अध्यायः 002

कृपेण द्रौणिम्प्रति कर्तव्योपदेशः ॥ 1 ॥

कृप उवाच ।
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो ।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ॥
आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः ।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥
न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम ।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥
ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः ।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥
पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम् ।
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम् ॥
उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम् ।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः ॥
सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते ।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥
तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते ।
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः ॥
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ ।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च ॥
कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति ।
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥
उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम् ।
अभलं दृश्यते लोके सम्यगप्युपपादितम् ॥
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः ।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥
प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि ।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम् ॥
चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया ।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि ॥
शक्नोति जीवितुं दक्षो नालसः सुखमेधते ।
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥
यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम् ।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति ॥
नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित् ।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः ॥
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा ।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः ॥
हीनं पुरुषकारेण यदि दैवेन वा पुनः ।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ॥
हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते ।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते ॥
सम्यगीहा पुनरियं या बृद्धानुपसेवते ।
आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः ।
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥
वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत् ।
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः ।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥
सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना ।
असमर्थः समारब्धो मूढत्वादविचिनन्तितः ॥
हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह ।
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ॥
पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति ।
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः ॥
अनुवर्तामहे यत्तु तं वयं पापपूरुषम् ।
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥
अेन तु ममाद्यापि व्यसनेनोपतापिता ।
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते ॥
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः ।
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति ॥
ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः' ।
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥
ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम् ।
उपपृच्छामहे गत्वा विदुरं च महामतिम् ॥
ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम् ।
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् ॥
कृते पुरुषकारे तु येषां कार्यं न सिध्यति ।
दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

10-2-2 दैवे आसमन्तात् बद्धाः पुरुषकारे निहीनतया बद्धाः । तेन दैवं प्रधानं पुरुषकार उपसर्जनमित्युक्तं भवति । आरम्भा मानुषाः सर्वे इति क.पाठः ॥ 10-2-6 उत्थानमिति । दैवस्य प्रधानस्योत्थानं पुरुषकारो व्यर्थं भवति तथाऽनुत्थानमुत्थानहीनं दैवमपि व्यर्थमिति पक्षद्वयं सर्वत्र व्यवस्यति तत्र पूर्वएव पक्षः श्रेयानित्यर्थः ॥ 10-2-9 विचेष्टन्तः प्रवृत्ता दृश्यन्ते लोकदृष्ठ्येत्यर्थः ॥ 10-2-13 कर्माकृत्वा दुःखं पश्येदित्यापि प्रायशोऽस्ति ॥ 10-2-14 दुर्दर्शौ दुर्लभौ ॥ 10-2-16 स्पर्शं चास्याधिगच्छतीति छ.पाठः । तत्र अस्य कर्मणः स्पर्शं लोकस्य सम्बन्धं चाधिगच्छति लोकप्रियः स्यादित्यर्थः ॥ 10-2-17 अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठित इति झ.पाठः । तत्र अदक्षस्तु परप्रयत्नार्जितेन जीवन्नपि भोक्तुमेवायं समर्थो नार्जयितुमिति निन्द्यत इति भावः ॥ 10-2-18 एतत् दैवदाक्ष्ययोः साहित्यम् । अन्यथा तयोरन्यतरालम्बनेन ॥ 10-2-23 योगे अलब्धलाभे ॥ 10-2-25 अनीशः अजितचित्तः । अवमानी परमवजानन् ॥ 10-2-2 द्वितीयोऽध्यायः ॥

श्रीः