अध्यायः 023
दुर्योधनप्रार्थनया शल्येन
कृच्छ्रात्कर्णरथसारथ्यकरणाक्ष्युपगमः ॥ 1 ॥
एवमुक्तो महाराज तव पुत्रः प्रतापवान् ।
मद्रेश्वरं प्रति रणे सुरसैन्यभयङ्करम् ।
सर्वं तथाऽकरोत्तूर्णं राधेयस्तद्यथाऽब्रवीत् ॥
मद्राजं च समरे प्रणम्य च महारथम् ।
विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत् ॥
सत्यव्रत महाभाग द्विषतां तापवर्धन ।
मद्रेश्वर रणेशूर परसैन्यभयङ्कर ॥
`मत्प्रियार्थं हितार्थं च तथा पार्थवधाय च' ।
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर ।
यथा नृपतिसिंहानां मध्ये त्वां वरये स्वयम् ॥
तत्त्वामप्रतिवीर्याद्य शत्रुपक्षक्षयावह ।
मद्रेश्वर प्रयाचेऽहं शिरसा विनयेन च ॥
तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि ।
त्वं पाहि सर्वतः कर्णं भवं ब्रह्मेव सुव्रत ॥
सारथ्यं रथिनां श्रेष्ठ प्रणयात्कर्तुमर्हसि ।
त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते ॥
अभीषूणां हि कर्णस्य ग्रहीतान्यो न विद्यते ।
ऋते हि त्वां महाभाग वासुदेवसमं युधि ॥
स पाहि सर्वथा कर्णं यथा ब्रह्मा महेश्वरम् ।
यथा च सर्वथाऽऽपत्सु वार्ष्णेयः पाति पाण्डवम् ।
तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय ॥
भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् ।
शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ॥
एवमेष कृतो भागो नवधा पृथिवीपते ।
न च भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः ॥
ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ।
वृद्वौ हि तौ महेष्वासौ छलेन निहतौ युधि ॥
कृत्वा चासुकरं कर्म गतौ स्वर्गमितोऽनघ ।
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि ॥
अस्मदीयाश्च बहवः स्वर्गाय गमिताः परैः ।
त्यक्त्वा प्राणानय्थाशक्ति चेष्टां कृत्वा च पुष्कलाम् ।
तदिदं हतभूयिष्ठं बलं मम नराधिप ।
पूर्वमप्यल्पकैः पार्थैर्हतं किमुत साम्प्रतम् ॥
बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः ।
बलं शेषं न हन्युर्मे यथा तत्कुरु पार्थिव ॥
हतवीरमिदं सैन्यं पाण्डवैः समरे विभो ।
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः ॥
भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः ।
शल्य कर्णोऽर्जुनेनाद्य योद्वुमिच्छति संयुगे ॥
तस्मिञ्जयाशा विपुला मद्रराज नराधिप ।
तस्याभीषुग्रहवरो नान्योऽस्ति भुवि कश्चन ॥
पार्थस्य समरे कृष्णो यथाऽभीषुग्रहो वरः ।
तथा त्वमपि कर्णस्य रथेऽभीषुग्रहो भव ॥
तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव ।
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव तत् ॥
पूर्वं नः समरे ह्येवमधीदर्जुनो रिपून् ।
इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च ॥
कृष्णेन सहितः पार्थो धार्तराष्ट्रीं महाचमूम् ।
अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ॥
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते ।
तं भागं सह कर्णेन युगपन्नाशयाद्य हि ॥
अरुणेन यथा सार्धं तमः सूर्यो व्यपोहति ।
तथा कर्णेन सहितो जहि पार्थं महाहवे ॥
उद्यन्तौ च यथा सूर्यौ बालसूर्यसमप्रभौ ।
कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः ॥
सूर्यारुषौ यथा दृष्ट्वा तमो नश्यति मारिष ।
तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः ॥
रथिनां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् ।
संयोगो युवयोर्लोके नाभून्न च भविष्यति ॥
यथा सर्वास्ववस्थासु वार्ष्मेयः पाति पाण्डवम् ।
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ।
`सारथ्यं क्रियतां तस्य युध्यमानस्य संयुगे ॥
यथा च समरे कृष्णो रक्षते सर्वतोऽर्जुनम् ।
तथा त्वमपि राधेयं रक्षस्व च महारणे' ॥
त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति ।
देवतानामपि रणे सशक्राणां महीपते ।
किं पुनः पाण्डवेयानां मा विशङ्कीर्वचो मम ॥
सञ्जय उवाच ।
दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः ।
`धार्तराष्ट्रमथोवाच सृक्विणी परिलेलिहन्' ॥
त्रिशिखां भ्रुकुटिं कृत्वा धुन्वन्हस्तौ पुनःपुनः ।
क्रोधरक्ते महानेत्रे परिवृत्य महाभुजः ।
कुलैश्वर्यश्रुतबलैर्दृप्तः शल्योऽब्रवीदिदम् ॥
शल्य उवाच ।
न मामर्हसि राजेद्र नियोक्तुं कर्मणीदृशे ।
न हि पापीयसः श्रेयान्प्रेष्यत्वं कर्तुमर्हति ॥
यो ह्यभ्युपगतं मित्रं गरीयांसं विशेषतः ।
वशे पापीयसो धत्ते तत्कार्यमधरोत्तरम् ॥
ब्रह्मणा ब्राह्मणाः सृष्टा मुखात्क्षत्रं च बाहुतः ।
ऊरुभ्यामथ वैश्या वै शूद्राः पद्भ्यामिति श्रुतिः ॥
तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ।
अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत ॥
गोप्तारः सङ्गृहीतारो दातारः क्षत्रियाः स्मृताः ॥
याजनाध्यापनैर्विप्रा विशुद्वैश्च प्रतिग्रहैः ।
लोकस्यानुग्रहार्थाय स्थापिता ब्राह्मणा भुवि ॥
कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः ।
ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ॥
ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः ।
न क्षत्रियो वै सूतानां शृणुयाच्च कथञ्चन ॥
अहं मूर्धाभिषिक्तो हि राजर्षिकुलजो नृपः ।
महारथसमाख्यातः सेव्यः स्तुत्यश्च वन्दिनां ॥
सोऽमहेतादृशो भूत्वा नेहारिबलसूदनः ।
सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे ॥
अवमन्यसे मां गान्धारे ध्रुवं चाप्यतिशङ्कसे ।
यस्माद्ब्रवीषि विस्रब्धः सारथ्यं क्रियतामिति ॥
अस्मत्तोऽभ्यधिकं कर्णं मन्वानस्तं प्रशंससि ।
न चाहं युधि राधेयं गणये तुल्यमात्मनः ॥
आदिश्यतामभ्यधिको ममांशः पृथिवीपते ।
तमहं समरे हत्वा गमिष्यामि यथागतम् ॥
अथवाप्येक एवाहं योत्स्यामि तव शत्रुभिः ।
पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून् ॥
न चापि कामान्कौरव्य निधाय हृदये पुमान् ।
अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ॥
अपि चाप्यवमानो मे न कर्तव्यः कथञ्चन ।
पश्य भीमौ मम भुजौ वज्रसंहननौ दृढौ ॥
धनुः पश्य च मे चित्रं शरांश्चाशीविषपमान् ।
रथं च पश्य मे चित्रं सदश्वैर्वातवेगिभिः ॥
गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ।
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् ।
शोषयेयं समुद्रांश्च पातयेयं च भास्करम् ॥
तं मामेवंविधं राजन्समर्थमरिनिग्रहे ।
कस्माद्युनङ्क्षि सारथ्ये सूतस्याधिरथेस्तु माम् ॥
न चापि मम राधेयः कलामर्हति षोडशीम् ॥
सकर्णा ये त्रयो लोकाः सार्जुनाः सजनार्दनाः ।
निबद्वांस्तन्त्रणे राजन्न गणेयं कथञ्चन ॥
न चाहं प्राकृतः कश्चिन्न चास्म्यधिगतः स्वयम् ।
अयं चाप्यवमानो मे न कर्तव्यः कथञ्चन ॥
आपृच्छे त्वाद्य गान्धारे यास्यामि विषयं प्रति ।
न चाहं सूतपुत्रस्य सारथ्यमुपजग्मिवान् ॥
अवमानमहं प्राप्य न योत्स्यामि कथञ्चन ।
आपृच्छे त्वाऽद्य गान्धारे गमिष्यामि गृहाय वै ॥
सञ्जय उवाच ।
एवमुक्त्वा महाराज शल्यः समितिशोभनः ।
उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ॥
प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव ।
अब्रवीन्मधुरं वाक्यं साम्ना सर्वार्थसाधकम् ॥
यथा शल्य त्वमात्थेदमेवमेतदसंशयम् ।
अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ॥
न कर्णोऽभ्यधिकस्त्वत्तो न चान्ये चैव पार्थिवाः ।
न च मद्रेश्वर त्वां वै कृष्णः सोढुं च शक्ष्यति ॥
ऋतमेव हि पूर्वास्ते वदन्ति पुरुषोत्तमाः ।
तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ॥
शल्यबूतस्तु शत्रूणां यस्मात्त्वं युधि मानद ।
तस्माच्छल्येति ते नाम कथ्यते पृथिवीतले ॥
यदेतद्व्याहृतं पूर्वं भवता भूरिदक्षिण ।
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यते ॥
न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् ।
वृणेऽहं त्वां हयाग्र्याणां यन्तारमिह संयुगे ॥
मन्ये चाभ्यधिकं शल्य गुणैः कर्णं धनञ्जयात् ।
भवन्तं वासुदेवाच्च लोकोऽयमतिमन्यते ॥
कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ ।
भवानभ्यधिकः कृष्णादश्वज्ञाने बले तथा ॥
यथाऽश्वहृदयं वेद वासुदेवो महामनाः ।
द्विगुणं त्वं तथा वेत्सि मद्रराजेश्वरात्मज ॥
शल्य उवाच ।
यन्मां ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव ।
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः ।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति ।
उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ ॥
सञ्जय उवाच ।
तथेति राजन्पुत्रस्ते सह कर्णेन भारत ।
अब्रवीन्मद्रराजस्य मतं भरतसत्तम् ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥
8-23-8 अभीषूणां हयरश्मीनाम् ॥ 8-23-22 पुनर्नः समरे
राजन्मावधीदर्जुनो रिपून् । इति क.पाठः ॥ 8-23-29 त्रातु त्रायताम् ॥ 8-23-34
पापीयसः नीचयोनेः प्रेष्यत्वं दासत्वम् ॥ 8-23-41 न विट््शूद्रस्य संयोगं शृणु
चान्यं ममानघ इति क.ख.पाठः ॥ 8-23-62 ऋतमेव अयनं आश्रयो येषां ते ऋतायनास्तेषां
गोत्रापत्यमार्तायनिस्त्वम् ॥ 8-23-71 वाच उत्सृजेयं ताः अनेन क्षन्तव्या इति
भावः ॥ 8-23-23 त्रयोविंशोऽध्यायः ॥
श्रीः