अध्यायः 011

शल्यभीमयोर्गदायुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
पतितं प्रेक्ष्य यन्तारं शल्यः शैक्यायसीं गदाम् ।
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ॥
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् ।
सशृङ्गमिव कैलासं सवज्रमिव वासवम् ॥
सशूलमिव हर्यक्षं सचक्रमिव चक्रिणम् । सशक्तिमिव सेनान्यं वने मत्तमिव द्विपम् ।
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः ।
सिंहनादश्च सञ्जज्ञे शूराणां हर्षवर्धनः ॥
प्रैक्षन्त सर्वतस्तौ हि योधा मत्ताविव द्विपौ ।
तावकाश्चापरे चैव साधुसाध्वित्यपूजयन् ॥
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् ।
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥
तथा मद्राधिपस्यापि गदावेगं महात्मनः ।
सोढुमुत्सहते नान्यः पुमान्युधि वृकोदरात् ॥
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।
आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ ॥
मण्डलावर्तमार्गेषु गदाविहरणेषु च ।
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धिनी ।
अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा ॥
तथैव चरतो मार्गान्मण्डलेषु महात्मनः ।
विद्युदभ्रग्रतीकाशा भीमस्य शुशुभे गदा ॥
ताडिता मद्रराजेन भीमस्य गदया गदा ।
दह्यमानेव खे राजन्साऽसृजत्पावकार्चिषः ॥
तथा भीमेन शल्यस्य ताडिता गदया गदा ।
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ॥
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ ।
तौ विरेजतुरन्योन्यं गदाग्राभ्यां परिक्षतौ ॥
तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ ।
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ॥
गदया मद्रराजस्य सव्यदक्षिणमाहतः ।
भीमसेनो महाबाहुर्न चचालाचलो यथा ॥
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः ।
शल्यो न विव्यथे राजन्दन्तिनेव महागिरिः ॥
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः ।
गदानिपातसंहादो वज्रयोरिव निःस्वनः ॥
निवृत्य तु महावीर्यौ समुच्छ्रितमहागदौ ।
पुनरन्तरमार्गस्थौ पण्डलानि विचेरतुः ॥
अथाभ्येत्य पदान्यष्टौ सन्निपातोऽभवत्तयोः ।
उद्यम्य लोहदण़्डाभ्यामतिमानुषकर्मणोः ॥
पोथयन्तौ तदाऽन्योन्यं मण्डलानि विचेरतुः ।
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ॥
अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ ।
तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः ॥
क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ ।
तौ परस्परसंरम्भाद्गदाभ्यां सुभृशाहतौ ॥
युगपत्पेततुर्वीरावुभाविन्द्रबली इव ।
उभयः सेनयोर्योधास्तदा हाहाकृताभवन् ॥
भृशं मर्मस्वभिहतावुभावास्तां सुविह्वलौ ॥
ततः स्वरथमारोप्य मद्राणामृषभं रणे ।
अपोवाह कृपः शल्यं तूर्णमायोधनादथ ॥
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः ।
भीमसेनो गदापाणिः समाह्वयत मद्रपम् ॥
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः ।
नानावादित्रशब्देन पाण्डुसेनामयोधयन् ॥
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः ।
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ॥
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः ।
प्रययुः सिंहनादेन दुर्योधनवधेप्सया ॥
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ ।
प्राप्तेन चेकितानं वै विव्याध हृदये भृशम् ॥
पपात रथोपस्थे तव पुत्रेण पातितः ।
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ॥
चेकितानं हतं दृष्ट्वा पाण्डवेया महारथाः ।
असक्तमभ्यवर्षन्त शरवर्षाणि भागशः ॥
तावकानामनीकेषु पाण्डवा जितकाशिनः ।
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ॥
कृपश्च कृतवर्मा च सौबलश्च महारथः ।
अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ॥
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् ।
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ॥
त्रिसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः ।
अयोधयन्त विजयं जैगर्तानां महारथाः ॥
विजये धृतसङ्कल्पाः समरे त्यक्तजीविताः ।
प्राविशंस्तावका राजन्हंसा इव महत्सरः ॥
ततो युद्धमभूद्धोरं परस्परवधैषिणाम् ।
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ॥
तस्मिन्प्रवृत्ते सङ्ग्रामे राजन्वीरवरक्षये ।
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ॥
श्रवणान्नामधेयानां पार्थिवानां च कीर्तनात् ।
परस्परं विजानीमस्तदायुध्यन्नभीतवत् ॥
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् ।
दिशश्च विमला जातास्तस्मिन्रजसि नाशिते ॥
तथा प्रवृत्ते सङ्ग्रामे घोररूपे भयानके ।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि ।
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ॥
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः ।
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ॥
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ।
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ॥
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत ।
इति स्म वाचः श्रूयन्ते तवतेषां च वै बले ॥
ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम् ।
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ॥
तस्य पार्थो महाराज नाराचान्वै चतुर्दश ।
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ॥
आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः ।
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ॥
अथ मद्रो महाराज शरेणानतपर्वणा ।
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ॥
धर्मराजोऽपि सङ्क्रुद्धो मद्रराजं महाबलः ।
विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ॥
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः ।
द्रुमसेनं चतुःषष्ट्या निजघान महारथः ॥
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना ।
निजघान ततो राजंश्चेदीन्वै प़ञ्चविंशतिम् ॥
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः ।
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ॥
एवं विचरतस्तस्य सङ्ग्रामे राजसत्तम ।
सम्प्रैषयच्छितान्पार्थः शरानाशीविषोपमान् ॥
ध्वजाघ्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः ।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्रथात् ॥
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना ।
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ॥
ध्वजं निपतितं दृष्ट्वा पाण़्डवं च व्यवस्थितम् ।
सङ्क्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ॥
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ ।
एकैकं प़ञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥
ततो बाणमयं जालं विततं पाण्डवोरसि ।
अपश्याम महाराज मेघजालमिवोद्गतम् ॥
तस्य शल्यो रणे क्रुद्धः शरैः सन्नतपर्वभिः ।
दिशः सञ्छादयामास प्रदिशश्च महारथः ॥
ततो युधिष्ठिरो राजा बाणजालेन पीडितः ।
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकादशोऽध्यायः ॥ 11 ॥

9-11-3 हर्यक्षं रुद्रम् ॥ 9-11-10 शुभ्रैदींप्तिमद्धिः ॥ 9-11-11 एकादशोऽध्यायः ॥

श्रीः