अध्यायः 103

कृष्णेन युधिष्ठिरंप्रति वृषभगृहशय्यादिदानप्रशंसनम् ॥ 1 ॥ तथा गोब्राह्मणरक्षणादिनानाधर्मकथनम् ॥ 2 ॥

वैशंपायन उवाच ।

वासुदेवेन दानेषु कथितेषु यथाक्रमम् ।
अवितृप्तश्च धर्मेषु केशवं पुनरब्रवीत् ॥
देव धर्मामृतमिदं शृण्वतोपि परंतप ।
न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव ॥
अनडुत्संप्रदानस्य यत्फलं तु विधीयते ।
तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत ॥
यानिचान्यानिदानानित्वया नोक्तानि कानिचित् ॥
तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात्फलम् ॥
भगवानुवाच ।
पवित्रत्वात्सुपुण्यत्वात्पावनत्वात्तथैव च ।
शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम् ॥
दशधेनुसमोऽनड्वानेकोपि कुरुपुङ्गव ।
मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः ॥
युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः ।
धुरं धारयति क्षिप्रं दत्तो विप्राय पाण्डव ॥
स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर ।
यथाकामं महादेजा गवां लोके महीयते ॥
यश्च दद्यादनडुहौ द्वौ युक्तौ च धुरंधरौ । सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः ।
तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर ॥
सहस्रगोप्रदानेन यत्प्रोक्तं फलमुत्तमम् ॥
तत्पुण्यफलमाप्नोति याति लोकान्स मामकान् ॥
यावन्ति चैव रोमाणि तयोरनुडुहोर्नृप ।
तावद्वर्षसहस्राणि मम लोके महीयते ॥
दरिद्रायैव दातव्यं न समृद्धाय पाण्डव ।
वर्षाणां हि तटाकेषु फलं नैव पयोधिषु ॥
यस्तु दद्यादनडुहं दरिद्राय द्विजातये ।
स तेन पुण्यदानेन पुतात्मा कुरुपुङ्गव ॥
विमानं दिव्यमारूढो दिव्यरूपी यथासुखम् ।
मम लोकेषु रमते यावदाभूतसंप्लुवम् ॥
गृहं दीपप्रभायुक्तं शय्यासनविभूषितम् । भाजनोपस्करैर्युक्तं धनधान्यैरलङ्कृतम् ।
दासीगोभूमिसंयुक्तमन्यूनं सर्वसाधनैः ॥
ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर ।
दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु ॥
देवाः पितृगणाश्चैव ह्यग्नयो ऋषयस्तथा ।
प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसन्निभम् ॥
तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम् । स्त्रीसहस्रावृते रम्ये भवने तत्र काञ्चने ।
मोदते ब्रह्मलोकस्थो यावदाभूतसप्लवम् ॥
शय्यं प्रस्तरणोपेतां यः प्रयच्छति पाण्डव । अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः ।
भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु ॥
धेनुदानस्य यत्पुण्यं विधिदत्तस्य पाण्डव ।
तत्पुण्यं तमनुप्राप्य पितृलोके महीयते ॥
शिल्पमध्ययनं वाऽपि विद्यां मन्त्रौषधानि च ।
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ॥
आहिताग्निसहस्रस्य पूजितस्यैव यत्फलम् ।
तत्पुण्यफलमाप्नोति यस्तु शय्यां प्रयच्चति ॥
छन्दोभिः संप्रयुक्तेन विमानेन विराजता ।
सप्तर्षिलोकान्व्रजति पूज्यते ब्रह्मवादिभिः ॥
चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् ।
इह मानुष्यके लोके विप्रो भवति वेदवित् ॥
विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम् ।
कविनश्यति तदा पापं तस्य वर्षकृतं नृप ॥
अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान् ।
दशवर्षकृतं पापं व्यपोहति न संशयः ॥
घृतेन वाऽथ तैलेन पादौ तस्य तु पूजयेत् ।
तद्द्वादसमारूढं पापमाशु व्यपोहति ॥
धेनुकाञ्चनदत्तस्य यत्पुण्यं समुदाहृतम् ।
तत्पुण्यफलमाप्नोति यस्त्वेनं विप्रमर्चयेत् ॥
स्वागतेन तु यो विप्रं पूजयेदासनेन च ।
प्रत्युत्थानेन वा राजन्स देवानां प्रियो भवेत् ॥
स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः ।
प्रत्युत्थानेन पितरः प्रीति यान्त्यतिथिप्रियाः ॥
अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप ।
संवत्सरकृतं पापं तस्य सद्यो विनश्यति ॥
यः प्रयच्छति विप्राय आसनं माल्यभूषितम् ।
स याति मणिचित्रेण रथेनेन्द्रनिकेतनम् ॥
पुरन्दरासने तत्र दिव्यनारीविभूषितः ।
षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः ॥
वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर ।
स याति रत्नचित्रेण वाहनेन सुरालयम् ॥
स तत्र कामं क्रीडित्वा सेव्यमानोप्सरोगणैः ।
इह राजा भवेद्राजन्नात्र कार्या विचारणा ॥
पादपं पल्लवाकीर्णं पुष्पतिं फलितं तथा ।
गन्धमाल्यैरथाभ्यर्च्य वस्त्राभरणभूषितम् ॥
यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम् ।
भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु ॥
जांबूनदविचित्रेण विमानेन विराजता ।
पुरन्दरपुरं याति जयशब्दरवैर्युतः ॥
ततः शक्रपुरे रम्ये तस्य कल्पकपादपः ।
ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति ॥
यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च ।
तावद्वर्षसहस्राणि शक्रलोके महीयते ॥
शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः ।
रथाश्वगजसंपूर्णं पुरं राज्यं च वक्ष्यति ॥
स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृति नरः । आलयं विधिवत्कृत्वा पूजाकर्म च कारयेत् ।
स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु ॥
अश्वमेधसहस्रस्य यत्पुण्यं समुदाहृतम् । तत्फलं समवाप्नोति मत्सालोक्यं प्रपद्यते ।
न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर ॥
देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा ।
प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु ॥
आरुद्य काञ्चनं यानं द्योतयन्सर्वतो दिशम् । गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः ॥छ
तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः ।
इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः ॥
देवालयेषु वा राजन्ब्राह्मणावसथेषु वा ।
चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा ॥
नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च ।
यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना ॥
तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः ।
सुप्रीताः संप्रयच्चन्ति विमानं कामगं सुखम् ॥
स च तेन पिमानेन याति देवपुरं नरः ।
तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते ॥
देवलोकावतीर्णस्तु सोस्मिँल्लोके नराधिप ।
वेदवेदाङ्गतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥
चत्वरे वा सभायां वा विस्तीर्णि वा सभाङ्गणे ।
कृत्वाऽग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर ॥
तत्राग्निं चतुरो मासाञ्ज्वालयेद्यस्तु भक्तिमाम् ।
समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान् ॥
भोजयेत्पायसं मृष्टं मद्गतेनान्तरात्मना ।
दक्षिणां च यथाशक्ति ब्राह्म्णेभ्यो निवेदयत् ॥
एवमग्निं तु यः कुर्यान्नित्यमेवार्चयेत्तु माम् ।
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ॥
तेनाहं शङ्करश्चैव पितरो ह्यग्नयस्तथा ।
यास्यामः परमां प्रीतिं नात्र कार्याविचारणा ॥
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।
सोस्मत्प्रीतिकरः श्रीमान्मम लोके महीयते ॥
मम लोकावतीर्णश्च अस्मिँल्लोके महायशाः ।
वेदवेदाङ्गविद्विप्रो जायते राजपूजितः ॥
यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु । श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः ।
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ॥
गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम् ।
तत्सर्वफलमाप्नोति वर्षेणैकेन पाण्डव ॥
काञ्चनेन विचित्रेण विमानेनार्कशोभिना ।
स याति मामकं लोकं दिव्यस्त्रीगणसेवितः ॥
गीयमानो वरस्त्रीभिर्वर्षाणां कोटिविंशतिम् । क्रीडित्वा मामके तत्र सर्वदेवैरभिष्टुतः ।
मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत् ॥
करकां कर्णिकां वाऽपि महद्वा जलभाजनम् ।
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ॥
ब्रह्मकूर्चे तु यत्पीते फलं प्रोक्तं नरादिप । तत्पुण्यफलमाप्नोति जलभाजनदो नरः ।
सुतृप्तः सर्वसौगन्धः प्रहृष्टेन्द्रियमानसः ॥
हंससारसयुक्तेन विमानेन विराजता ।
स याति वारुणं लोकं दिव्यगन्धर्वसेवितम् ॥
पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम् ।
ग्रीष्मे च त्रिषु मासेषु तस्य पुण्यफलं शृणु ॥
कपिलाकोटिनानस्य यत्पुण्यं तु विधीयते ।
तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति ॥
पूर्णचन्द्रप्रकासेन विमानेन विराजता ।
स गच्छेच्चन्द्रभवनं सेव्यमानोप्सरोगणैः ॥
त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः ।
क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत् ॥
शिरोभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः ।
सुभगो रूपवाञ्शूरः पण्डितश्च भवेद्द्विजः ॥
वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः ।
सुभगो भवति श्रीमान्स्त्रीणां नित्यं मनोरमः ॥
उपानहौ च च्छत्रं च यो ददाति नरोत्तमः । स याति रथमुख्येन काञ्चनेन विराजता ।
शक्रलोकं महातेजाः सेव्यमानोप्सरोगणैः ॥
काष्ठपादुकदा यान्ति विमानैर्वृक्षनिर्मितैः ।
धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः ॥
दन्तकाष्ठप्रादनेन प्रियवाक्यो भवेन्नरः ।
सुगन्धवदनः श्रीमान्मेदासौभाग्यसंयुतः ॥
क्षीरं दधि घृतं वाऽपि गुडं मधुरसं तथा ।
ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिमुपागताः ॥
ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः ।
उपगीयमाना गन्धर्वैर्यान्तीश्वरपुरं नराः ॥
तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम् ।
षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः ॥
ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः ॥
प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः ॥
वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन ।
वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः ॥
अभ्यर्च्य विधिवद्विप्रांस्तिलान्गुडसमन्वितान् ।
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पुण्यफलं शृणु ॥
गोप्रदानेन यत्पुण्यं विधिवत्पाण्डुनन्दन । तत्पुण्यं समनुप्राप्तो यमलोके महीयते ।
ततश्चापि च्युतः कालादिह राजा भविष्यति ॥
तस्मिन्नेव दिने विप्रान्भोजयित्वा सुदक्षिणम् ।
तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये ॥
ते यान्त्यादित्यवर्णाभैर्विमानैर्वरुणालयम् ।
तत्र दिव्याङ्गनाभिस्तु रमन्ते कामकामिनः ॥
ततोऽवतीर्णाः कालेन ते चास्मिन्मानुषे पुनः ।
भोगवन्तो द्विजश्रेष्ठ भविष्यन्ति न संशयः ॥
अनन्तराशी यश्चापि वर्तते व्रतवत्सदा । सत्यवाक्क्रोधरहितः शुचिः स्नानरतः सदा ।
स विमानेन दिव्येन याति शक्रपुरं नरः ॥
तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः ।
क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः ॥
एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते । ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः ।
स विमानेन दिव्येन याति शक्रपुरं नरः ॥
दशकोटिसहस्राणि क्रीडित्वाऽप्सरसां गणैः ।
इह मानुष्यके लोके वेदविद्ब्राह्मणो भवेत् ॥
चतुर्थकाले यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः ।
वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु ॥
चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना ।
याति यानेन दिव्येन स महेन्द्रपुरं नरः ॥
अकृशाभिर्वरस्त्रीभिः सेव्यमानो यथासुखम् ।
ततो द्वादशकोटिं स समाः सम्यक्प्रमोदते ॥
शक्रलोकावतीर्णस्तु लोके चास्मिन्नराधिप ।
भवेद्वै ब्राह्मणो विद्वान्क्षमावान्वेदपारगः ॥
षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः । ब्रह्मचर्यव्रतैर्युक्तः शुचि क्रोधविवर्जितः ।
तपोयुक्तस्य तस्याथ शृणुष्व फलमुत्तमम् ॥
अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः ।
स याति मम लोकान्वै दिव्यनारीनिषेवितः ॥
तत्र साध्यैर्मरुद्भिस्तु पूज्यमानो यथासुखम् ।
पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः ॥
पक्षोपवासं यश्चापि कुरुते मद्गतात्मना ।
समाप्ते तु व्रते तस्मिंस्तर्पयेच्छ्रोत्रियान्द्विजान् ॥
सोपि गच्छति दिव्येन विमानेन महातपाः । द्योतयनप्रभया व्योम मम लोकं प्रपद्यते ।
स तत्र मोदते कामं कामरूपी यथासुखम् ॥
त्रिंशत्कोटिसमा राजन्क्रीडित्वा तत्र देववत् । इह मानुष्यके लोके पूजनीयो द्विजो भवेत् ।
त्रयाणामपि वेदानां साङ्गानां पारगे भवेत् ॥
यश्च मासोपवासं वै कुरुते मद्गतात्मना ।
जितेन्द्रियो जितक्रोधोजितधीः स्नानतत्परः ॥
समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान् ।
दक्षिणां च ततो दद्यात्प्रहृष्टेनान्तरात्मना ॥
स गच्छति महातेजा ब्रह्मलोकमनु****म् ।
सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः ॥
स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः ।
शतकोटिसमा राजन्यथाकामं प्रमोदते ॥
ततः कालावतीर्णश्च सोस्मिँल्लोके द्विजो भवेत् ।
षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान् ॥
यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः ।
महाप्रस्तानमेकाग्नो याति मद्गतमानसः ॥
स गच्छेदिन्द्रसदनं विमानेन महातपाः ।
महामणिविचित्रेण सौवर्णन विराजता ॥
शतकोटिसमास्तत्र सुराधिपतिपूजितः ।
नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः ॥
शक्रलोकावतीर्णश्च मानुषेषूपजायते ।
राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः ॥
प्रायोपवेशं यश्चापि कुरुते मद्गतात्मना । नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः ।
अन्तःस्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु ॥
कामगः कामरूपी च बालसूर्यसमप्रभः ।
स विमानेन दिव्येन याति लोकाननामयान् ॥
स्वर्गत्स्वर्गं महातेजा गत्वा चैव यथासुखम् ।
मम लोकेषु रमते यावदाभूतसंप्लवम् ॥
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना ।
सोपि यानेन दिव्येन मम लोकं प्रपद्यते ॥
तत्र सर्वगुणोपेतः पश्यन्नेव स मां सदा । त्रिंशत्कोटिसमा राजन्मोदते मम संनिधौ ।
ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत् ॥
कर्षणं साधयन्यस्तु मां प्रपन्नः शुचिव्रतः ।
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रमुदाहरन् ॥
बालसूर्यप्रकाशेन विमानेन विराजता । मम लोकं समासाद्य वर्षकोटिं प्रमोदते ।
मम लोकावतीर्णश्च सोस्मिँल्लोके नृपो भवेत् ॥
निवेशयति मन्मूर्त्यामात्मानं मद्गतः शुचिः ।
रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः ॥
सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः ।
गन्धर्वैर्भूतसङ्घैश्च गीयमानो महातपाः ॥
प्रविशेत्स महातेजा मां वा शङ्करमेव वा ।
न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा ॥
गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा ।
हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते ॥
तत्र जांबूनदमये विमाने कामगामिनि ।
मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः ॥
आश्रुतस्याप्रादनेन दत्तस्य हरणेन च ।
जन्मप्रभृति यद्दत्तं तत्सर्वं तु विनश्यति ॥
नाऽगोप्रदास्तत्र पयः पिबन्ति नाभूमिदा भूमिमथाश्नुवन्ति ।
यान्यान्कामान्ब्राह्मणेभ्यो ददाति तांस्तान्कामान्स्वर्गलोके च भुङ्क्ते ॥
यद्यदिष्टतमं द्रव्यं न्यायनोपार्जितं च यत् ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्त्वा काञ्चनं गां दरिद्रो नाम जायते ॥
दानं यत्तत्फलं नैव श्रोत्रियाय न दीयते ।
श्रोत्रिया यत्र नाश्नन्ति न देवास्तत्र भुञ्जते ॥
श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत् ।
निधानं चापि राजेन्द्र नास्माच्छ्रोत्रियभोजनम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि त्र्यधिकशततमोऽध्यायः ॥

7-103-64 अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत्प्रातर्ब्रह्मकूर्चविधिः स्मृतः ॥ 7-103-66 ग्रीष्मे चतुर्षु मासेषु इति थ.पाठः ॥

श्रीः