अध्यायः 107
भीष्मेण युधिष्ठिरंप्रति गणवृद्धिप्रकारादिकथनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
धर्मवृत्तं च वित्तं च वृत्त्युपायाः फलानि च ॥
राज्ञां वृत्तं च कोशं च कोशसंचयनं जयः ।
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम् ॥
षाङ्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च ।
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ॥
समहीनाधिकानां च यथावल्लक्षणं च यत् ।
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ॥
क्षीणग्रहणवृत्तिश्च यथा धर्मं प्रकीर्तितम् ।
लघुनाऽदेशरूपेण ग्रन्थयोगेन भारत ॥
विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते ।
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ॥
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत ।
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ॥
भेदमूलो विनाशो हि गणानामुपलक्षये ।
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ॥
एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप ।
यथा च ते न भिद्येरंस्तच्च मे वद भारत ॥
भीष्म उवाच ।
गणानां च कुलानां च राज्ञां भरतसत्तम ।
वैरसंदीपनावेतौ लोभामर्षौ नराधिप ॥
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् ।
ततो ह्यमर्षसंयुक्तावन्योन्यजनिताशयौ ॥
चारमन्त्रबलादानैः सामदानविभेदनैः ।
क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम् ॥
तत्रादानेन भिद्यन्ते गणाः संघातवृत्तयः ।
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ॥
भेदे गणा विनश्युर्हि भिन्नास्तु सुजयाः परैः ।
तस्मात्संघातयोगेन प्रयतेरन्गणाः सदा ॥
अर्थाश्चैवाधिगम्यन्ते संघातबलपौरुषैः ।
ब्राह्माश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु ॥
ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम् ।
विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः ॥
धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः ।
यथावत्प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः ॥
पुत्रान्भ्रातृन्निगृह्णन्तो विनयन्तश्च तान्सदा ।
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥
चारमन्त्रविधानेषु कोशसंनिचयेषु च ।
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ॥
प्राज्ञांश्चारान्महोत्साहान्कर्मसु स्थिरपौरुषान् ।
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः ।
कृच्छ्रास्वापत्सु संमूढान्गणाः संतारयन्ति ते ॥
क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः ।
नयत्यरिवशं सद्यो गणान्भरतसत्तम ॥
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः ।
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शण ।
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥
गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः ॥
पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा ।
अर्थाः प्रत्यवसीदन्ति तथाऽनर्था भवन्ति व ॥
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् ।
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ॥
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः ।
गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम् ॥
आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम् ।
आभ्यन्तरं भयं राजन्सद्यो मूलानि कृन्तति ॥
अकस्मात्क्रोधमोहाभ्यां लोभाद्वाऽपि स्वभावजात् ।
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ॥
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथ ।
न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः ॥
भेदाच्चैव प्रदानाच्च नाम्यन्ते रिपुभिर्गणाः ।
तस्मात्संघातमेवाहुर्गणानां शरणं महत् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्ताधिकसततमोऽध्यायः ॥ 107 ॥
12-107-5 क्षीणस्य ग्रहणं वृत्तिर्जीविका च । लधुना सुगमेन । आदेशरूपेणोपदेशात्मकेन ॥ 12-107-6 गणानां शूरजनस्तेमानाम् ॥ 12-107-11 एको राजा लोभं वृणुते । गणस्तदाऽस्मभ्यं न ददाती त्यमर्षं वृणुते ॥ 12-107-12 इतरेतरं गणा राजानश्च प्रकर्षन्ति ॥ 12-107-14 संघातयोगेनैकमत्यप्रयोगेण ॥