अध्यायः 117
मुपिवरेण व्याघ्रीकृतस्य स्वीयशुनो गजाद्भये सति गजत्वप्रापणम् ॥ 1 ॥ पुनः सिंहाद्भये सिंहीकृतस्य तस्यैव शरभाद्भये शरभीकरणम् ॥ 2 ॥
दुष्टभावेनात्मजिघांसोस्तस्य पुनः श्वभावप्रापणम् ॥ 3 ॥
व्याघ्रश्वोटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः ।
नागभागात्तमुद्देशं मत्तो मेघ इवोत्थितः ॥
प्र--करटः प्रांशुः पझी विततकुम्भकः ।
सु--णो महाकायो मेघगम्भीरनिः स्वनः ॥
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं बलगर्वितम् ।
व्या हस्तिभयान्त्रस्तस्तमृषिं शरणं ययौ ॥
ततोऽनयत्कुञ्जरत्वं व्याघ्रं तमृषिसत्तमः ।
महमेघोपमं दृष्ट्वा स भीतो ह्यभवद्गजः ॥
ततः कमलषण़्डानि सल्लकीगहनानि च ।
व्य--रत्स मुदायुक्तः पझरेणुविभूषितः ॥
कदचिद्दममाणस्य हस्तिनः संमुखं तदा ।
ऋषेस्तस्योटस्थस्य कालोऽगच्छद्दिवानिशम् ॥
अथाजगाम तं देशं केसरी केसरारुणः ।
गिन्विन्दरजो भीमः सिंहो नागकुलान्तकः ॥
तं--- सिंहमायान्तं नागः सिंहभयार्दितः ।
ऋषिं शरणमापेदे वेपमानो भयातुरः ॥
स त-ः सिंहतां नीतो गजेन्द्रो मुनिना तदा ।
तं च नागणयत्सिंहं तुल्यजातिसमन्वयात् ॥
दृष्ट्वा च सोऽभवत्सिंहो वन्यो हिंसन्नवाग्बलः ।
स चाश्रपेऽवसत्सिंहस्तस्मिन्नेव सुखी वने ॥
न चान्ये क्षुद्रपशवस्तपोवनसमीपतः ।
व्यदृश्यन्त तदा त्रस्ता जीविताकाङ्क्षिणस्तथा ॥
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः ।
बलवान्क्षतजाहारो नानासत्वभयंकरः ॥
अष्टपादर्ध्वनयनः शरभो वनगोचरः ।
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशने ॥
`तं दृष्ट्वा शरभं यान्तं सिंहः परभयान्वितः ।
ऋषिं शरणमापेदे वेपमानः कृताञ्जलिः ॥'
सं मुनिः शरभं चक्रे बलोत्कटमरिंदम ।
ततः स शरभो वन्यो मुनेः शरभमग्रतः ।
दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्वनम् ॥
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा ।
मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान् ॥
ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात् ।
दिशः संप्राद्रवत्राजन्भयाज्जीवितकाङ्क्षिणः ॥
शरभोऽप्यतिसंहृष्टो नित्यं प्राणिवधे रतः ।
फलमूलाशनं कर्तुं नैच्छत्स पिशिताशनः ॥
ततः क्षुद्रसमाचारो बलेन च समन्वितः ।
इयेष तं मुनिं हन्तुमकृतज्ञः कृतान्वयः ॥
`चिन्तयामास च तदा शरभः श्वानपूर्वकः ॥
अस्य प्रभावात्संप्राप्तो वाङ्भात्रेणैव केवलम् ।
शरभत्वं सुदुष्प्रापं सर्वभूतभयंकरम् ॥
अन्येऽप्यत्र भयत्रस्ताः सन्ति सत्वा भयार्दिताः ।
मुनिमाश्रित्य जीवन्तो मृगाः पक्षिगणास्तथा ॥
तेषामपि कदाचिच्च शरभत्वं प्रयच्छति ।
सर्वसत्वोत्तमं लोके बलं यत्र प्रतिष्ठितम् ॥
पक्षिणामप्ययं दद्यात्कदाचिद्गारुडं बलम् ॥
यावदन्यस्य संप्रीतः कारुण्यं तु समाश्रितः ।
न ददाति बलं तुष्टः सत्वस्यान्यस्य कस्यचित् ॥
तावदेनमहं विप्रं वधिष्यामि च शीघ्रतः ।
स्थातुं मया शक्यमिह मुनिघातान्न संशयः ॥'
ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा ।
विज्ञाय च मुनिः प्राज्ञस्ततः शापं प्रयुक्तवान् ॥
`अहमग्निप्रभो नाम मुनिर्भृगुकुलान्वयः ।
मनसा निर्दहेयं च जगत्संधारयामि च ॥
मम वश्यं जगत्सर्वं देवा यच्च चराचरम् ।
सन्ति देवाश्च ये भीताः स्वधर्मं न त्यजन्ति ये ।
स्वधर्माच्चलितान्सर्वान्वाङ्भात्रेणापि निर्दहे ॥
किमङ्ग त्वं मया नीतः शरभत्वमनामयम् ।
क्रूरः स सर्वभूतेषु हीनश्चाशुचिरेव च ॥'
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः ।
व्याघ्रान्नागो मदपटुर्नागः सिंहत्वमागतः ॥
सिंहस्त्वं बलमापन्नो भूयः शरभतां गतः ।
मया स्नेहपरीतेन विसृष्टो न कुलान्वयः ॥
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि ।
तस्मात्स्वयोनिमापन्नः पुनः श्वानो भविष्यसि ॥
ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः ।
ऋषिणा शरभः शप्तस्तद्रूपं पुनराप्तवान् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥
12-117-1 मृगैस्तृप्तः ॥ 12-117-9 समन्वयात्संबन्धात् ॥ 12-117-19 ततो रुधिरतर्षेण बलिना शरभोऽन्वितः इति झ. पाठः ॥ 12-117-31 मदपटुः
प्रवहन्मदः ॥ 12-117-32 विसृष्टो विविधेन रूपेण त्वं सृष्टः । न तु त्वं
कुलान्वयः । तेन तेन कुलेनान्वयः संबन्धो यस्य स कुलान्वयस्तादृशस्त्वं न भवसि ॥ 12-117-33 श्वैव त्वं हि भविष्यसीति झ. पाठः ॥