अध्यायः 031
व्यासयुधिष्ठिरसंवादः ॥ 1 ॥
तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम् ।
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥
व्यास उवाच ।
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन ।
धर्मः प्रमाणं लोकस्य नित्यं धर्मोऽनुवर्त्यताम् ॥
अनुतिष्ठस्व तद्राजन्पितृपैतामहं पदम् ।
ब्राह्मणेषु तु यो धर्मः स नित्यो वेदनिश्चितः ॥
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ ।
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता ॥
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः ।
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः ॥
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः ।
भृत्यो वा यदि वा पुत्रस्तपस्वी वाऽथ कश्चन ॥
पापान्सर्वैरुपायैस्तान्नियच्छेच्छातयीत वा ।
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्विषम् ॥
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ।
ते त्वया धर्महन्तारो निहताः सपदानुगाः ॥
स्वधर्मे वर्तमानस्त्वं किंनु शोचसि पाण्डव ।
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ॥
युधिष्ठिर उवाच ।
न तेऽतिशङ्के वचनं यद्ब्रवीषि तपोधन ।
अपरोक्षो हि ते धर्मः सर्वधर्मविदां वर ॥
मया त्ववध्या बहवो घातिता राज्यकारणात् ।
तानि कर्माणि मे ब्रह्मन्दहन्ति च पचन्ति च ॥
व्यास उवाच ।
ईश्वरो वा भवेत्कर्ता पुरुषो वाऽपि भारत ।
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥
ईश्वरेण नियुक्तो हि साध्वसाधु च भारत ।
कुरुते पुरुषः कर्म फलमीश्वरगामि तत् ॥
यथाहि पुरुषश्छिन्द्याद्वृक्षं परशुना वने ।
छेत्तुरेव भवेत्पापं परशोर्न कथंचन ॥
अथवा तदुपादानात्प्राप्नुयात्कर्मणः फलम् ।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥
न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम् ।
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय ॥
अथापि पुरुषः कर्ता कर्मणोः शुभपापयोः ।
न परो विद्यते तस्मादेवमप्यशुभं कुतः ॥
न हि कश्चित्क्वचिद्राजन्दिष्टं प्रतिनिवर्तते ।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ॥
यदि वा मन्यसे राजन्हतमेकं प्रतिष्ठितम् ।
एवमप्यशुभं कर्म न भूतं न भविष्यति ॥
अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः ।
अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम् ॥
तथापि लोके कर्माणि समावर्तन्ति भारत ।
शुभाशुभफलं चैते प्राप्नुवन्तीति मे मतिः ॥
एवं पश्य शुभादेशं कर्मणस्तत्फलं ध्रुवम् ।
त्यज त्वं राजशार्दूल मैवं शोके मनः कृथा ॥
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत ।
एवमात्मपरित्यागस्तव राजन्न शोभनः ॥
विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम् ।
शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ॥
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं करिष्यसि ।
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्ताऽसि भारत ॥
युधिष्ठिर उवाच ।
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा ।
श्वशुरा गुरवश्चैव मातुलाश्च पितामहाः ॥
क्षत्रियाश्च महात्मानः संबन्धिसुहृदस्तथा ।
वयस्या भागिनेयाश्च ज्ञातयश्च पितामह ॥
बहवश्च मनुष्येन्द्रा नानादेशसमागताः ।
घातिता राज्यलुब्धेन मयैकेन पितामह ॥
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः ।
असकृत्सोमपान्वीरान्क्रिं प्राप्स्यामि तपोधन ॥
दह्याम्यनिशमद्यापि चिन्तयानः पुन पुनः ।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् ।
कोटिशश्च नरानन्यान्परितप्ये पितामह ॥
का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति ।
विहीनानां तु तनयैः पतिभिर्भ्रातृभिस्तथा ॥
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहतान् ।
आक्रोशन्त्यः कृशा दीनाः प्रपतिष्यन्ति भूतले ॥
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः ।
त्यक्त्वा प्राणान्स्त्रियः सर्वागमिष्यन्ति यमक्षयम् ॥
वत्सलत्वाद्द्विजश्रेष्ठ तत्र ये नास्ति संसयः ।
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् ॥
ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम् ।
नकरे निपतिष्यामो ह्यधः शिरस एव ह ॥
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम ।
आश्रमाणां विशेषं त्वमथाचक्ष्व पितामह ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥
12-31-7 शातयीत मारेयत् ॥ 12-31-11 मे माम् ॥ 12-31-12 नापरो
वर्तते लोके कर्मजं वा फलं नृषु । इति ड.थ. पाठः ॥ 12-31-15 प्राप्नुयात्
परशोरुपादाता । एवं तर्हि विन परशोर्दण्डः शस्त्रं परशुश्च कृतस्तमेव पापं कर्तृ
प्राप्नुयात्तस्य प्रथमप्रयोज्यत्वात् । पुरुषे उपादातरि तन्न विद्यते तस्य
जघन्यत्वात् ॥ 12-31-16 यदि चैतन्नेष्टं एतत्किं यदन्येन प्रहर्त्रा कृतं पापं
तस्य फलं शस्त्रकर्ता आप्नुयादिति । तर्हि जघन्यप्रयोज्ये त्वय्यपि
पापाभावादीश्वरे एव तन्निवेशय ॥ 12-31-18 यतः कश्चिदपि दिष्टं
प्रत्यद्द्वष्टस्य प्रतिकूलो भूत्वावश्यंभाविनः कर्मणः सकाशान्न निवर्तते ।
दैवस्य दुर्लङघ्यत्वादिति भावः ॥ 12-31-20 पुण्यपापयोः सुख दुःखयोः
अभिपत्तिरुपपत्तिः कर्तव्या साच धर्माधर्मावन्तरेण न घटते तौच
शास्त्रैकगम्याविति चेद्राज्ञामुद्यतदण्डनमुद्धतदमनं लोके शास्त्रे
चोपपन्नतरमित्यर्थः ॥ 12-31-23 सापवादे निन्द्येऽपि ॥