अध्यायः 036

कर्णेन शल्यम्प्रति स्वस्य परशुरामात् तथा कुतश्चिद्ब्राह्मणाच्च शापप्राप्तिकथनम् ॥ 1 ॥

सञ्जय उवाच ।
मद्राधिपस्याधिरथिर्महात्मा वचो निशम्याप्रियमप्रतीतः ।
उवाच शल्यं विदितं ममैत-- द्यथाविधावर्जुनवासुदेवौ ॥
शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य ।
अहं विजानामि यथावदद्य परोक्षभूतं तव तत्तु शल्य ॥
तौ चाप्यहं शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ ।
सन्तापयत्यभ्यधिकं हि रामा-- च्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥
`पुरा महेन्द्राद्रिवरे समुद्रे तपस्विनं राममुपेत्य शल्य ।
अस्त्रार्थिनं माऽद्य शिष्यं गृहाणे-- त्यथाऽब्रुवं ब्राह्मणच्छद्मना च ॥
तत्रावसं ब्राह्मण इत्यविप्रो ब्रह्मास्त्रलोभादनृतेन चाहम् ।
तज्जामदग्न्येन परं महास्त्रं समन्त्रयुक्तं विहितं ममासीत् ॥
अस्त्रं यदा तद्विदितं ममासी-- त्तदाऽब्रवीद्ब्राह्मणो मां महर्षिः ।
आपद्गतेनास्त्रमिदं प्रयोज्यं त्वया रणे गच्छता साधयेति' ॥
तत्रापि मे देवराजेन विघ्नो हितार्थिना फल्गुनस्यैव शल्य ।
कृतो विभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम् ॥
ममोरुमेत्य प्रबिभेद कीटः सुप्ते गुरौ तत्र शिरो निधाय ।
ऊरुप्रभेदाच्च महान्बभूव शरीरतो मे घनशोणितौघः ॥
गुरोर्भयाच्चापि न चेलिवानहं ततो विबुद्धो ददृशे स विप्रः ।
स धैर्ययुक्तं प्रसमीक्ष्य मां वै न त्वं विप्रः कोऽसि सत्यं वदेति ॥
तस्मै तदाऽऽत्मानमहं यथाव-- दाख्यातवान्सूत इत्येव शल्य ।
स मां निशाम्याथ महातपस्वी संशप्तवान्रोषपरीतचेताः ॥
सूत त्वया ह्याप्तमिदं तवास्त्रं न कर्मकाले प्रतिभास्यतीति ।
अन्यत्र तु स्यात्तव मृत्युकाला-- दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् ॥
तदद्य पर्याप्तमतीव मेऽस्त्र-- मुपस्थितेऽस्मिंस्तुमुले विमर्दे ॥
शल्योग्रधन्वानमहं वरिष्ठं तरस्विनं भीममसह्यवीर्यम् ।
सत्यप्रतिज्ञं युधि पाण्डवेयं धनञ्जयं मृत्युमुखं नयिष्ये ॥
अस्त्रं ततोऽन्यत्प्रतिपन्नमद्य येन क्षेप्स्ये समरे शत्रुपूगान् ।
प्रतापिनं बलवन्तं कृतास्त्रं तमुग्रधन्वानममितौजसं च । क्रूरं शूरं रौद्रममित्रसाहं धनञ्जयं संयुगेऽहं हनिष्ये ॥
अपांपतिर्वेगवानप्रमेयो निमज्जयिष्यन्बहुलाः प्रजा इव ।
महारवं यः कुरुते समुद्रो वेलेव तं वारयाम्यप्रमेयम् ॥
प्रमुञ्चन्तं बाणसङ्घानमेया-- न्मर्मच्छिदो वीरहणः सुपत्रान् ।
कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे ज्यां कर्षतामुत्तमं मर्त्यलोके ॥
एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम् ।
शरौघिणं पार्थिवान्मज्जयन्तं वेलेव पार्थमिषुभिर्वारयिष्ये ॥
कृती कृतास्त्रो दृढहस्तयोधी दिव्यास्त्रविच्छ्वेतहयः प्रमाथी ।
सुरासुरान्युधि वै यो जयेत तेनाद्य मे पश्य युद्वं सुघोरम् ॥
अभीर्मानी पाण्डवो युद्वकामो ह्यमानुषैरस्यति मां महास्त्रैः ।
तस्यास्त्रमस्त्रैरभिभूय सङ्ख्ये बाणोत्तमैः पातयिष्यामि पार्थम् ॥
सहस्ररश्मिप्रतिमं ज्वलन्तं दिशश्च सर्वाः प्रतपन्तमुग्रम् ।
तमोनुदं मेघ इवातिमात्रं धनञ्जयं छादयिष्यामि बाणैः ॥
वैश्वानरं धूमकेतुं ज्वलन्तं तेजस्विनं नरवीरान्दहन्तम् ।
पर्जन्यभूतः शरवर्षैर्यथाऽग्निं तथा पार्थं शमयिष्यामि युद्धे ॥
आशीविषं दृष्टिहणं सुघोरं सुतीक्ष्णदंष्ट्रं ज्वलनप्रभवाम् ।
क्रोधात्प्रदीप्तानलवद्दहन्तं कुन्तीपुत्रं शमयिष्यामि भल्लैः ॥
प्रवाहिणं बलवन्तं महौजसं प्रभञ्जनं मातरिश्वानमुग्रम् ।
युद्धे सहिष्ये हिमवानिवाचलो धनञ्जयं क्रुद्धममृष्यमाणम् ।
विशारदं रथमार्गेषु शक्तं धुर्यं नित्यं समरेषु प्रवीरम् ।
लोके वरं सर्वधनुर्धराणां धनञ्जयं संयुगेऽहं हनिष्ये ॥
अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम् ।
सर्वामिमां यः पृथिवीं सहेत तथापि तेनाद्य रणे समेष्ये ॥
यः सर्वभूतानि सदैवतानि प्रस्थेऽजयत्खाण्डवे सव्यसाची
को जीवितं रक्षमाणो हि तेन युयुत्सतेऽस्त्रैर्मानुषो मामृतेऽन्यः ॥
मानी कृतास्त्रः कृतहस्तयोधी दिव्यास्त्रविच्छ्वेतहयः प्रमाथी ।
तस्याहमद्यातिरथस्य काया-- च्छिरो हरिष्यामि शितैः पृषत्कैः ।
योत्स्याम्येनं शल्य धनञ्जयं वै मृत्युं पुरस्कृत्य रणे जयं वा ।
अन्यो हि न ह्येकरथेन मर्त्यो युध्येत यः पाण्डवमिन्द्रकल्पम्
तस्याहवे पौरुषं पाण्डवस्य ब्रूयां पृष्टः समितौ क्षत्रियाणाम्
किं त्वं मूर्खः प्रहसन्मूढचेता आख्यासि मे पौरुषं फल्गुनस्य ॥
अत्यप्रियो यः पुरुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् ।
हन्यामहं त्वादृशानां शतानि क्षमाम्यहं क्षमिणां काल एषः ॥
अवोचस्त्वं पाण्डवार्ये प्रियाणि प्रधर्षयन्मां मूढवत्पापकर्मन् ।
मय्यार्जवे जिह्ममतिर्यतस्त्वं मित्रद्रोही साप्तपदं हि मित्रम् ॥
कालस्त्वयं प्रत्युपयाति दारुणो दुर्योधनो युद्धमुपागमद्यत् ।
तस्यार्थसिद्धिं त्वभिकाङ्क्षमाण-- स्तमन्वेष्ये यत्र चैकान्तमस्ति ॥
`तथाप्यहं पाण्डववासुदेवौ योत्स्ये रणे मद्विधस्यैव कर्म ।
न प्राकृतः सज्जते वै कदाचि-- द्यः प्रत्युदीयात्कृष्णधनञ्जयौ तौ' ॥
मित्रं मिन्देर्नन्दतेः प्रीयतेर्वा सन्त्रायतेर्मिनुतेर्मोदतेर्वा ।
दुर्योधने सर्वमिदं ममास्ति तच्चापि सर्वं मम वेत्ति राजा ॥
शत्रुः शदेः शासतेर्वा श्यतेर्वा शृणातेर्वा श्वसतेः सीदतेर्वा ।
श्रमेः शुचो बहुशः सूदतेश्च प्रायेण सर्वं त्वयि तच्च मह्यम् ॥
दुर्योधनार्थं तव च प्रियार्थं यशोर्थमात्मार्थमपीश्वरार्थम् ।
तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्नात्कर्म च पश्य मेऽद्य ॥
`शल्याद्याहं सङ्गतः पाण्डवेन मुच्येयं चेज्जीवमानः कथञ्चित् ।
शश्वन्मृत्योः स्यामनाधृष्यरूपो व्यक्तं तस्मात्संयुगाद्विप्रमुक्ताः' ॥
अस्त्रं ब्राह्मं मनसा सञ्जपन्वै यदाऽस्यते क्रोधितः सव्यसाची ।
तदापि मे नैव मुच्येत पार्थो न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥
अस्त्राणि विद्ध्वा समरे गतानि ब्राह्माणि दिव्यान्यथ मानुषाणि ।
आसादयिष्याम्यहमुग्रवीर्यं नागोत्तमं नाग इव प्रभिन्नः ॥
वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः ।
सगदाद्वा धनपतेः सवज्राद्वा सुराधिपात् ॥
अथान्यस्मादपि सुरादमित्रादाततायिनः ।
इति शल्य विजानीहि यथा नाहं बिभेम्युत ॥
तस्मान्न मे भयं पार्थान्नापि चैव जनार्दनात् ।
सह युद्धं हि मे ताभ्यां साम्पराये भविष्यति ॥
श्वभ्रे ते पततां चक्रमिति मां ब्राह्मणोऽब्रवीत् ।
युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायनं भयम् ॥
तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् ।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥
कदाचिब्राह्मणस्याथ योग्यहेतेरहं नृप ।
अजानन्नक्षिपं बाणं घोररूपं भयावहम् ॥
होमधेन्वास्ततो वत्सः प्रमत्त इषुणा हतः ।
चरन्वै विजने शल्य ततोऽनु व्याजहार सः ॥
यस्माद्वत्सस्त्वया चात्र होमधेन्वा हतो नृप ।
तस्मात्त्वमपि राधेय वाक्शल्यं महदाप्नुहि ॥
श्वभ्रे ते पतिता चक्रं युध्यमानस्य शत्रुणा ।
प्राप्त एकायने काले मृत्युसाधारणे त्वयि ॥
स्पर्धसे येन सङ्ग्रामे यदर्थं घटसेऽनिशम् ।
तत एव ध्रुवं मृत्युं सूत प्राप्स्यसि संयुगे ॥
अहं प्रसादयाञ्चक्रे ब्राह्मणं संशितव्रतम् ॥
गवां दशशतं वित्तं बलीवर्दांश्च षट््शतम् ।
प्रच्छन्नं काञ्चनैः कामं ब्राह्मणार्थमहं तदा ॥
दासीशतं निष्ककण्ठं शतमश्वतरीरथान् ।
कन्यानां निष्ककण्ठीनां सहस्रं समलंकृतम् ॥
ईषादन्तान्नागशतान्दासीदासशतानि च ।
दद्मि तैर्द्विजमुख्यो मे प्रसादं न चकार सः ॥
कृष्णानां श्वेतवत्सानां गोशतानि चतुर्दश ।
ददन्हि न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥
यत्किञ्चिन्मामकं वित्तं त्वदधीनं करोमि तत् । इति मां याचमानं वै ब्राह्मणः प्रत्यवारयत् ।
क्रोधदीप्तेक्षणः शळ्य निर्दहन्निव चक्षुषा ॥
व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ।
अनृतोक्तं प्रजां हन्यात्ततः पापमवाप्नुयाम् ॥
तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ।
मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया ॥
मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ।
`यन्मयोक्तं सरोषेण गच्छ सूतज माचिरम् ॥
इति मामसकृत्क्रुद्धः स उवाच द्बिजोत्तमः ।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥
नाहं बिभेमि बीभत्सोर्न शल्य मधुसूदनाम् ।
तस्माद्बिभेम्यहं शापात्तेन सत्येन ते शपे ॥
सह युद्धं समेताभ्यामद्येदं समुपस्थितम् ।
युद्वेऽस्मिञ्जीवितं मेऽद्य शल्य संशयमागतम् ॥
शक्रोऽप्यमरराट् ताभ्यामुपगम्याहवं सह ।
संशयं परमं गच्छेत्कथं वा मन्यते भवान् ॥
इत्येवं ते मयाऽऽख्यातं क्षिप्तेन न सुहृत्तया ।
जानामि त्वाऽधिक्षिपन्तं दोषमात्मगतं शृणु' ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षट््तत्रिंशोऽध्यायः ॥ 36 ॥

8-36-9 चेलिवान् चलितवान् ॥ 8-36-11 कर्मकाले स्वप्रतिज्ञारक्षणकाले ॥ 8-36-14 अस्त्रं ततौ रामदत्तादस्त्रादन्यत्प्रतिपन्नं प्राप्त अहिबाणाख्य मित्यर्थः ॥ 8-36-24 रथमार्गेष्यसक्तं इति ट.पाठः । रथमार्गेष्वनित्यं इति ख.पाठः ॥ 8-36-26 खाण्डवे खाण्डxxxxx 8-36-31 आर्जवे कर्तव्ये सति ॥ 8-36-34 अहं सिद्धिं काङ्क्षमाणोऽस्मि । त्वं तु तन्मन्यसे यत्र ऐकान्त्यं सख्यां नास्ति । अस्मत्पक्षीयोप्यन्यतत्र स्नोहवानसीत्यर्थः । तदेवाह मित्रमिति । मिन्दयति मेदयति वा स्नेहार्थान्मिन्देर्मिदेर्वा मित्रमिति रूपम् । नन्दतेरित्यतत्र मदतेरिति पाठः । मदी हर्षे इत्यस्य वा रूपम् । मादयनि तर्पयतीति वा मादयतेर्मित्रम् । मिदतेस्त्राणार्थस्य वा मिदेरिदं रूपम् । नन्दयतेः प्रीयतेः संन्त्रायततेर्वाऽर्थे वर्तमानस्य मिदेर्मित्रमिति वार्थः । मिनुते मानं करोति सर्वे हितमस्य सङ्गृह्णातीति वा मोदतेऽस्य सुखेनेति वा मित्रमित्येतेऽर्थाः मयि सन्तीत्यर्थः ॥ 8-36-35 शत्रुरिति शदेः शातनार्थात् शास्तेः शासनार्थात् श्यतेस्तनूकरणार्थात् शृणातेर्हिसार्थात् श्वसतेरुच्छ्वासार्थादन्तर्भावितण्यर्थात् सीदतेः सूदतेर्वा दन्त्यस्थाने तालव्यस्योपसर्जनात् शत्रुरिति शब्द उतत्पन्नस्तदर्थश्च सर्वस्त्वय्यस्तीत्यर्थः ॥ 8-36-44 सोमराजान ब्राह्मणाः ॥ 8-36-57 मा त्वं ब्राह्मणगर्हः स्याः इति क.पाठः ॥ 8-36-58 तदनुव्याहृतं कुर्यात्सर्वलोकेपि सूतज इति ख.पाठः । नैतत्ते व्याहृतं कुर्यां सममेकोऽपि सूततज इति क.ड.पाठः । नैतदव्याहतं कुर्यात्सर्वलोकोऽपि सूतज इति ट.पाठः ॥ 8-36-36 षट््त्रिंशोऽध्यायः ॥

श्रीः