतश्चेष्ठ दिशः सर्वा व्यनादयत् ॥
सौभद्रश्चाद्रवत्सेनां घ्नन्वराश्वरथद्विपान् ॥
कक्षमग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् ।
मध्ये भारतसैन्यानामार्जुनिः प्रत्यदृश्यत ॥
विचरन्तं दिशः सर्वाः प्रदिशश्चापि भारत ।
तं तदा नानुपश्यामः सैन्ये च रजसाऽऽवृते ॥
आददानं गजाश्वानां णां चायुंषि भारत ।
क्षमेन भूयः पश्यामः सूर्यं मध्यंदिने यथा ॥
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ।
स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः ॥
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ।
`यथा पुरा वह्निसुतः सुरसैन्येषु वीर्यवान्' ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे एकचत्वारिंशोऽध्यायः ॥ 41 ॥
श्रीः