अध्यायः 137

भीष्मेण युधिष्ठिरंप्रति अनागतापत्प्रतिविधाने दृष्टान्ततया मत्स्योपाख्यानकथनम् ॥ 1 ॥

भीष्म उवाच ।
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति ॥
अत्रैव चेदमव्यग्रं शृण्वाख्यानमनुत्तमम् ।
द्रीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये ॥
नातिगाधे जलस्थाने सुहृदः कुशलास्त्रयः ।
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥
तत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथाऽपरः ।
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ॥
क्रदाचित्तज्जलस्थानं मत्स्यबन्धाः समन्ततः ।
स्रावयामासुरथो निम्नेषु विविधैर्मुखैः ॥
क्षीयमाणं तद्बुद्ध्वा जलस्थानं भयागमे ।
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥
ज्ञयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् ।
शीघ्रमन्यत्र गच्छामः पन्था यावन्न शुष्यति ॥
अनागतमनर्थं हि सुनयैर्यः प्रबाधते ।
स न संशयमाप्नोति तथाऽन्यत्र व्रजामहे ॥
शीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुष्यताम् ।
न तु कार्या त्वरा तावदिति मे निश्चिता मतिः ॥
अथ संप्रतिपत्तिज्ञस्त्वब्रवीद्दीर्घदर्शिनम् ।
प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते ॥
एवप्नुक्तो निराक्रामद्दीर्घदर्शी महामतिः ।
अगाम स्रोतसैकेन गम्भीरं सलिलाशयम् ॥
ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम् ।
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये ।
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरै---- ॥
उद्दानं क्रियमाणं तु मत्स्यानां ------ ।
प्रविश्यान्तरमन्येषामग्रसत्प्रति------- ॥
ग्रस्तमेव तदुद्दानं गृहीत्वा----सः ।
सर्वानेव च तांस्तत्र ते वि--- इति ॥
ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले ।
त्वक्त्वा रज्जुं प्रमुक्तोसौ शीघ्रं संप्रतिपत्तिमान् ॥
दीर्घसूत्रस्तु मन्दात्मा हीनेयुद्धिरचेतनः ।
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ॥
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते ।
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् ।
स हि संशयमाप्नोति यथा संप्रतिपत्तिमान् ॥
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति ॥
काष्ठा कला मुहूर्ताश्च दिनरात्र्यः क्षणा लवाः ।
मासाः पक्षाः षडृतवः कालः संवत्सराणि च ॥
पृथिवी देश इत्युक्तः स च कालो न दृश्यते ।
अभिप्रेतार्थसिद्ध्यर्थं दूरतो न्यायतस्तथा ॥
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः ।
प्रधानाविति निर्दिष्टौ कामे चाभिमतौ नृणाम् ॥
परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत् ।
देशकालावभिप्रेतौ तोभ्यां फलमवाप्नुयात् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥

12-137-4 तत्रैको दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः इति झ. पाठः ॥ 12-137-5 विविधैर्मुखैर्जलनिर्गमनमार्गैः ॥ 12-137-11 सलिलाशयं जलाशयान्तरम् ॥ 12-137-14 उद्दानं ग्रथनं अग्रसत् ग्रथनसूत्रं मुखेन जग्राहेत्यर्थः ॥ 12-137-15 सच मत्स्यः तथैव गृहीतवदेव तत्रास्ते इति शेषः ॥ 12-137-21 कालस्य देशस्य च सूक्ष्मतां अवहितो जानीयादिति श्लोकद्वयार्थः ॥ 12-137-23 एतौ देशकालौ ॥