अध्यायः 008
अर्जुनेन वसुदेवसमाश्वासनपूर्वकं सकलपौरान्प्रति नातिचिरादेव
द्वारकायाः समुद्रेण समाप्लावननिवेदनपूर्वकं सर्वेषामिन्द्रप्रस्थंप्रति
प्रयाणसंनाहसंचोदना ॥ 1 ॥ तथा परेद्युर्योगेन शरीरंत्यक्तवतो वसुदेवस्य
पत्नीभिः सह संस्करणपूर्वकं रामकृष्णशरीरयोर्दाहनम् ॥ 2 ॥ ततो
वज्रार्जुनपुरस्कारेण सकलपौरजने पुरःपुनः प्रयाते समुद्रेण पश्चाद्भागे
पौरजनमुक्ततत्तद्भागस्य स्वजलेन समाक्रमणम् ॥ 3 ॥ अर्जुनेन मध्येमार्गं
चोरापहृतावशिष्टयादवकलत्रादिभिः सह स्वदेशमेत्य युधिष्ठिराज्ञया
वज्रस्येन्द्रप्रस्थराज्येऽभिषेचनम् । तथा सात्यकिसुतादीनां तत्रतत्र
राज्येऽभिषेचनम् ॥ 3 ॥ रुक्मिण्यादिभिः काभिश्चिदग्निप्रवेशनम् । सत्यभामादिभिः
काभिश्चन तपसे वनगमनम् ॥ 4 ॥
वैशम्पायन उवाच ।
एवमुक्तः स बीभत्सुर्मातुलेनि परंतप ।
दुर्मना दीनवदनो वसुदेवमुवाच ह ॥
नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल ।
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥
राजा च भीमसेनश्च सहदेवश्च पाण्डवः ।
नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥
राज्ञः संक्रमणे चापि कामोऽयं नित्यमेव हि ।
तमिमं विद्धि सम्प्राप्तं कालं कालविदांवर ॥
सर्वथा वृष्णिदारांस्तु बालं वृद्धं तथैव च ।
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥
इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः ।
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् ।
प्रविवेशार्जुनः शूरः शोचमानो महाभुजः ॥
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा ।
ब्राह्मणा नागरास्तत्र परिवार्योपतस्थिरे ॥
तान्दीनमनसः सर्वान्विमूढान्गतचेतसः ।
उवाचेदं वचः काले पार्थो दीनतरस्तथा ॥
शक्रप्रस्थमहं नेष्ये पृष्णन्धकजनं स्वयम् ।
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥
सज्जीकुरुत यानानि रत्नानि विविधानि च ।
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥
सप्तमे दिवसे चैव रवौ विमल उद्गते ।
बहिर्वत्स्यामहे सर्वे सज्जीभावत माचिरम् ॥
इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा ।
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥
तां रात्रिमवसत्पार्थः केशवस्य निवेशने ।
महता शोकमोहेन सहसाऽभिपरिप्लुतः ॥
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् ।
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमां ॥
ततः शब्दो महानासीद्वसुदेवनिवेशने ।
दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः ।
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्तकरुणं स्त्रियः ।
तं देवकी च भद्रा च रोहिणी मदिरा तथा ।
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥
ततः शौरिं नृयुक्तेन बहुमूल्येन भारत ।
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥
तमन्वयुस्तत्रतत्रं दुःखसोकसमन्विताः ।
द्वारकावासिनः सर्वे पौरजानपदा हिताः ॥
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः ।
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः ॥
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः ।
तत्रैनमुपसंकल्प्य वितृमेधं प्रचक्रिरे ॥
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः ।
ततोन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः ।
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः ।
सामगानां च निर्घोषो नराणां रुदतामपि ॥
ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः ।
सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः ।
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः ।
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः ।
बभूवातीव कौरव्यः प्राप्तकालं चकार ह ॥
यथाप्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः ।
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥
`ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च ।
स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः ॥'
ततः शरीरे रामस्य वासुदेवस्य चोभयोः ।
अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः ॥
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः ।
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ॥
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ।
स्त्रियस्ता वृष्णिवीराणां रुदन्त्यः शोककर्शिताः ॥
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम् ।
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये ॥
वीरहीना वृद्धबालाः पौरजानपदास्तथा ।
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥
कुञ्जरैश्च गजारोहा ययुः शैलनिर्भस्तथा ।
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥
दश षट् च सहस्राणि वासुदेवावरोधनम् ।
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् ।
उवाह रथिनांश्रेष्ठः पार्थः परपुरंजयः ॥
निर्याते तु जने तस्मिन्सागरो मकरालयः ।
द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा ॥
यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत ।
तत्तत्संप्लावयामास सलिलेन स सागरः ॥
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥
काननेषु च रम्येषु पर्वतेषु नदीषु च ।
निवसन्नानयामास वृष्णिदारान्धनंजयः ॥
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् ।
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥
ततो लोभः समभवद्दस्यूनां निहतेश्वराः ।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥
ततस्ते पापकर्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥
अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम् ।
नयत्यस्मानतिक्रम्य् योधाश्चेमे हतौजसः ॥
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः ।
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥
महता सिंहनादेन त्रासयन्तः पृथग्जनम् ।
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः ।
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥
निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ ।
इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥
तथोक्तास्तेन वीरेणि कदर्तीकृत्य तद्वचः ।
अभिपेतुर्जनं मूढा वार्यमाणाः पुनःपुनः ॥
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् ।
कआरोपयितुमारेभे यत्नादिव कथञ्चन ॥
चकार सज्यं कृच्छ्रेणि सम्भ्रमे तुमुले सति ।
चिन्तयामास शस्त्राणि न च सस्मार तान्यपि ॥
वैकृतं तन्महद्दृष्ट्वा भुजवीर्य तथा युधि ।
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥
वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः ।
न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम् ॥
कलत्रस्य बहुत्वाद्धि सम्पतन्सु ततस्ततः ।
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः ।
समन्ततोवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः ।
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः ॥
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः ।
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥
स शरक्षयमासाद्य दुःखशोकसमाहतः ।
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥
[प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥]
धनंजयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः ।
दुःखसोकसमाविष्टो निःश्वासपरमोऽभवत् ॥
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य च क्षयात् ।
धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च ॥
बभूव विमनाः पार्थो दैवमित्युनुचिन्तयन् ।
न्यवर्तत ततो राजन्नेदमस्तीति चिन्तयन् ॥
ततः शेषं समादाय कलत्रस्य महामतिः ।
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥
युधिष्ठिरस्यानुमते वंशकर्तॄन्कुमारकान् ।
न्यवेशयत कौरव्यस्तत्रतत्र धनंजयः ॥
हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते ।
अश्वपतिं खाण्डवारण्ये राज्ये तत्र न्येवशयत् ।
भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥
तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः ।
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥
यौयुधानिं सरस्वत्याः पुत्रं सात्यकिनः प्रियम् ।
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥
इन्द्रप्रस्थे ददौ राज्यं व्रज्राय परवीरहा ।
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥
रुक्मिणी त्वथ गान्धारी शैब्दा हैमवतीत्यपि ।
देवी जींबवती चैव विविशुर्जातवेदसम् ॥
सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः ।
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥
द्वारकावासिनो ये पुरुषाः पार्थमभ्ययुः ।
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥
स तत्कृत्वा प्राप्तकालं बाष्णेणापिहितोऽर्जुनः ।
कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे ॥ ॥
इति श्रीमन्महाभारते मौसलपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
7-8-32 अन्विष्य दाहयामासेति झ.पाठः ॥ 7-8-44 ब्रुवन्
अब्रुवन् ॥
श्रीः