अध्यायः 100

कर्णवधानन्तरं कृष्णार्जुनयोर्युधिष्ठिरसमीपगमनम् ॥ 1 ॥

सञ्जय उवाच ।
शरसङ्कृत्तवर्माणं रुधिरोक्षितवक्षसम् ।
गतासुमपि राधेयं नैव लक्ष्मीर्विमुञ्चति ॥
तप्तजाम्बूनदनिभं बालार्कसदृशद्युतिम् ।
जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे ॥
हतस्यापि महाराज सूतपुत्रस्य संयुगे ।
वित्रेसुः सर्वतो योधाः सिंहस्येवेतरे मृगाः ॥
हतोऽपि पुरुषव्याघ्रो व्याहरन्निव लक्ष्यते ।
नाभवद्विकृतिः काचिन्मृतस्यापि महात्मनः ॥
चारुवेषधरं राजंश्चारुमौलिशिरोधरम् ।
तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति ॥
कनकोत्तमसह्काशो ज्वलन्निव विभावसुः ।
स शान्तः पुरुषव्याघ्रः पार्थसायकवारिणा ॥
यथाऽग्निर्ज्वलनो दीप्तो जलमासाद्य शाम्यति ।
कर्णाग्निः समरे तद्वत्पार्थमेघेन शामितः ॥
आहृत्य स यशो दीप्तं सुयुद्धेनात्मनो भुवि ।
सपुत्रः समरे कर्णः प्रशान्तः पार्थतेजसा ॥
प्रताप्य पाण्डवान्सर्वान्पाञ्चालानस्त्रतेजसा ।
नानाभरणवान्रजंस्तप्तजाम्बूनदप्रभः ॥
वर्षित्वा शरवर्षाणि प्रताप्य रिपुवाहिनीम् । श्रीमानिव सहस्रांशुर्ज्वलन्सर्वान्प्रताप्य च ।
हतो वैकर्तनः कर्णः पादपोऽङ्कुरवानिव ॥
ददानीत्येव यः प्रादान्न नास्तीत्यर्थितोऽवदत् ।
सद्ध्यः सदा सत्पुरुषः स हतो द्वैरथे वृषा ॥
यस्य ब्राह्मणसात्सर्वं वित्तमासीन्महात्मनः ।
नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ॥
स दातॄणां प्रियो राजन्दाता चैव मनोरथान् ।
स पार्थास्त्रविनिर्दग्धो गतः परमिकां गतिम् ॥
यमाश्रित्याकरोद्वैरं सुतस्ते स गतो दिवम् ।
आदाय तव पुत्राणां जयाशां सर्म वर्म च ॥
हते च कर्णे सरितो न सस्रु-- र्जगाम चास्तं कलुषो दिवाकरः ।
श्वेतो ग्रहश्च ज्वलितार्कवर्णो यमस्य पुत्रोऽभ्युदितः स तिर्यक् ॥
नभश्चचालाथ ननाद चोर्वी ववुश्च वाताः परुषाश्च घोराः ।
दिशो बभूवुर्ज्वलिताः सधूमा महार्णवाः सस्वनुश्चुक्षुभुश्च ॥
सकाननाश्चाद्रिवराश्चकम्पिरे प्रविव्यथुर्भूतगणाश्च मारिष ।
बृहस्पतिः सम्परिवार्य रोहिणीं बभूव चन्द्रार्कसमो विशाम्पते ॥
हते कर्णे न दिशो विप्रचाराः सचन्द्रार्का द्यौर्विचचाल भूमिः ।
पपात चोल्का ज्वलनप्रभा च निशाचरा हृष्टतरा बभूवुः ॥
शशिप्रकाशाननमर्जुनो यदा जहार कर्णस्य शिरः शरेण ।
ततोऽन्तरिक्षे सहसैव शब्दो बभूव हाहेति सुरैर्विमुक्तः ॥
सदेवगन्धर्वमनुष्यपूजितं निहत्य कर्णं रिपुमाहवेऽर्जुनः ।
रराज राजन्परमेण तेजसा यथा पुरा वृत्रवधे शतक्रतुः ॥
पताकिना भीमनिनादकेतुना रथेन शङ्खस्फटिकावभासिना ।
महेन्द्रवाहप्रतिमेन तावुभौ महेन्द्रवीर्यप्रतिमानपौरुषौ ॥
सुवर्णमुक्तामणिवज्रविद्रुमै-- रलङ्कृतेनाप्रतिमेन रंहसा ।
नरोत्तमौ यादवपाण्डुनन्दनौ दिवाकरौ दीप्तहुताशनाविव । रणाजिरे वीतभयौ विरेजतुः समानयोगाविव विष्णुवासवैः ॥
ततो धनुर्ज्यातलनेमिनिस्वनैः प्रसह्य कृत्वा च रिपून्गतप्रभान् ।
स साधयित्वा च रिपूञ्शरौघैः कपिध्वजः पक्षिवरध्वजश्च । प्रदध्मतुः शङ्खवरौ सुघोषौ मनांस्यरीणामुपतापयन्तौ ॥
सुवर्णजालावततौ महास्वनौ हिमावदातौ परिगृह्य पाणिमिः ।
चुचुम्बतुः शङ्खवरौ नृणां वरौ विघोषयन्तौ विजयं जगत्त्रये ॥
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः ।
पृथिवीमन्तरिक्षं च दिशश्च समपूरयत् ॥
वित्रस्ताश्चाभवन्सर्वे कुरवो राजसत्तम ।
शूरयोः शङ्खशब्देन माधवस्यार्जुनस्य च ॥
तौ शङ्खशब्देन निनादयन्तौ वनानि शैलान्सरितो गुहाश्च ।
वित्रासयन्तौ तव पुत्रसेनां युधिष्ठिरं नन्दयितुं प्रयातौ ॥
ततः प्रजग्मुः कुरवो जवेन श्रुत्वैव शङ्खस्वनमीर्यमाणम् ।
विहाय मद्राधिपतिं पतिं च दुर्योधनं भारत भारतानाम् ॥
ततो रथेनाम्बुदबृन्दनादिना शरद्वहर्मध्यदिवाकरत्विषा ।
धनञ्जयस्याधिरथेश्च विस्मिताः प्रशंसमानाः प्रययुस्तदाऽर्जुनम् ॥
महाहवे तं बहुशोभमानं धनञ्जयं योधगणैः समेताः ।
तावन्वमोदंश्च जनाः प्रकामं प्रभाकरावभ्युदितौ यथैव ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि शततमोऽध्यायः ॥ 100 ॥

8-100-13 सदा स्त्रीणां प्रिय इति झ.पाठः ॥ 8-100-100 शततमोऽध्यायः ॥

श्रीः