अध्यायः 044

कर्णेन युधिष्ठिरस्य पराजयपूर्वकमपहासः ॥ 1 ॥ सङ्कुलयुद्धम् ॥ 2 ॥

सञ्जय उवाच ।
विदार्य कर्णस्तां सेनां युधिष्ठिरमथाद्रवत् ।
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥
नानायुधसहस्राणि प्रेरितान्यरिभिर्वृषः ।
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमात् ॥
निचकर्त शिरांस्येषां बाहूनूरूंश्च सूतजः ॥
ते हता भूतले पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः ।
प्रभ्यद्रवञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः ।
पेतुः पृथिव्यां युगपच्छिन्नं सालवनं यथा ॥
एवं योधशतान्याजौ सहस्राण्ययुतानि च ।
हतानीयुर्महीं देहैर्यशसाऽपूरयन्दिशः ॥
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् ।
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधा इव ॥
स तान्प्रमृद्याब्यपतत्पुनरेव युधिष्ठिरम् ।
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः ।
नाशकत्तानतिक्रान्तुं मृत्युर्ब्राह्मविदो यथा ॥
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् ।
`तैर्योधप्रमुखैर्वीरं दृष्ट्वा विव्याध सायकैः ॥
कर्णः पार्थशराविद्धस्तोत्रार्दित इव द्विपः ।
प्रमथ्य सहितान्वीरान्युधिष्ठिरमपीडयत् ॥
ततो युधिष्ठिरः कर्णमासाद्य जयतां वरम्' ।
अब्रवीत्परवीरघ्नं क्रोधसंरक्तलोचनः ॥
कर्णकर्ण वृथादृष्टे सूतपुत्र वचः शृणु ।
सदा स्पर्धसि सङ्ग्रामे फल्गुनेन तरस्विना ॥
यथाऽस्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ।
यद्बलं यच्च ते वीर्यं प्रद्वेषो यस्तु पाण्डुषु ॥
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ।
युद्धश्रद्वां च तेऽद्याहं विनेष्यामि महाहवे ॥
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा ।
सुवर्णपुङ्खैर्दशभिर्विव्यादायस्मयैः शरैः ॥
तं सूतपुत्रो दशभिः प्रत्यविद्ध्यदरिन्दमः ।
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥
सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण पाण्डवः ।
प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः ॥
ज्वालामालापरिक्षिप्तो राज्ञो देहो व्यदृश्यत ।
युगान्ते दग्धुकामस्य संवर्ताग्नेरिवापरः ॥
ततो विस्फार्य सुमहच्चापं हेमपरिष्कृतम् ।
समाधत्त शितं बाणं गिरीणामपि दारणम् ॥
ततः पूर्णायतोत्कृष्टं यमदण्डनिभं शरम् ।
मुमोच त्वरितो राजा सूतपुत्रजिघांसया ॥
स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः ।
विवेश सहसा कर्णं सव्ये पार्श्वे महारथम् ॥
स तु तेन प्रहारेण पीडितः प्रमुमोह वै ।
स्रस्तगात्रो महाबाहुर्धनुरुत्सृज्य कम्पितः ॥
गतासुरिव निश्चेताः शल्यस्याभिमुखोऽपतत् ।
राजाऽपि भूयो नाजघ्ने कर्णं पार्थहितेप्सया ॥
ततो हाहाकृतं सर्वं धार्तराष्ट्रबलं महत् ।
विवर्णमुखमार्तं च कर्णं दृष्ट्वा तथागतम् ॥
सिंहनादाश्च सञ्जज्ञुः क्ष्वेलाः किलकिलास्तथा ।
पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम् ॥
प्रतिलभ्य तु राधेयः संज्ञां नातिचिरादिव ।
दध्रे राजविनाशाय मनः क्रूरपराक्रमः ॥
स हेमविकृतं चापं विस्फार्य विजयं महत् ।
अवाकिरदमेयात्मा पाण्डवं निशितैः शरैः ॥
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः ।
जघान चन्द्रदेवं च दण्डधारं च संयुगे ॥
तावुभौ धर्मराजस्य प्रवीरौ युधि भारत ।
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥
युधिष्ठिरः पुनः कर्णमविद्व्यत्त्रिंशता शरैः ।
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् ।
तांस्तस्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥
ततः प्रहस्याधिरथिः षष्ठ्या राजञ्शितैः शरैः ।
विद्ध्वा युधिष्ठिरं सङ्ख्ये ननादातिरथस्तदा ॥
ततः प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः ।
युधिष्ठिरं परीप्सन्तः कर्णमभ्यर्दयञ्छरैः ॥
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च ।
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः ।
कारूशा मात्स्यशेषाश्च केकयाः काशिकोसलाः ॥
एते च त्वरिता वीरा वसुषेणमताडयन् ।
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः ॥
वाराहकर्णनाराचैर्नालीकैर्निशितैः शरैः ।
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिभिः ।
सर्वतोऽभ्यद्रवत्कर्णं परिवार्य जिघांसया ॥
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः ।
छाद्यमानः शिततैर्घोरैः स्वस्वनामाङ्कितैः शरैः ॥
न चचाल रणे कर्णो महेन्द्रो दानवैरिव ।
`निजघान महेष्वासान्पाञ्चालानेकविंशतिम् ॥
ततः पुनरमेयात्मा चेदीनां प्रवरान्दश ।
न्यहनद्भरतश्रेष्ठ कर्णो वैकर्तनस्तदा ॥
तस्य बाणसहस्राणि सम्प्रपन्नानि मारिष ।
दृश्यन्ते दिक्षु सर्वासु शलभानामिव व्रजाः ॥
कर्णनामाङ्किता बाणाः स्वर्णपुङ्खाः सुतेजनाः ।
नराश्वकायान्निर्भिद्य पेतुरुर्व्यां समन्ततः ॥
कर्णेनैकेन समरे चेदीनां प्रवरास्तदा ।
सृज्जयानां च सर्वेषां शतशो निहता रणे ॥
कर्णस्य शरसञ्छन्नं बभूव तुमुलं तमः ।
नाज्ञायत ततः किञ्चित्परेषामात्मनोऽपि वा ॥
तस्मिंस्तमसि भूते च क्षत्रियाणां भयङ्करे ।
विचचार महबिहुर्निर्दहन्क्षत्रियान्बहून्' ॥
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः ।
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥
`ततस्तेषां महाराज पाण्डवानां महारथाः । सृञ्जयानां च सर्वेषां शतशोऽथ सहस्रशः ।
अस्त्रैः कर्णं महेष्वासं समन्तात्पर्यवारयन् ॥
स संवार्य महास्त्राणि महेष्वासो महात्मनाम् ।
प्रहस्य पुरुषेन्द्रस्य कर्णश्चिच्छेद कार्मुकम्' ॥
ततः सन्धाय नवतिं निमेषान्नतपर्वणाम् ।
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥
तद्वर्म हेमविकृतं रत्नचित्रं बभौ पतत् ।
सविद्युदभ्रं सवितुः श्लिष्टं वातहतं यथा ॥
तदङ्गात्पुरुषेन्द्रस्य भ्रष्टं वर्म व्यरोचत ।
रत्नैरलंवृतं चित्रेर्व्यभ्नं निशि यथा नभः ॥
भिन्नवर्मा शरैः पार्थो रुधिरेण समुक्षितः ।
बभासे पुरुषश्रेष्ठ उद्यन्निव दिवाकरः ॥
स शराचितसर्वाङ्गश्छिन्नवर्माऽथ संयुगे ।
क्षात्रं धर्मं समास्थाय सिंहनादमकुर्वत ॥
नर्दित्वा च चिरं कालं पाण्डवो रभसो रणे ।
शक्तिं चिक्षेप वेगेन प्रदीप्तामशनीमिव ॥
तां ज्वलन्तीमिवाकाशे शक्तिं शप्तभिराशुगैः ।
भल्लैश्चिच्छेद राधेयः सा त्वशीर्यत वै रणे ॥
हृदि बाह्वोर्ललाटे च क्षिप्रकारी युधिष्ठिरः ।
चतुर्भिस्तोमरैः कर्णं ताडयित्वाऽनदन्मुदा ॥
उद्भिन्नरुधिरः कर्णः क्रुद्वः सर्प इव श्वसन् ।
जघान सूतं पार्थस्य पार्ष्ठिं च नवभिः शरैः ॥
ध्वजं चिच्छेद नृपतेस्त्रिभिर्विव्याध चैव तम् ।
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥
एतस्मिन्नन्तरे शूराः पाण्डवानां महारथाः ।
ववृषुः शरवर्षाणि राधेयं प्रति भारत ॥
सात्यकिः पञ्चविंशत्या शिखण्डी नवभिः शरैः ।
अवर्षतां महाराज राधेयं शत्रुकर्शनम् ॥
शैनेयं तु ततुः क्रुद्धः कर्णः पञ्चभिरायसैः ।
विव्याध समरे राजंस्त्रिभिश्चान्यैः शिलीमुखैः ॥
दक्षिणं तु भुजं तस्य त्रिभिः कर्णोऽभ्यविध्यत ।
सव्यं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।
सूतपुत्रोऽनयत्क्षिप्रं यमस्य सदनं प्रति ॥
अथापरेण भल्लेन धनुश्छित्त्वा महारथः ।
सारथेः सशिरस्त्राणं शिरः कायादपाहरत् ॥
हताश्वसूते तु रथे स्थितः स शिनिपुङ्गवः ।
शक्तिं चिक्षेप कर्णाय वैदूर्यमणिभूषिताम् ॥
तामापतन्तीं सहसा द्विधा चिच्छेद भारत ।
कर्णो वै धन्विनां श्रेष्ठस्तांश्च सर्वानवारयत् ॥
ततस्तान्निशितैर्बाणैः पाण्डवानां महारथान् ।
न्यवारयदमेयात्मा शिक्षया च बलेन च ॥
अर्दयित्वा शरैस्तांस्तु सिंहः क्षुद्रमृगानिव । पीडयन्धर्मराजानं शरैः सन्नतपर्वमिः ।
अभ्यद्रवत राधेयो धर्मपुत्रं शितैः शरैः ॥
ततः पार्षो ह्यपासासीद्वताश्वो हतसारथिः ।
अशक्नुवन्मुखे स्थातुं ततः कर्णस्य दुर्मनाः ॥
तमभिद्रुत्य राधेयः पाण्डुपुत्रं युधिष्ठिरम् ।
अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ॥
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः ।
प्रजह्यात्समरे शत्रून्प्राणान्रक्ष महाहवे ॥
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः ।
ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ॥
मा स्म युध्यस्व कौन्तेय मा स्म वीरान्समासदः ।
मा चैवं विप्रियं ब्रूहि मा च त्वं भज संयुगम् ॥
वक्तव्या मारिषाऽन्ये तु न वक्तव्यास्तु मादृशाः ।
मादृशान्हि ब्रुवन्युद्धे एतदन्यच्च लप्स्यसे ॥
स्वगृहं गच्छ कौन्तेय यत्र वा केशवार्जुनौ ।
न हि त्वां समरे राजन्हन्यात्कर्णः कथञ्चन ॥
सञ्जय उवाच ।
वरप्रदानं कुन्त्यास्तु कर्णः स्मृत्वा महारथः ।
वधप्राप्तं तु कौन्तेयं नावधीत्पुरुषोत्तमः ॥
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः ।
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ॥
ततोऽपायाद्द्रुतं राजन्व्रीडन्निव नरेश्वरः ॥
अथापयातं राजानं मत्वाऽन्वीयुस्तमच्युतम् । चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ।
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् ।
कुरुभिः सहितो वीरः प्रहृष्टः पृष्ठतोऽन्वगात् ॥
भेरीशङ्खमृदङ्गानां कार्मुकाणां च निःस्वनः ।
बभूव धार्तराष्ट्राणां सिंहनादरवस्तथा ॥
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरम् ।
श्रुतकीर्तेर्महाराज दृष्ट्वा तत्कर्णविक्रमम् ॥
काल्यमानं बलं दृष्ट्वा सूतपुत्रेण मारिष ।
स्वान्योधानब्रवीत्क्रुद्वो निघ्नतैतान्किमासत ॥
ततो राज्ञाऽभ्यनुज्ञाताः पाण्डवानां महारथाः ।
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥
अभवत्तुमुलः शब्दो योधानां तत्र भारत । रथहस्त्यश्वपत्तीनां द्रवतां निनदो महान् ।
उद्यतप्रतिविष्टानां शस्त्राणां च ततस्ततः ॥
आगच्छत प्रहरत क्षिप्रं विपरिधावत ।
इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा महारणे ॥
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे ।
समावृतैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥
विपताकध्वजच्छत्रा व्यश्वसूतरथायुधाः । व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणाः क्षितीश्वराः ।
शिखराणीव शेलानां वज्रभिन्नानि मानिष ॥
सारोहा निहताः पेतुर्द्विपा भिन्ना महीतले ।
छिन्नभिन्नविपर्यस्तवर्मालङ्कारविग्रहाः ॥
सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः । विप्रविद्वायुधाङ्गाश्च द्विरदा रथिभिर्हताः ।
प्रतिवीरैश्च सम्मर्दे पत्तिसङ्घाः सहस्रशः ॥
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः ।
शिरोभिर्युद्धशौण्डानां सर्वतः संवृता मही ॥
यथा भुवि तथा व्योम्नि निःस्वनं शुश्रुवुर्जनाः ।
विमानेऽप्सरसां सङ्घैर्गीतवादित्रनिःस्वनैः ॥
हतानभिमुखान्वीरान्वीरैः शतसहस्रशः ।
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ॥
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया ।
प्रहृष्टमनसः शूराः क्षिप्रं जघ्नुः परस्परम् ॥
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे ।
पत्तयः पत्तिभिर्नागाः सह नागैर्हयैर्हयोः ॥
एवं प्रवृत्ते सङ्ग्रामे गजवाजिनरक्षये ।
सैन्येन रजसा वृत्तते स्वे स्वाञ्जघ्नुः परे परान् ॥
कचाकचं युद्धमासीद्दन्तादन्ति नखानखि ।
मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् ॥
तथा वर्ततति सङ्ग्रमे गजवाजिनरक्षये ।
नराश्वनागदेहेभ्यः प्रसृता लोहितापगा ॥
गजाश्वनरदेहान्सा व्युवाह पतितान्बहून् ।
नराश्वगजसम्बाधे नराश्वगजसादिनाम् ॥
लोहितोदा महाघोरा मांसशोणितकर्दमा ।
नराश्वगजदेहान्वै वहन्ती भीरुभीषणा ॥
तस्या नद्याः परं पारं व्रजन्ति विजयैषिणः ।
नागेन च प्लवन्तो वै निमज्ज्योन्मज्ज्य चापरे ॥
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः ।
सस्नुस्ततस्यां पपुश्चास्रं मम्लुश्च भरतर्षभ ॥
रथानश्वान्नारान्नागानायुधाभरणानि च । वर्माणि चाप्यपश्याम पतितानि सहस्रशः ।
खं द्यां भूमिं दिशश्चैव प्रायः पश्याम लोहिताः ॥
लोहितस्य तु गन्धेन स्पर्देन च रसेन च । रूपेण चातिरक्ततेन शब्देन च विसर्पता ।
विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ॥
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव ।
भूयः समाद्रवन्वीराः सातत्यकिप्रमुखास्तदा ॥
तेषामापतततां वेगमविषह्यं निरीक्ष्य च ।
पुत्राणां ते महासैन्यमासीद्राजन्पराङ्मुखम् ॥
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् ।
विध्वस्तवर्मकवचं प्रविद्वायुधकार्मुकम् ॥
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः ।
सिंहार्दितमिवारण्ये यथा गजकुलं तथा ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

8-44-8 मन्त्रौषधक्रिया व्याधिर्विधिहीनक्रिया इव इति ख.ट.पाठः ॥ 8-44-19 कचाकचि युद्धं इति झ.पाठः ॥ 8-44-44 चतुश्चत्वारिंशोऽध्यायः ॥

श्रीः