अध्यायः 018

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
पातिते युधि दुर्धर्षे मद्रराजे महारथे ।
तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन् ॥
वणिजो नावि भिन्नायां यथागाधे महार्णवे ।
अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥
मद्रराजे महाराज वित्रस्ताः शरविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः ।
मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा ॥
न संस्थातुमनीकानि न च राजन्पराक्रमे ।
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥
भीष्मे द्रोणे च निहते सूतपुत्रे च पातिते ।
यद्दुःखं तव योधानां भयं चासीद्विशाम्पते ॥
तद्भयं स च नः शोको भूय एवाभ्यवर्तत ।
निराशाश्च जये राजन्हते शल्ये महारथे ॥
हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः ।
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥
अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसम्पन्ना पादाताः प्राद्रवंस्तथा ॥
द्विसाहस्राश्च महातङ्गा गिरिरूपाः प्रहारिणः ।
xxप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः ॥
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः ।
धावतश्चाप्यपश्याम श्वसमानाञ्शराहतान् ॥
तान्प्रभग्नान्हतान्दृष्ट्वा हतोत्साहान्पराजितान् ।
अभ्यवर्तन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥
बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः ।
शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् ।
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥
अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः ।
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः ।
निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपत्स्यते ॥
अद्य जानाति बीभत्सुं समर्थं स्वधन्विनाम् ।
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ॥
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् । अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन् ।
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥
अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः ।
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥
अत्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे ।
`पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः' ॥
अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः ।
हते दुर्योधने युद्धे शक्रेणेव तु शम्बरे ॥
यत्कृतं भीमसेनेन दुःशासनवधे तदा । कोऽन्यः कर्ताऽस्ति तल्लोके ऋते भीमान्महाबलात् ।
अद्य ज्येष्ठस्य जानीतां पाण्डवस्य पराक्रमम् ।
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥
अद्य ज्ञास्यति सङ्ग्रामे माद्रीपुत्रौ सुदुःसहौ ।
निहते सौबले वीरे गान्धारेषु च सर्वशः ॥
xxxx न तेषां स्याद्येषां योद्धा धनञ्जयः ।
xxxxx धृष्टद्युम्नश्च पार्षतः ॥
xxxx पञ्च माद्रीपुत्रौ च पाण्डवौ ।
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥
येषां च जगतो नाथो नाथः कृष्णो जनार्दनः ।
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥
`लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः' ॥
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च ।
तथाऽन्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥
कोऽन्यः शक्तो रणे जेतुमृते पार्थाद्युधिष्ठिरात् ।
यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः ॥
इत्येवं वदमानास्ते हर्षेण महता युताः ।
प्रभग्नांस्तावकान्योधान्संहृष्टाः पृष्ठतोऽन्वयुः ॥
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् ।
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।
दुर्योधनस्तदा सूतमब्रवीद्विस्मयन्निव ॥
मामतिक्रमते पार्थो धनुष्पाणिमवस्थितम् ।
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय ॥
जघने युध्यमानं हि कौन्तेयो मां न संशयः ।
नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः ॥
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् ।
सैन्यरेणुं समुद्भूतं पश्य चैनं समन्ततः ॥
सिंहनादांश्च समुद्भूतं पश्य चैनं समन्ततः ॥
तस्माद्याहि शनैः सूत जघनं परिपालय ॥
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु ।
पुनरावर्तते तूर्णं मामकं बलमोजसा ॥
तच्छ्रुत्वा तव पुत्रस्य शूरस्य सदृशं वचः ।
सारथिर्हेमसञ्छन्नाञ्शरैरश्वानचोदयत् ॥
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः ।
एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥
नानादेशसमुद्भूता नानारञ्जितवाससः ।
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥
तेषामापततां तत्र संहृष्टानां परस्परम् ।
सम्मर्दः सुमहाञ्चज्ञे घोररूपो भयानकः ॥
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् ।
बलेन चतुरङ्गेण नानादेश्यानवारयत् ॥
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः ।
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः । धार्तराष्ट्रा विनेदुर्हि नान्यामकथनयन्कथाम् ।
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥
स वध्यमानः समरे पदातिगणसंवृतः ।
न चचाल ततः स्थानान्मैनाक इव पर्वतः ॥
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् ।
निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन् ॥
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥
जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम् ।
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥
रथाश्वविप्रहीणांस्तु तान्भीमो गदया बली ।
एकविंशतिसाहस्रान्पदातीन्समपोथयत् ॥
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ॥
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षितः ।
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥
नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः ।
नानाजात्या हतास्तत्र नादेशसमागताः ॥
पताकाध्वजसञ्छन्नं पदातीनां महद्बलम् ।
निकृत्तं विबभौ रौद्रं घोररूपं भयावहम् ॥
युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः ।
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ॥
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् ।
नाभ्यवर्तन्त ते पुत्रं वेलामिव महोर्मयः ॥
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ॥
नातिदूरापयातं तु कृतबुद्वि पलायने ।
दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् ॥
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च ।
यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः ॥
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ ।
यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत् ॥
विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतविप्रियाः ।
अनुयाय हनिष्यन्ति श्रेयान्नः समरे वधः ॥
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः ।
यदा शूरं च भीरुं च मारयत्यन्तकः सदा ॥
को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम् ।
श्रेयान्नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितः ॥
सुखः साङ्ग्रामिको मृत्युर्दुःखो व्याधिजरादिभिः ।
मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन ॥
युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः ।
हत्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ॥
न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः ।
अचिरेणैव ताँल्लोकान्हतो युद्धे समश्नुते ॥
श्रुत्वा तद्वचनं तस्य पूजयित्वा च पार्थिवाः ।
पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः ॥
तानापतत एवाशु व्यूढानीकाः प्रहारिणः ।
प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः ॥
धनञ्जयो रथेनाजावभ्यवर्तत वीर्यवान् ।
विश्रुतं त्रिषु लोकेषु व्याक्षिपन्गाण्डिवं धनुः ॥
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः ।
जवेनाभ्यपतन्हृष्टा यत्ता वै तावकं बलम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टादशोऽध्यायः ॥ 18 ॥

9-18-34 न मातेक्रमते पाथः इति ङ. पाठः । न मानसस्यते इति क.पाठः ॥ 9-18-18 अष्टादशोऽध्यायः ॥

श्रीः