अध्यायः 066

भीष्मेण युधिष्ठिरंप्रति लोकस्य सराजकत्वाराजकत्वाभ्यां गुणदोषनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
चातुराश्रम्यमुक्तं ते चातुर्वण्यं तथैव च ।
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
राष्ट्रस्य यत्कृत्यतमं राज्ञ एवाभिषेचनम् ।
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत ॥
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते ।
परस्परं च खादन्ति सर्वथा धिगराजकम् ॥
इन्द्रमेव प्रणमते यद्राजानमिति श्रुतिः ।
यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता ॥
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् ।
नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः ॥
अथ चेदधिवेर्तेत राज्यार्थी बलवत्तरः ।
अराजकाणि राष्ट्राणि हतवीराणि वा पुनः ॥
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् ।
न हि राज्यात्पापतरमस्ति किंचिदराजकात् ॥
स चेत्समनुपश्येत समग्रं कुशलं भवेत् ।
बलवान्हि प्रकुपितः कुर्यान्निः शेषतामपि ॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि ॥
यदतप्तं प्रणमते न तत्संतापयन्त्युत ।
यत्स्वयं नमते दारु न तत्संनामयन्त्यपि ॥
एतयोपमया धीरः सन्नमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता ।
न धनार्थो न दारार्थस्तेषां येषामराजकम् ॥
प्रीयते हि हरन्पापः परवित्तमराजके ।
यदाऽस्य तद्धरन्त्यन्ये तदा राजानमिच्छति ॥
पापा ह्यपि तदा क्षेमं न लभन्ते कदाचन ।
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ॥
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः ।
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ॥
राजा चेन्न भवेल्लोके पृथिव्या दण्डधारकः ।
जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः ॥
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् ।
परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥
समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम् ।
वाक्शूरो दण्डपरुषो यश्च स्यात्पारदारिकः ॥
यश्च नः समयं भिन्द्यात्त्याज्या नस्तादृशा इति । विश्वासार्थं च सर्वेषां वर्णानामविशेषतः ।
तास्तथा समयं कृत्वा समयेनावतस्थिरे ॥
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् ।
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ॥
यं पूजयेम संभूय यश्च नः प्रतिपालयेत् ।
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ॥
मनुरुवाच ।
बिभेमि कर्मणः पापाद्राज्यं हि भृशदुष्करम् ।
विशेषतो मनुष्येषु मिथ्यावृत्तेषु नित्यदा ॥
भीष्म उवाच ।
तमब्रुवन्प्रजा मा भैर्विधास्यामो धनं तव ।
पशूनामथ पञ्चांशं धरण्यस्य तथैव च ॥
धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ।
कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च ॥
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः ।
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ॥
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् ।
सुखे धास्यसि नः सर्वान्कुबेर इव नैर्ऋतान् ॥
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ॥
तेन धर्मेण महता सुखं लब्धेन भावितः ।
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ॥
विजयाय हि निर्याहि प्रतपत्रश्मिवानिव ।
मानं विधम शत्रूणां धर्मं जनय नः सदा ॥
स निर्ययौ महातेजा बलेन महता वृतः ।
महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव ॥
तस्य दृष्ट्वा महत्वं ते महेन्द्रस्येव देवताः । अपतत्रसिरे सर्वे स्वधर्मे च ददुर्मनः ।
`वर्णिनश्चाश्रमाश्चैव म्लेच्छाः सर्वे च दस्यवः ॥'
ततो महीं परिययौ पर्जन्य इव वृष्टिमान् ।
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ॥
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् ।
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ॥
नमस्येरंश्च तं भक्त्या शिष्या इव गुरुं सदा ।
देवा इव च देवेन्द्रं नरा राजानमन्तिकात् ॥
सत्कृतं स्वजनेनेह परोऽपि बहुमन्यते ।
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ॥
राज्ञः परैः परिभवः सर्वेषामसुखावहः ।
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ॥
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च ।
आसनानि च शय्याश्च सर्वोपकरणानि च ॥
गोप्ता चास्य दुराधर्षः स्मितपूर्वाभिभाषिता ।
आभाषितश्च मधुरं प्रत्याभाषेत मानवान् ॥
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः ।
ईक्षितः प्रतिवीक्षेत मृदु वल्गु च चर्जु च ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट््षष्टिमोऽध्यायः ॥ 66 ॥

12-66-4 इन्द्रमेव प्रवृणुते इति झ. पाठः ॥ 12-66-12 धनादेरर्थ उपभोगः ॥ 12-66-18 वाक्शूरो निष्टुरभाषी । दण्डपरुष उग्रदण्डः ॥ 12-66-23 कर्तॄनेनो गमिष्यति इति झ. पाठः ॥ 12-66-24 विवाहेसूद्यतासु कन्यासु शुल्के मौल्यप्रसंगे सति सुरूपां कन्यां तुभ्यं दास्याम इत्यर्थः ॥ 12-66-25 शस्त्रपत्रेण शस्त्रेण वाहनेन च । प्रधानतः श्रेष्टाः । प्रथमार्थे तसिः ॥ 12-66-29 मानं दर्पम् । विधम नाशय ॥ 12-66-31 अपतत्रसिरे त्रासं प्राप्ताः ॥