अध्यायः 264
नारदेन मृत्युब्रह्मसंवादानुवादपूर्वकमकम्पनस्य
पुत्रशोकापनोदनम् ॥ 1 ॥
विनीय दुःखमबला साऽऽत्मनैवायतेक्षणा ।
उवाच प्राञ्जलिर्भूत्वा तमेवावर्जिता तदा ॥
त्वया सृष्टा कथं नारी मादृशी वदतां वर ।
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी ॥
विभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे ।
त्वं मां भीतामवेक्षस्व शिवेनेश्वरचक्षुषा ॥
बालान्वृद्धान्वयस्थांश्च न हरेयमनागसः ।
प्राणिनः प्राणिनामीश नमस्तेऽस्तु प्रसीद मे ॥
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितृनपि ।
अपध्यास्यन्ति यद्येवं मृतास्तेभ्यो विभेम्यहम् ॥
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः ।
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥
यमस्य भवने देव पात्यन्ते पापकर्मिणः ।
प्रसादये त्वां वरद प्रसादं कुरु मे प्रभो ॥
एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह ।
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं महेश्वर ॥
पितामह उवाच ।
त्वं हिं संहारबुद्ध्या मे चिन्तिता रुषितेन च ।
तस्मात्संहर सर्वास्त्वं प्रजा मा च विचारय ॥
एतदेवमवश्यं हि भविता नैतदन्यथा ।
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ॥
एवमुक्ता महाबाहो मृत्युः परपुरंजय ।
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ॥
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी ।
तूष्णीमासीत्ततो देवो लोकानामीश्वरेश्वरः ॥
प्रससाद किल ब्रह्मा स्वयमेवात्मनाऽऽत्मनि ।
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ॥
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।
सा कन्याऽथ जगामास्य समीपादिति नःश्रुतम् ॥
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्यगात् ॥
सा तत्र परमं देवी तपोऽचरत दुश्चरम् ।
समा ह्येकपदे तस्थौ दशपद्मानि पञ्च च ॥
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् ।
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा ।
तथैवैकपदे तात पुनरन्यानि सप्त सा ॥
तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद ।
भूयः पद्मायुतं तात मृगैः सह चचार सा ॥
द्वे चायुते नरश्रेष्ठ वाय्वाहारा महामते ।
पुनरेव ततो राजन्मौनमातिष्ठदुत्तमम् ॥
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ।
ततो जगाम सा कन्या कौशिकीं नृपसत्तम ॥
तत्र वायुजलाहारा चचार नियमं पुनः ।
ततो ययौ महाभागा गङ्गां मेरुं च केवलम् ॥
तस्थौ दार्विव निश्चेष्टा प्रजानां हितकाम्यया ।
ततो हिमवतो मूर्ध्निं यत्र देवाः समीजिरे ॥
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमचरत्तपः ।
तस्थौ पितामहं चैव तोषयामास यत्नतः ॥
ततस्तामब्रवीत्तत्र लोकानां प्रपितामहः ।
किमिदं वर्तसे पुत्रि क्रियतां मम तद्वचः ॥
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ।
न हरेयं प्रजा देव पुनस्त्वाऽहं प्रसादये ॥
तामधर्मभयाद्भीतां पुनरेव प्रयाचतीम् ।
तदाऽब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे ।
मयाऽप्युक्तं मृषा भद्रे भविता नेह किंचन ॥
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यति ।
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥
इमन्यं च ते कामं ददानि मनसेप्सितम् ।
न त्वां दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः ॥
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि ।
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह ।
पुनरेव महात्मानं नेति देवेशमव्ययम् ॥
तामब्रवीत्तदा देवो मृत्यो संहर मानवान् ।
अधर्मस्ते न भविता यथा ध्यास्याम्यहं शुभे ॥
`त्वं हि शक्ता च युक्ता च पूर्वोत्पन्ना च भामिनि ।
अनुशिष्टा च निर्दोषा तस्मात्त्वं कुरु मे मतम्' ॥
यानश्रुबिन्दून्पतितानपश्यं
ये पाणिभ्यां धारितास्ते पुरस्तात् ।
ते व्याधयो मानवान्घोररूपाः
प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥
सर्वेषां त्वं प्राणिनामन्तकाले
कामक्रोधौ सहितौ योजयेथाः ।
एवं धर्मस्त्वामुपैष्यत्यमोघो
न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥
एवं धर्मं पालयिष्यस्यथो त्वं
न चात्मानं मञ्जयिष्यस्यधर्मे ।
तस्मात्कामं रोचयाभ्यागतं त्वं
सा त्वं साधो संहरस्वेह जन्तून् ॥
सा वै तदा मृत्युसंज्ञा कृतास्त्री
शापाद्भीता बाढमित्यब्रवीत्तम् ।
अथो प्राणान्प्राणिनामन्तकाले
कामक्रोधौ प्राप्य नित्यं निहन्ति ॥
मृत्योर्ये ते व्याधयश्चाश्चुपाता
मनुष्याणां युज्यते यैः शरीरम् ।
सर्वेषां वै प्राणिनां प्राणनान्ते
तस्माच्छोकं मा कृथा बुद्ध्य बुद्ध्या ॥
सर्वे देवाः प्राणिनां प्राणनान्ते
गत्वा वृत्ताः सन्निवृत्तास्तथैव ।
एवं सर्वे मानवाः प्राणनान्ते
गत्वा वृत्ता देववद्राजसिंह ॥
वायुर्भीमो भीमनादो महौजाः
सर्वेषां च प्राणिनां प्राणभूतः ।
अनावृत्तिर्देहिनां देहपाते
तस्माद्वायुर्देवदेवो विशिष्टः ॥
सर्वे देवा मर्त्यसंज्ञाविशिष्टाः
सर्वे मर्त्या देवसंज्ञाविशिष्टाः ।
तस्मात्पुत्रं मा शुचो राजसिंह
पुत्रः स्वर्गं प्राप्यते मोदते हे ॥
एवं मृत्युर्देवसृष्टा प्रजानां
प्राप्ते काले संहरन्ती यथावत् ।
तस्याश्चैव व्याधयस्तेऽश्रुपाताः
प्राप्ते काले संहरन्तीह जन्तून् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुष्षष्ट्यधिकद्विशततमोऽध्यायः ॥ 264 ॥
12-264-1 विनीय प्रमार्ज्य । आवर्जिता ऋजुभूता । सात्वतीवायते
क्षणेति ट. ड. पाठः ॥ 12-264-5 प्रियान् पुत्रानित्यस्य न हरेयमिति
पूर्वेणान्वयः । तत्र हेतुः । येषां संबन्धिनो मृतास्ते यद्यपध्यास्यन्ति
शप्स्यन्ते तर्हि तेषां तेभ्यो बिभेम्यहम् । अपध्यास्यन्ति ये देवमिति थ. पाठः ॥ 12-264-6 बलवदत्यन्तम् ॥ 12-264-7 निवेदये त्वा वरदेति ट. ड. पाठः ॥ 12-264-9
मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना । गच्छ संहरेति झ. पाठः ॥ 12-264-15
अप्रतिश्रुत्याऽनङ्गीकृत्य । धेनुकं गोतीर्थं मायान्तर्वर्ति ॥ 12-264-21 कौशिकी
गण्डकी नदीम् ॥ 12-264-23 दार्विव स्थाणुरिव ॥ 12-264-27 नेगृह्य हठं कृत्वा ॥ 12-264-35 कालयिष्यन्ति मृत्यो इति झ. पाठः ॥ 12-264-38 प्राप्य प्रापय्य ॥ 12-264-39 प्राणनान्ते जीवनान्ते । बुद्ध्य जानीहि । प्राणिनां प्रायणान्ते इति
ध. पाठः ॥ 12-264-41 नानावृत्तिर्देहिनां देहभेदे इति झ. पाठः ॥ 12-264-42
देवाः क्षीणपुण्या मर्त्यत्वं मर्त्याश्च कृतपुण्या देवत्वं
प्राप्नुवन्तीत्यर्थः ॥