अध्यायः 231

भीष्मेण युधिष्ठिरंप्रति सर्यस्यापि कालनियामकेश्वरनियम्यत्वप्रतिपादकशक्रबलिसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।
पुनेरव तु सं शक्रः अहसन्निदमब्रवीत् ।
निश्वसन्तं यथा गायं प्रत्याहाराय भारत ॥
यथज्ञानसहस्रेण ज्ञातिभिः परिवारितः ।
लोकान्यतापयन्तर्वान्यास्यस्मानवितर्कयन् ॥
दृष्ट्वा सुकृष्णां चेमागयस्थामात्मनो बले ।
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् ।
विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥
बलिरुवाच ।
`गर्वं हित्वा तथा मानं देवराज शृणुष्व मे ।
मया च त्वाऽनुसद्भावं पूर्वमाचरितं महत् ॥
अवश्यकालपर्यायमात्मनः परिवर्तनम् । अविदँल्लोकमाहात्म्यं------- ॥'
अनित्यमुपलक्ष्येह कालपर्यायमात्मनः ।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥
अन्तवन्त इमे देहा भूतानां च सुराधिप ।
तेन शक्र न शोचामि नापराधादिदं मम ॥
जीवितं च शरीरं च जात्या वै सह जायते ।
उभे सह विवर्धेते उभे सह विनश्यतः ॥
न हीदृशमहंभावमवशः प्राप्य केवलम् ।
यदेवमभिजानामि का व्यथा मे विजानतः ॥
भूतानां निधनं निष्ठा स्रोतसामिव सागरः ।
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रधृत् ॥
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः ।
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥
बुद्धिलाभात्तु पुरुषः सर्वं तुदति किल्विषम् ।
विपाप्मा लभते सत्वं सत्वस्थः संप्रसीदति ॥
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः ।
कृपणाः परितप्यन्ते तैरर्थैरभिचोदिताः ॥
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा ।
सुखं दुःखं फलं चैव न द्वेष्मि न च कामये ॥
हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन ।
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते ।
अकर्ता ह्येव भवति कर्ता ह्येव करोति तत् ॥
को हि लोकस्य कुरुते विनाशप्रभवावुभौ ।
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥
पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः ।
एतद्योनीनि भूतानि तत्र का परिदेवना ॥
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः ।
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा ।
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥
दग्धमेवानुदहते हतमेवानुहन्यते ।
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥
नास्य द्वीपः कुतः पारो नावारः संप्रदृश्यते ।
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥
यदि मे पश्यतः कालो भूतानि न विनाशयेत् ।
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे ।
बिभ्रतं गार्दभं रूपमागत्य परिगर्हसे ॥
इच्छन्नहं विकुर्यां हि रूपाणि बहृधाऽऽत्मनः ।
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति ।
कालेन विहितं सर्वं मा कृथाः शक्र पौरुषम् ॥
पुरा सर्वं प्रव्यथितं मयि क्रुद्धे पुरंदर । `विद्रवन्ति त्वया सार्धं सर्व एव दिबौकसः ॥'
अवैमि त्वस्य लोकस्य कर्मं शक्र सनातनम् ।
त्वमप्येवमवेक्षस्व माऽऽत्मना विस्मगं गमः ॥
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन । कौमारमेव ते चित्तं तथैवाद्य यथा पुरा ।
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः ।
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते ।
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् ।
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ।
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते ।
अलक्षणा विरूपा च सुभगा दृश्यते परा ॥
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् ।
यत्तमेवं गतो वज्रिन्यच्चाप्येवं गता वयम् ॥
न कर्म तव नान्येषां कुतो मम शतक्रतो ।
ऋद्धिर्वाऽप्यथवा नर्द्धिः पर्यायकृतमेव तत् ॥
पश्यामि त्वां विराजन्तं देवराजमवस्थितम् ।
श्रीमन्तं द्युतिमन्तं च गर्जमानं ममोपरि ॥
एवं नैव न चेत्कालो मामाक्रम्य स्थितो भवेत् ।
पातयेयमहं त्वाऽद्य सवज्रमपि मुष्टिना ॥
न तु विक्रमकालोऽयं शान्तिकालोऽयमागतः ।
कालः स्थापयते सर्वं कालः पचति वै तथा ॥
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् ।
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥
द्वादशानां तु भवतामादित्यानां महात्मनाम् ।
तेजांस्येकेन सर्वेषां देवराज धृतानि मे ॥
अहमेवोद्वहाम्यापो विसृजामि च वासव ।
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥
संरक्षामि विलुम्पामि ददाम्यहमथाददे ।
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप ।
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते ।
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥
मासमासार्धवेश्मानमहोरात्राभिसंवृतम् ।
ऋतुद्वारं वायुमुखमायुर्वेदविदो जनाः ॥
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया । `अनित्यपञ्चवर्षाणि षष्ठो दृश्यति देहिनाम् ॥'
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा । `ततस्तानि न पश्यामि काले तमपि वृत्रहन् ॥'
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा ।
अनादिनिधनं चाहुरक्षरं क्षरमेव च ॥
सत्त्वेषु लिङ्गमाविश्य निर्लिङ्गमपि तत्स्वयम् ।
मन्यन्ते ध्रुवमेवैनं ये जनास्तत्त्वदर्शिनः ॥
`यमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा । तं कालमिति जानीहि यस्य सर्वमिदं वशे ॥'
भूतानां तु विषर्यासं कुरुते भगवानिति ।
न ह्येतावद्भवेद्ग्राम्यं न यस्मात्प्रभवेत्पुनः ॥
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यति ।
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ॥
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ।
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ॥
ऋतून्मासार्धमासांश्च दिवसांश्च क्षणांस्तथा ।
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे ॥
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ।
तं कालमिति जानीहि यस्य सर्वमिदं वशे ॥
बहूनीन्द्रसहस्राणि समतीतानि वासव ।
बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥
त्वामप्यतिबलं शक्र देवराजं बलोत्कटम् ।
प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव ।
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥
यामेतां प्राप्य जानीषे राज्यश्रियमनुत्तमाम् ।
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् ।
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि । त्वामप्येवंविधं ज्ञात्वा क्षिप्रमन्यं गमिष्यति ।
`कालेन चोदिता शक्र मा ते गर्वः शतक्रतो ॥
क्षमस्व कालयोगं तमागतं विद्धि देवप ।
निर्लज्जश्चैव कस्मात्त्वं देवराज विकत्थसे ॥
सर्वासुराणामधिपः सर्वदेवभयंकरः । जितवान्ब्रह्मणो लोकं को विद्यादागतं गतिम् ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥

12-231-1 यथा नागं प्रव्याहाराय इति ध. पाठः ॥ 12-231-11 निष्ठा परागतिः ॥ 12-231-19 मनोऽपि पाञ्चभौतिकमित्यर्थः । भूतानि स्थूलसूक्ष्मशरीराणि ॥ 12-231-22 दग्धं कालात्मनेश्वरेणाऽनुदहते वह्नयादिः । एवमग्रेऽपि ॥ 12-231-26 ईक्ष्य दृष्ट्वा ॥ 12-231-29 धर्मं वृद्धिहासवत्त्वम् ॥ 12-231-30 प्रभव ऐश्वर्यम् । प्रभावस्तदाविष्करणाम् । नात्मसंस्थो नात्माधीनः । कौमारं बालस्येवाज्ञं तव चित्तम् ॥ 12-231-33 शास्तुरीश्वरस्य ॥ 12-231-36 सुभगा भाग्यवती ॥ 12-231-38 नर्द्धिः ऋद्ध्यभावः । पर्यायः कालक्रमस्तेन कृतम् ॥ 12-231-40 एवं मम गर्दभत्वादिकं नैव स्यादिति शेषः । नचेदित्यादि तत्रोपपत्तिः ॥ 12-231-44 उद्वहासि मेधो भूत्वा सूर्यो भूत्वा शोषयामीति वार्थः । आपः अपः ॥ 12-231-46 कालसैन्यं मासार्धमासादि ॥ 12-231-47 पर्यायेण कालक्रमेण भुज्यन्ते पाल्यन्ते संहियन्ते वा ॥