अध्यायः 007

वसुदेवेन स्वगृहमागतेऽर्जुने यादवक्षयनिदाननिवेदनपूर्वकं कृष्णाद्यनुस्मरणेन परिशोचनम् ॥ 1 ॥ तथा तंप्रति कृष्णवचननिवेदनेन राज्यस्त्रीधनादिसमर्पणपूर्वकं स्वेन स्वप्राणत्यजनप्रतिज्ञानम् ॥ 2 ॥

वैशम्पायन उवाच ।

तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः ।
पुत्रशोकेन संतप्तो ददर्श कुरुपुङ्गवम् ॥
तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः ।
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥
तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः ।
स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन् ॥
समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः । रुरोदाथ स्मरञ्शौरिं विललाप सुविह्वलः ।
भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान्स सखीनपि ॥
वसुदेव उवाच ।
यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन ।
तान्सर्वान्नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥
यो तावर्जुनशिष्यौ ते प्रियौ बहुमतौ सदा ।
तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ ।
प्रद्युम्नो युयुधानश्चि कथनन्कत्थसे च यौ ॥
तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ ।
तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय ॥
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन ।
अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥
केशिनं यस्तु कंसं च विक्रम्यि हतवान्प्रभुः ।
विदेहमकरोत्पार्थं चैद्यं च बलगर्वितम् ॥
नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् ।
गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् ।
सोभ्युपेक्षितवानेवमनयान्मधुसूदनः ॥
त्वं हि तं नारदश्चैव मुनयश्च सनातनम् ।
गोविन्दमनघं देवमभिजानीध्वमच्युतम् ॥
प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः ।
समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः ॥
गान्धार्या वचनं यत्तदृषीणां च परंतप ।
तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः ॥
प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप । अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा ।
इमांस्तु नैच्छत्स्वान्ज्ञातीन्रक्षितुं च सखा तव ॥
ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा ।
शयानान्निहतान्दृष्ट्वा कृष्णो मामब्रवीदिदम् ॥
सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ । आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ।
आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् ॥
स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो ।
आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोहमेव तु ।
यद्ब्रूयात्तत्तथा कार्यमिति बुद्ध्यस्व भारत ॥
स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च ।
प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वद्गेहिकम् ॥
इमां च नगरीं सद्यः प्रतियाते धनंजये ।
प्राकारट्टालकोपेतां समुद्रः प्लावयिष्यति ॥
अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः ।
कालं काङ्क्षे सद्य एव रामेण सहितो वने ॥
एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः ।
हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥
सोहं तौ च महात्मानौ चिन्तयन्रामकेशवौ ।
घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥
न मोक्ष्येन च जीविष्ये दिष्ट्या प्राप्तोसि पाण्डव ।
यदुक्तं पार्थं कृष्णेन तत्सर्वमखिलं कुरु ॥
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि ।
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥ ॥

इति श्रीमन्महाभारते मौसलपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

7-7-11 काशिराजं पौण्ड्रकम् ॥

श्रीः