अध्यायः 021
गान्धार्या कृष्णंप्रति बाह्लिकादीनां तथा तत्स्त्रीणां च प्रदर्शनम् ॥ 1 ॥
गान्धार्युवाच ।
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् ।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत् ॥
तं पश्य कदनं कृत्वा शूरणां मधुसूदन ।
शयानं वीरशयने रुधिरेण समुक्षितम् ॥
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः ।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम् ॥
शयानं वीरशयने शूरमाक्रन्दकारिणम् ।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ॥
प्रातिपेयं महेष्वासं हत भीमेन बाह्लिकम् ।
प्रसुप्तमिव शार्दूलं पश्य कृष्णमनस्विनम् ॥
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते ।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता ।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः ॥
एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः ।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् ॥
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् ।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् ॥
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत ।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात् ॥
तमेताः पर्युपासन्ते वीक्षमाणा महाभुजम् ।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः ॥
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह ।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ॥
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः ।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ॥
सैन्धवं मे सुता बाला प्रस्खलन्तीव दुःखिता ।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान् ॥
किन्नु दुःखतरं कृष्ण परं मम भविष्यति ।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ॥
हाहा धिग्धुःशलां पश्य वीतशोकभयामिव ।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः ॥
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः ।
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः ॥
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् ।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ॥ ॥
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वमि द्वाविंशोऽध्यायः ॥ 22 ॥
11-21-13 कलावशेषो हि इति क. पाठः ॥ 11-21-14 रोरूयते दुःखचयाभितप्ता इति क.ट.पाठः ॥ 11-21-21 एकविंशतितमोऽध्यायः ॥
श्रीः