अध्यायः 020

युधिष्ठिरेण दुर्योधनपराजयः ॥ 1 ॥

धृतराष्ट्र उवाच ।
अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।
त्वत्तोऽहं सञ्जयाश्रौषं पुत्राणां चैव सङ्क्षयम् ॥
यथा त्वं मे कथयसे यथा युद्वमवर्तत ।
न सन्ति सूत कौरव्या इति मे निश्चिता मतिः ॥
दुर्योधनश्च विरथः कृतस्तत्र महारथः ।
धर्मपुत्रः कथं चक्रे तस्य वा नृपतिः कथम् ॥
अपराह्णे कथं युद्वमभवद्रोमहर्षणम् ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥
सञ्जय उवाच ।
संसक्तेषु तु सैन्येषु वध्यमानेषु भागशः ।
रथमन्यं समास्थाय पुत्रस्तव विशाम्पते ॥
क्रोधेन महता युक्तः सविषो भुजगो यथा । दुर्योधनः समालक्ष्य धर्मराजं युधिष्ठिरम् ।
प्रोवाच सूतं त्वरितो याहियाहीति भारत ॥
तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः ।
ध्रियमाणातप्रतेण राजा राजति दंशितः ॥
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् ।
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥
ततो युधिष्ठिरः क्रुद्वः प्रभिन्न इव कुञ्जरः ।
सारथिं चोदयामास याहि यत्र सुयोधनः ॥
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ॥
समेत्य च महावीरौ संरब्धौ युद्वदुर्मदौ ।
ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥
ततो दुर्योधनो राजा धर्मशीलस्य मारिष ।
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ॥
तं नामृष्यत सङ्क्रुद्धो ह्यवमानं युधिष्ठिरः ।
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ॥
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ।
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च ॥
अथान्यद्वनुरादाय पुत्रस्ते भरतर्षभ । `युधिष्ठिरस्य चिक्षेप शरान्कनकभूषणान् ।
रुक्मपुङ्खान्प्रसन्नाग्रान्सविषानिव पन्नगान्' ॥
तावन्योन्यं सुसङ्क्रुद्धौ शस्त्रवर्षाण्यमुञ्चताम् ।
सिंहाविव सुसंरब्धौ परस्परजिगीषया ॥
जघ्नतुस्तौ रणेऽन्योन्यं नर्दमानौ वृषाविव ।
अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ ॥
ततः पूर्णायतोत्सृष्टैः शरैस्तौ तु कृतव्रणौ ।
विरेजतुर्महाराज किंशुकाविव पुष्पितौ ॥
ततो राजन्विमुञ्चन्तौ सिंहनादान्मुहुर्मुहुः ।
तलयोश्च तथा शब्दान्धनुषश्च महाहवे ॥
शङ्खशब्दवरांश्चैव चक्रतुस्तौ नरेश्वरौ ।
अन्योन्यं तौ महाराज पीडयांचक्रतुर्भृशम् ॥
ततो युधिष्ठिरो राजा पुत्रं तव शरैस्त्रिभिः ।
आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः ॥
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिः ।
पञ्चभिर्निशितैर्बाणैः स्वर्णपुङ्खैः शिलाशितैः ॥
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत ।
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥
तामापतन्तीं सहसा धर्मराजः शितैः शरैः ।
त्रिभिश्चिच्छेद सहसा तं च विव्याध पञ्चभिः ॥
निपपात ततः साऽथ स्वर्णदण्डा महास्वना ।
निपतन्ती महोल्केव व्यराजच्छिखिसन्निभा ॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते ।
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥
सोऽतिविद्वो बलवता शत्रुणआ शत्रुतापनः ।
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥
समाधत्त च तं बाणं धनुर्मध्ये महाबलः ।
चिक्षेप च महाराज ततः क्रुद्वः पराक्रमी ॥
स तु बाणः समासाद्य तव पुत्रं महारथम् ।
व्यामोहयत राजानं धरणीं च ददार ह ॥
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः ।
विधित्सुः कलहस्यान्तं धर्मराजमुपाद्रवत् ॥
तमुद्यतगदं दृष्ट्वा दण्डहस्तमिवान्तकम् ।
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ॥
दीप्यमानां महावेगां महोल्कां ज्वलितामिव ।
यमदण्डनिभां घोरां कालरात्रिमिवापराम् ॥
रथस्थः स तया विद्वो वर्म भित्त्वा स्तनान्तरे ।
भृशं संविग्नहृदयः पपात च मुमोह च ॥
नभस्तमाह च ततः प्रतिज्ञामनुपालय ।
नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत ॥
ततस्त्वरितमागम्य कृतवर्मा तवात्मजम् ।
प्रत्यपद्यत राजानं निम्नं व्यसनार्णवे ॥
गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम् ।
अभिदुद्राव वेगेन कृतवर्माणमाहवे ॥
एवं तदभवद्युद्धं त्वदीयानां परैः सह ।
अपराह्णे महाराज काङ्क्षतां विजयं युधि ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे विंशोऽध्यायः ॥ 20 ॥

8-20-1 अतितीव्राणि युद्धानीति क.ट.ड.पाठः ॥ 8-20-3 तस्य तं च नृपतिर्दुर्योधनः कथमयुध्यत इति शेषः ॥ 8-20-13 अपविध्य त्यक्त्वा ॥ 8-20-23 सर्वपारशवीं सर्वपारशवीं सर्वविनाशिनीं गौरादिः । तिरस्कारे विनाशे च पुंसि पारशवः इति मेदिनी ॥३ 8-20-25 दीपयन्ती महोल्काभा राजञ्शक्तिर्दिशो दश इति ड.पाठः ॥ 8-20-34 भीमस्तमाह च ततः प्रतिज्ञामनुचिन्तयन् इति झ.पाठः ॥ 8-20-20 विंशोऽध्यायः ॥

श्रीः