अध्यायः 149
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरंप्रति यतिशुश्रूषादिनानाधर्मकथनम् ॥ 1 ॥
`पराशर उवाच ।
एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः ।
सर्वाभिरूपसेवाभिस्तुष्यन्ति यतयो यथा ॥
नापराध्येत भिक्षोस्तु न चैनमवधीरयेत् ।
उत्तरं च न सन्दद्यात्क्रुद्धं चैव प्रसादयेत् ॥
श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत् ।
तूष्णींभावेन वै तत्र न क्रुद्धमभिसंवदेत् ॥
नाददीत परस्वानि न गृह्णीयादयाचितम् ।
लब्धालब्धेन जीवेत तथैव परितोषयेत् ॥
कोपिनं तु न याचेत ज्ञानविद्वेषकारितः ।
स्थावरेषु दयां कुर्याज्जङ्गमेषु चु प्राणिषु ॥
यथाऽऽत्मनि तथाऽन्येषु समां दृष्टिं निपातयेत् ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
सम्पश्यमानो विचरन्ब्रह्मभूयाय कल्पते ॥
हिंसा वा यदि वाऽहिंसां न कुर्यादात्मकारणात् ।
यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत् ॥
एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन् ।
आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान् ॥
जरायुजाण्डजाश्चैव उद्भिज्जाः स्वेदजाश्व ये ।
अवध्याः सर्व एतैते बुधैः समनुवर्णिताः ॥
निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते ।
हिंसा यथाऽन्या विहिता तथा दोष प्रयोजयेत् ।
तथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम् ॥
न हि लोभः प्रभवति हिंसा वाऽपि तदात्मिका ।
शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना ॥
यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान् ।
कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते ॥
न शूद्रः पतते कश्चिन्न च संस्कारमर्हति ।
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् ॥
अनुग्रहार्तं मनुना सर्ववर्णेषु वर्णितम् ।
यदापवादस्तु भवेत्स्त्रीकृतः परिचारके ।
अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम् ।
तेन तस्य भवेच्छान्तिस्ततो भूयोप्युपाव्रजेत् ॥
सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति ।
वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट् समाः ।
ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः ।
कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत् ।
शिश्नावपातनाद्वाऽपि विशुद्धिं समवाप्नुयात् ॥
अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत् ।
उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश ॥
त्रिः स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते ।
अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते ॥
अनेन विधिना वाऽपि स्थावरेषु न संशयः ।
कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते ॥
अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु यश्चरेत् ।
तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु ॥
चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते ।
कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम् ॥
तस्मादेतानि सर्वाणि विदित्वा न समाचरेत् ।
सर्वभूतहितार्थं हि कुशलानि समाचरेत् ॥
एवं समाहितमनाः सेवते यदि यत्तमान् ।
तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥
एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान् ।
निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति' ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥
श्रीः