अध्यायः 105
गङ्गया जातमात्रस्य पुत्रसप्तकस्य हननम् ॥ 1 ॥ अष्टमपुत्रहननोद्युक्तां स्वभार्यां प्रति शांन्तनुप्रश्नाः ॥ 2 ॥ पूर्ववृत्तकथनपूर्वकं गङ्गायाः प्रतिवचनम् ॥ 3 ॥
वैशंपायन उवाच ।
संवत्सरानृतून्मासान्बुबुधे न बहून्गतान् ।
रममाणस्तया सार्धं यथाकामं नरेश्वरः ॥
`दिविष्ठान्मानुषांश्चैव भोगान्भुङ्क्ते स वै नृपः ।'
आसाद्य शान्तनुः श्रीमान्मुमुदे योषितां वराम् ॥
ऋतुकाले तु सा देवी दिव्यं गर्भमधारयत् ।
अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान् ॥
जातं जातं च सा पुत्रं क्षिपत्यम्यसि भारत ।
सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम् ॥
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ।
तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा ॥
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः ।
`अमीमांस्या कर्मयोनिरागमश्चेति शान्तनुः ॥
स्मरन्पितृवचश्चैव नापृच्छत्पुत्रकिल्बिषम् ।
जाताञ्जातांश्च वै हन्ति सा स्त्री सप्त वरान्सुतान् ॥
शान्तनुर्धर्मभङ्गाच्च नापृच्छत्तां कथंचन ।
अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः ॥'
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव ।
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥
`आलभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः ।
अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः ॥'
मावधीः कस्य काऽसीति किं हिनत्सि सुतानिति ।
पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम् ॥
गङ्गोवाच ।
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर ।
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता ।
देवकार्यार्थसिद्ध्यर्थमुषिताऽहं त्वया सह ॥
इमेऽष्टौ वसवो देवा महाभागा महौजसः ।
वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते ।
मद्विधा मानुषी धात्री लोके नास्तीह काचन ॥
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ।
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः ॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया ।
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः ।
स्वस्ति तेस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥
`अयं तव सुतस्तेषां वीर्येण कुलनन्दनः ।
संभूतोतिजनं कर्म करिष्यति न संशयः ॥'
एष पर्यायवासो मे वसूनां सन्निधौ कृतः ।
मत्प्रसूतिं विजानीहि गङ्गादत्तमिमं सुतम् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥
1-105-11 तेत्वया ॥ 1-105-15 धात्री गर्भधारिणी ॥ 1-105-17 संश्रुतोऽङ्गीकृतः ॥ 1-105-18 आपवस्य वसिष्ठस्य ॥ पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥