अध्यायः 009
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति सदृष्टान्तप्रदर्शनं दैवादपि पुरुषकारस्य
प्राबल्यप्रतिपादनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वसास्त्रविशारद ।
दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥
दैवमानुषयोः किंस्वित्कर्मणोः श्रेष्ठमित्युत ।
पुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥
ततः पद्मोद्भवो राजन्देवदेवः पितामहः ।
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥
`बीजतो ह्यङ्कुरोत्पत्तिरङ्कुरात्पर्णसम्भवः ।
पर्णान्नालाः प्रसूयन्ते नालात्स्कन्धः प्रवर्तते ॥
स्कन्धात्प्रवर्तते पुष्पं पुष्पात्संवर्धते फलम् ।
फलान्निर्वर्तते बीजं बीजात्स्यात्सम्भवः पुनः' ॥
नाबीजं जायते किञ्चिन्न बीजेने विना फलम् ।
बीजाद्बीजं प्रभवति नाबीजं विद्यते फलम् ॥
यादृशं वपते बीजं क्षेत्रमासाद्य वापकः ।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम् ॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ॥
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् ।
क्षेत्रबीजसमायोगात्ततः सस्यं समृद्ध्यते ॥
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥
कृती सर्वत्र लभते प्रतिष्ठां भाग्यवीक्षितः ।
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥
तपसा रूपसौभाग्यं रत्नानि विविधानि च ।
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता ।
सर्वं पुरुषकारेण कृतेनेहोपलभ्यते ॥
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः ।
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् ।
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥
शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु ।
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् ।
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः ।
स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् ।
लोको दैवं समालक्ष्य उदासीनो भवेद्यदि ॥
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते ।
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ॥
न तथा मानुषे लोके फलमस्ति शुभाशुभे ।
यथा त्रिदशलोके हि फलमल्पेन जायते ॥
कृतः पुरुषकारस्तु दैवमेवानुवर्तते ।
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति ॥
यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि ।
कथं कर्म विना दैवं स्थास्यति स्थापयिष्यतः ॥
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् ।
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥
ऋषीणां देवतानां च सदा भवति विग्रहः ।
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥
कथं तस्य समुत्पत्तिर्यतो दैवं प्रवर्तते ।
एवं त्रिदशलोकेऽपि प्राप्यते परमं सुखम् ॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।
आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ॥
कृतं च विकृतं किञ्चित्सिद्ध्यते गुरुकर्मणा ।
सुकृतं दुष्कृतं कर्म अकृतार्थं प्रपद्यते ॥
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते ।
पुण्यहीनं नरं प्राप्य किं दैवं प्रकरिष्यति ॥
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ ।
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा ।
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः ।
महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ ।
न गच्छतः स्वर्गलोकं वेददृष्टेन कर्मणा ॥
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः ।
मिथ्याभिधानेनैकेन रसातलतलं गतः ॥
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः ।
विष्णोः पुरुषकारेण पातालसदनः कृपः ॥
शक्रस्याथ रथोपस्थे विष्ठितो जनमेजयः ।
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च ।
वैशंपायनविप्रर्षिः किं दैवेन न वारितः ॥
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे ।
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः ।
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः ।
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥
तपोनियमसंयुक्ता मुनयः संशितव्रताः ।
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् ।
लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥
यथाऽऽग्निः पवनोद्भूतः सुसूक्ष्मोऽपि महान्भवेत् ।
तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति ।
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ॥
विपुलमपि धनौघं प्राप्य भोगान्त्रियो वा
पुरुष इह न शक्तः कर्महीनो हि भोक्तुम् ।
सुविहितमपि चार्थं दैवते रक्ष्यमाणं
पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः ॥
व्ययगुमपि साधुं कर्मणा संश्रयन्ते
भवती मनुजलोकाद्दैवलोको विशिष्टः ।
बहुतरसुसमृद्ध्या मानुषाणां गृहाणि
पितृवनभवनाभं दृश्यते चामराणाम् ॥
न च फलति विकर्मा जीवलोके न दैवं
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम् ।
गुरुमिव कृतमग्र्यं कर्म संयाति दैवं
नयति पुरुषकारः सञ्चितस्तत्रतत्र ॥
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम ।
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥
अभ्युत्थानेन दैवस्य समारब्धेन केनचित् ।
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवमोऽध्यायः ॥ 9 ॥
7-9-13 नाकृती लभतेऽभीष्टं क्षितिः क्षीरावसेचनमिति ध.पाठः ॥ 7-9-16 चन्द्रार्कतारका इति ध.पाठः । 7-9-18 लभते श्रियमिति सर्वत्र सम्बन्धः ॥ 7-9-24 अकृते कर्माभावे सति ॥ 7-9-26 व्यापारं पुण्यरूपं यान्ति अनुमोदन्ते ।
उग्रं धर्मविघ्नकरम् । एवं सञ्जनयन्त्युग्रा आत्मनिर्भयशङ्कयेति ध.पाठः ॥ 7-9-27
यद्यप्येवं कर्मपरत्वं देवर्षीणामस्ति तथापि अदैवं दैवाभावो न वक्तुं शक्य
इत्यर्थः ॥ 7-9-28 यतो यस्माद्दैवं प्रवर्तते तस्य कर्मणोऽपि दैवं विना
कथमुत्पत्तिः स्यान्न कथमपि ॥
श्रीः