अध्यायः 362
भीष्मेण युधिष्ठिरंप्रत्युच्छवृत्त्युपाख्यानोषोद्धातकथनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः ।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान् ॥
भीष्म उवाच ।
सर्वत्र विहितो धर्मः सत्यः सत्यफलोदयः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥
यस्मिन्यस्मिंश्च विषये यो यो याति विनिश्चयम् ।
स तमेवाभिजानाति नान्यं भरतसत्तम ॥
इमां च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम् ।
पुरा शक्रस्य कथितां नारदेन महर्षिणा ॥
महर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः ।
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा ॥
स कदाचिन्महेष्वास देवराजालयं गतः ।
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् ॥
तं कृतक्षणमासीनं पर्यपृच्छच्छत्तीपतिः ।
महर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयाऽनघ ॥
दृष्टमेव हि विप्रर्षे त्रैलोक्यं सचराचरम् ।
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् ॥
न ह्यस्त्यविदितं लोके देवर्षे तव किंचन ।
श्रुतं वाऽप्यनुभूतं वा दृष्टं वा कथयस्व मे ॥
तस्मै राजन्सुरेन्द्राय नारदो वदतांवरः ।
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् ॥
यथा येन च कल्पेन स तस्मै द्विजसत्तमः ।
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 362 ॥
12-362-2 स्वर्गः सत्यफलं महदिति झ. पाठः ॥ 12-362-3 सर्वेष्वाश्रमेषु स्वर्गो मोक्षश्चास्ति तेषु यत्र यस्य रुचिस्तेन स कृतकृत्यो नान्यं धर्मं बहु मन्यते इति श्लोकद्वयार्थः ॥ 12-362-4 अपिच त्वं नरव्याघ्रेति ट. पाठः ॥ 12-362-11 कल्पेन न्यायेन ॥