अध्यायः 342

भीष्मेण युधिष्ठिरंप्रति दैवपित्र्यकर्मानुष्ठानस्यावश्यकत्वप्रतिपादकनारदनानायणसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैःश्रेयसं परम् ।
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः ।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥
देवतानां च को देवः पितॄणां च पिता तथा ।
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ ।
न ह्येतत्तर्कया शक्यं वक्तुं वर्षशतैरपि ॥
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा ।
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः ।
धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत ॥
कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥
तेषां नारायणनरौ तपस्तेपतुरव्ययौ ।
बदर्याश्रममासाद्य शकटे कनकामये ॥
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् ।
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥
तपसा तेजसा चैव दुर्निरीक्ष्यौ सुरैरपि ।
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥
नूनं तयोरनुमते हृदि हृच्छपचोदितः ।
महामेरोगिंरेः शृङ्गात्प्रत्युतो गन्धमादनम् ॥
नारदः सुमहद्भूतं सर्वलोकानचीचरत् ।
तं देशमगमद्राजन्वदर्याश्रममाशुगः ॥
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् ।
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ॥
सदेवासुरगन्धर्वाः सकिन्नरमहोरगाः ।
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥
धर्मस्य कुलसंताने धर्मादेभिर्विवर्धितः ।
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ॥
नरनारायणाभ्यां च कृष्णेन हरिणा तथा ।
अत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे ॥
स्थितौ धर्मसुतावेतौ तथा तपसि धिष्ठितौ ।
एतौ हि परमं धाम काऽनयोराह्निकक्रिया ॥
पितरौ सर्वभूतानां दैवतं च यशस्विनौ ।
कां देवतां तु यजतः पितॄन्वा कान्महामती ॥
इति संचिन्त्य मनसा भक्त्या नारायणस्य तु ।
सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ।
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥
तद्दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् ।
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥
नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना ।
नमस्कृत्य महादेवमिदं वचनमब्रवीत् ॥
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।
त्वमजः शाश्वतो धाता माता मृतमनुत्तमम् ॥
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ।
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः ॥
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् । पिता माता च सर्वस्य देवतानां च शाश्वतम् ।
कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥
`कमर्चसि महाभाग तन्मे प्रब्रूहि पृच्छतः ॥'
श्रीभगवानुवाच ।
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् ।
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ॥
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् ।
इन्द्रियैन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ।
त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः ॥
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरव्यया ॥
तां योनिमावयोर्विद्धि योसौ सदसदात्मकः ।
आवाभ्यां पूज्यते यो हि दैवे पित्र्ये च कल्प्यते ॥
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथवा द्विज ।
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकमाविनी ।
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥
ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तथा यमः ।
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ॥
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च ।
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥
*एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ।
तस्य देवस्य मर्यादां पूजयन्तः सनातनीम् ॥
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः ।
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥
स्वर्गस्था अपि ये केचित्तान्नमस्यन्ति देहिनः ।
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥
ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च ।
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥
मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पिता ।
स हि सर्वगतिश्चैव निर्गुणश्चैव कथ्यते ॥
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः ।
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥
तं वेदाश्चाश्रमाश्चैव नानातनुसमाश्रितम् ।
भक्त्या संपूजयन्त्यद्य गतिं चैषां ददाति सः ॥
ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः ।
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥
इति गुह्यसमुद्देशस्तव नारद कीर्तितः ।
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 342 ॥

12-342-3 किं कुर्यात्कथं न चलते दिव इति ध. पाठः ॥ 12-342-5 अतिगूढमिति प्रश्नमिति ट. पाठः । नह्येतदन्यथा शक्यमिति ध. पाठः । तर्कया तक्रेण आर्षो लिङ्गव्यत्ययः ॥ 12-342-6 ज्ञानागमेन ऋते विना ॥ 12-342-8 चतस्रो मूर्तयो नराद्याः ॥ 12-342-17 धर्मस्य मूलसंतानो महानिति विवर्धित इति ध. पाठः ॥ 12-342-19 स्थितौ धर्मोत्तरौ ह्येताविति झ. पाठः ॥ 12-342-25 सपुराणेषु शास्त्रेषु च महामतिरिति ध. पाठः । धाता विधाता मृत्युरुत्तम इति थ. पाठः ॥ 12-342-34 आत्मा हि नः स विज्ञेय इति झ. पाठः ॥ 12-342-35 तेनैव स्थापिता ब्रह्मन्निति थ. पाठः ॥