अध्यायः 246
भीष्मेण युधिष्ठिरंप्रति
योगस्वरूपादिनिरूपकशुकसंबोध्यकव्यासवचनानुवादः ॥ 1 ॥
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः ।
साङ्ख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु ।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥
आत्मनोऽव्यथिनस्तात् ज्ञानमेतदनुत्तमम् ।
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान्समुच्छिन्द्यात्पञ्च यान्कवयो विदुः ॥
कामं क्रोधं त्त लोभं च भयं स्वप्नं च पञ्चमम् ।
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ।
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् ॥
एवमेतान्योगदोषाञ्चयेन्नित्यमतन्द्रितः ।
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ॥
वर्जयेदुशतीं वाचं हिंसायुक्तां मनोनुदाम् ।
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं ततम् ॥
एतस्य सूत्रभूतस्य द्वयं स्थावरजङ्गमम् ।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥
शोचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः ।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥
सिद्ध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्धते ।
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयेत् ॥
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ।
पूर्वरात्रेऽपरात्रे च धारयेन्मन आत्मनि ॥
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् ।
ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम् ॥
मनस्तु पूर्वमादद्यात्कुमीनमिव मत्स्यहा ।
ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् ॥
तत एतानि संयम्य मनसि स्थापयेद्यतिः ।
तथैवापो ह्यसंकल्पान्मनो ह्यात्मनि धारयेत् ॥
पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद्यतिः ।
यदैतान्यवतिष्ठन्ति मनःषष्ठानि चात्मनि ॥
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ।
विधूम इव सप्तार्चिरादित्य इव दीप्तिमान् ॥
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि ।
सर्वस्तत्र स सर्वत्र व्यापकत्वाच्च दृश्यते ॥
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ।
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥
एवं परिमितं कालमाचरन्संशितव्रतः ।
आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् ॥
विमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥
प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः ।
तांस्तत्त्वविदनादृत्य आत्मन्येव निवर्तयेत् ॥
कुर्यात्परिचयं योगे त्रैकाल्ये नियतो मुनिः ।
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजयेत् ॥
संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ।
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥
येनोपायेन शक्येत संनियन्तुं चलं मनः ।
तत्तद्युक्तो निषेवेत न चैव विचलेत्ततः ॥
शून्या गिरि---श्वैव देवतायतनानि च ।
शून्यागारा---काग्रो निवासार्थमुपक्रमेत् ॥
नाभिष्व---वाचा कर्मणा मनसाऽपि वा ।
उपे-----रो लब्धालब्धे समो भवेत् ॥
यश्चैन-----न्देत यश्चैनमभिवादयेत् ।
समस्त-----भयोर्नाभिध्यायेच्छुभाशुभम् ॥
न प्रहृ---भेषु नालाभेषु च चिन्तयेत् ।
समः स-------षु सधर्मा मातरिश्वनः ॥
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः ।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः ।
एतस्मिन्निरतो मार्गे विरमेन्न च मोहितः ॥
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥
अजं पुराणमजरं सनातनं
यदिन्द्रियैरुपलभेत निश्चलैः ।
अणोरणीयो महतो महत्तरं
तदात्मना पश्यति युक्तमात्मवान् ॥
इदं महर्षेर्वचनं महात्मनो
यथावदुक्तं मनसाऽनुदृश्य च ।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां
प्रयान्ति यां भूतगतिं मनीषिणः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
षट््चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥
12-246-3 आत्मनो व्ययिन इति ध. पाठः ॥ 12-246-9 सर्वमिदं रस
इति झ. पाठः ॥ 12-246-10 एकस्य सर्वं भूतस्येति ड. पाठः ॥ 12-246-12 विज्ञानं च
प्रकाशत इति ड. थ. पाठः ॥ 12-246-15 दृतेश्वर्मकोशस्य ॥ 12-246-16 कुमीनं
जालदंशक्षमं मीनम् । कुलीरमिव मत्स्यहेति ड. थ. पाठः ॥ 12-246-18 तं च
ज्ञानेनेति ड. थ. पाठः । पञ्चज्ञानेन संधाय मनः संस्थापयेद्यतिरिति ध. पाठः ॥ 12-246-23 प्रमादो भ्रम इति ड.थ. पाठः ॥ 12-246-24 मनसैव निवर्तयेदिति ड. थ.
पाठः ॥ 12-246-26 कोष्ठं भाण़्डं यथैय चेति ध. पाठः ॥ 12-246-30
यश्चैनमभिनन्देत यश्चैनमपवादयेत् इति झ. पाठः ॥ 12-246-32 सर्वात्मना साधोरिति
ड. पाठः । स्वस्थात्मन इति झ. पाठः ॥