अध्यायः 036

व्यासेन भीष्ममुखाराजधर्मादिश्रवणे आदिष्टस्य युधिष्ठिरस्य कृष्णाद्याज्ञया धृतराष्ट्रादिभिः सह कुरुनगरप्रवेशः ॥ 1 ॥

युधिष्ठिर उवाच ।
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने ।
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥
आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम ।
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ॥
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यसमन्विता ।
कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते ।
एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥
वैशंपायन उवाच ।
तमुवाच महाराज व्यासो वेदविदां वरः ।
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ॥
श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप ।
प्रेहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ॥
स ते धर्मरहस्येषु संशयान्मनसि स्थितान् ।
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥
जनयामास यं देवी दिव्या त्रिपथगा नदी ।
साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान् ॥
बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः ।
तोषयित्वोपचारेण राजनीतिमधीतवान् ॥
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः ।
स च धर्मं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् ।
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्चरितव्रतः ॥
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् ।
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् ।
रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुपर्षभः ॥
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि ।
तथाऽनपत्यस्य सतः पुण्यलोकादिविश्रुताः ॥
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्स भसादः ।
यस्य नाविदितं किंचिज्ज्ञानं ज्ञेयेषु दृश्यते ॥
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् ।
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः ।
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥
युधिष्ठिर उवाच ।
वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम् ।
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥
घातयित्वा तमेवाजौ छलेनाजिह्नयोधिनम् ।
उपसंप्रष्टुमर्हामि तमहं केन हेतुना ॥
वैशंपायन उवाच ।
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया ।
पुनरेव महाबाहुर्यदुश्रेष्ठोऽब्रवीद्वचः ॥
वासुदेव उवाच ।
नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि ।
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ॥
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः ।
पर्जन्यमिव घर्मान्ते नाथमाना उपासते ॥
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् ।
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् ।
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥
सुहृदामस्मदादीनां द्रौपद्यांश्च परंतप ।
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥
वैशंपायन उवाच ।
एवमुक्तः स कृष्णेन राजा राजीवलोचनः ।
हितार्थं सर्वलोकस्य समुत्तस्थौ महामनाः ॥
सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम् ।
द्वैपायनेन च तथा देवस्थानेन जिष्णुना ॥
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः ।
व्यजहान्मानसं दुःखं संतापं च महायशाः ॥
श्रुतवाक्यः श्रुतनिधिः श्रुतश्राव्यविशारदः ।
व्यवस्य मनसा शान्तिमगच्छत्पाण्डुनन्दनः ॥
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ॥
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥
ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम् ।
युक्तं षोडशभिस्त्वश्चैः पाण़्डुरैः शुभलक्षणैः ॥
मन्त्रैरभ्यर्चितं पण्यैः स्तूयमानश्च बन्दिभिः ।
आरुरोह यथा देवः सोमोऽम्रतमयं यथम् ॥
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः ।
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥
ध्रियमाणं च तच्छत्रं पाण्डुरं राजमूर्धनि ।
शुशुभे तारकाराजः सिताभ्र इव चाम्बरे ॥
चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा ।
चन्द्ररश्मिप्रये शुभ्रे माद्रीपुत्रावलंकृते ॥
ते पञ्च रथमास्थाय भ्रातरः समलंकृताः ।
भूतानीव समस्तानि राजन्ददृशिरे तदा ॥
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः ।
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥
रथं हेममयं शुभ्रं शैव्यसुग्रीवयाजितम् ।
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत ।
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च माधवी ।
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥
ततो रथाश्च बहुला नागाश्वसमलंकृताः ।
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः ।
स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥
तत्प्रयाणं माहबाहोर्बभूवाप्रतिमं भुवि ।
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम् ॥
अभियाने तु पार्थस्य नरैर्नगरवासिभिः ।
नगरं राजमार्गाश्च यथावत्समलंकृताः ॥
पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी ।
संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः ॥
अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गुभिः ।
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥
कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः ।
सिताः सुमनसो गौराः स्थापितास्तत्र तत्र ह ॥
तथा स्वलंकृतं द्वारं नगरं पाण्डुनन्दनः ।
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट््त्रिंशोऽध्यायः ॥ 36 ॥

12-36-3 कौतूहलेन प्रसङ्गेनाऽनुप्रवणा अभिमुखा ॥ 12-36-6 प्रेहि प्रयाहि ॥ 12-36-10 यच्च देवगुरुर्द्रिज इति झ. पाठः । सवैयाख्यं व्याख्यासहितम् ॥ 12-36-16 विमुञ्चति विमोक्ष्यति ततः पुरा ॥ 12-36-18 वैशसं विनाशम् ॥ 12-36-22 नाथमानाः याचमानाः । उपासत इत्युत्तरत्रापि योज्यम् ॥ 12-36-27 विष्टरश्रवसा विष्णुना ॥ 12-36-28 संतापं शारीरं तापम् ॥ 12-36-29 वाक्यानि वेदावयवाः । निधिस्तदर्थविचारग्रन्थो मीमांसा । श्रुतं श्राव्यं नीतिशास्त्रादि । व्यवस्य कर्तव्यमर्थं निश्चित्य ॥ 12-36-33 अमृतमयं देवतामयम् ॥ 12-36-38 युयुत्सुर्धृतराष्ट्रपुत्रः ॥ 12-36-46 मेदिनी समलंकृतेत्यनुषज्यते । धूपनैः अगरुप्रभृतिभिर्धूपद्रव्यैः ॥