अध्यायः 069
कुरुवंशकथनम् ॥ 1 ॥ संक्षेपेण ययात्युपाख्यानम् ॥ 2 ॥
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् ।
अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥
इमं तु भूय इच्छामि कुरूणां वंशमादितः ।
कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ ॥
वैशंपायन उवाच ।
धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम् ।
पवित्रं कीर्त्यमानं मे निबोधेदं मनीषिणाम् ॥
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च ।
भरतस्य कुरोः पूरोराजमीढस्य चानघ ॥
यादवानामिमं वंशं कौरवाणां च सर्वशः ।
तथैव भरतानां च पुण्यं स्वस्त्ययनं महत् ॥
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ।
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः ॥
दश प्राचेतसः पुत्राः सन्तः पुण्यजनाः स्मृताः ।
मुखजेनाग्निना यैस्ते पूर्वं दग्धा महौजसः ॥
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः ।
संभूताः पुरुषव्याघ्र स हि लोकपितामहः ॥
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः ।
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥
सहस्रसङ्ख्यानसंभूतान्दक्षपुत्रांश्च नारदः ।
मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥
`नाशार्थं योजयामास दिगन्तज्ञानकर्मसु' ।
ततः पञ्चाशतं कन्या पुत्रिका अभिसन्दधे ।
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥
ददौ दश स धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा ।
मारीचः कश्यपस्त्वस्यामादित्यान्समजीजनत् ॥
इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च ।
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः ॥
`मार्ताण्डस्य यमी चापि सुता राजन्नजायत' ।
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः ॥
धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः ।
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ।
ततोऽभवन्महाराज ब्रह्म क्षत्रेण सङ्गतम् ॥
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदारयन् ।
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च ॥
कारूषमथ शर्यातिं तथा चैवाष्टमीमिलाम् ।
पृष्टध्रं नवमं प्राहुः क्षत्रधर्मपरायणम् ॥
नाभागारिष्टदशमान्मनोः पुत्रान्प्रचक्षते ।
पञ्चाशत्तु मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ ॥
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ।
पुरूरवास्ततो विद्वानिलायां समपद्यत ॥
सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् ।
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥
अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः ।
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः ॥
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ।
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह ॥
अनुदर्शं ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ।
ततो महर्षिभिः क्रुद्धैः सद्यः शप्तो व्यनश्यत ॥
लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः ।
स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट् ॥
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ।
षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः ॥
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ।
नहुषं वृद्धशर्माणं रजिं गयमनेनसम् ॥
स्वर्भानवी सुतानेतानायोः पुत्रान्प्रचक्षते ।
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः ॥
राज्यं शशास सुमहद्धर्मेण पृथिवीपते ।
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् ॥
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ।
स हत्वा दस्युसंघातानृषीन्करमदापयत् ॥
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ।
कारयामास चेन्द्रत्वमभिभूय दिवौकसः ॥
तेजसा तपसा चैव विक्रमेणौजसा तथा ।
`विश्लिष्टो नहुषः शप्तः सद्यो ह्यजगरोऽभवत्' ।
यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् ॥
नहुषो जनयामास षट् सुतान्प्रियवादिनः ।
यतिस्तु योगमास्थाय ब्रह्मीभूतोऽभवन्मुनिः ॥
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः ।
स पालयामास महीमीजे च बहुभिर्मखैः ॥
अतिभक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा ।
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः ।
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥
देवयान्यामजायेतां यदुस्तुर्वसुरेव च ।
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां च जज्ञिरे ॥
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् ।
जरामार्च्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥
जराऽभिभूतः पुत्रान्स राजा वचनमब्रवीत् ।
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥
यौवनेन चरन्कामान्युवा युवतिभिः सह ।
बिहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥
तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत् ।
किं कार्यं भवतः कार्यमस्माकं यौवनेन ते ॥
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः ।
कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः ॥
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः ।
अहं तन्वाऽभिनवया युवा काममवाप्नुयाम् ॥
वैशंपायन उवाच ।
ते न तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् ।
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥
राजंश्चराभिनवया तन्वा यौवनगोचरः ।
अहं जरां समादाय राज्ये स्थास्यामि तेज्ञया ॥
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् ।
संचारयामास जरां तदा पुत्रे महात्मनि ॥
पौरवेणाथ वयसा राजा यौवनमास्थितः ।
यायातेनापि वयसा राज्यं पूरुरकारयत् ॥
ततो वर्षसहस्राणि ययातिरपराजितः ।
स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः ॥
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च ।
विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने ॥
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः ।
अवेत्य मनसा राजन्निमां गाथां तदा जगौ ॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥
इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप ।
समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात् ॥
`ततो वर्षसहस्रान्ते ययातिरपराजितः ।'
दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च ।
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः ।
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥
वैशंपायन उवाच ।
ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च ।
ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः ॥
कालेन महता पश्चात्कालधर्ममुपेयिवान् ।
कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥
1-69-7 प्राचेतसः प्राचे देशाय यज्ञक्रियया अतति सततं
गच्छतीति प्राचेताः तस्य प्राचेतसः प्राचीनबर्हिषः । पुण्यजनाः
पुण्योत्पादकास्तपः शीला इत्यर्थः । यैस्ते महौजसो महाप्रभावा वृक्षौषधयो
दग्धाः ॥ 1-69-9 वीरिण्या वीरणपुत्र्या ॥ 1-69-10 मोक्षं मोक्षहेतुं ।
सांख्यज्ञानं विवेकजं विज्ञानम् ॥ 1-69-15 यमी यमुना ॥ 1-69-21
अन्योन्यभेदात्परस्परवैरात् ॥ 1-69-22 मातैव लब्धपुंभावा राज्य
दानात्पिताप्यभूत् । मुख्यः पिता तु बुध एव ॥ 1-69-25 अनुदश दर्शो दर्शनं स
पश्चाद्यस्य स श्रुतियुक्त्युपदेशोऽनुदर्शस्तं तत स्तदुपदेशमित्यर्थः ॥ 1-69-26
विराड्विराजमानः ॥ 1-69-27 त्रिधा गार्हपत्यदक्षिणाग्न्याहवनीयभेदेन । आयुःशब्दः
उक रान्तः सान्तश्च ॥ 1-69-42 कार्यं प्रयोजनम् । कार्यं कर्तव्यम् ॥ 1-69-44
व्रतनिर्बन्धाच्छुक्रशापाच्च कामरूपः पुरुषार्थो हीनः ॥ 1-69-47 तेज्ञया तव
आज्ञया । पूर्वरूपमाकारलोपो वार्षः ॥ 1-69-52 कामामां कामभोगेन । अवेत्य कामसेवया
तृप्त्यभावं ज्ञात्वा ॥ 1-69-53 हविषा समिदाज्यादिना ॥ 1-69-54 एकस्य कामिनः
सर्वं नालमपर्याप्तम् । शमं कामशान्तिम् ॥ 1-69-59 दायादवान् पुत्रवान् ॥ 1-69-61 कारयित्वा कृत्वा ॥ एकोनसप्ततितमोऽध्यायः ॥ 69 ॥