अध्यायः 133
अश्विभ्यां माद्र्यां नकुलसहदेवयोरुत्पत्तिः ॥ 1 ॥
युधिष्ठिरादीनां नामकरणम् ॥ 2 ॥ वसुदेवप्रेषितेन पुरोहितेन
पाण्डवानामुपनयनादिसंस्कारकरणम् ॥ 3 ॥ पाण्डवानां शुक्राद्धनुर्वेदशिक्षणम् ॥ 4 ॥
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च ।
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप ।
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा ।
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता ।
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि ।
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥
संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति ।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥
पाण्डुरुवाच ।
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते ।
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥
तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम् ।
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते ॥
वैशंपायन उवाच ।
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् ।
`अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि ।'
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥
मम चापिण्डनाशाय पूर्वेषां च महात्मनाम् ।
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् ।
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना ॥
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् ।
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः ।
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥
सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते ।
अपत्यसंविधानेन परां कीर्तिमवाप्नुहि ॥
`कुन्त्युवाच ।
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा ।
तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन ॥'
वैशंपायन उवाच ।
एवमुक्ताऽब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम् ।
तस्मात्ते भविताऽपत्यमनुरूपमसंशयम् ॥
`ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा ।
ततो राजसुता स्नाता शयने संविवेश ह ॥'
ततो माद्री विचार्यैका जगाम मनसाऽश्विनौ ।
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ।
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि ॥
तथैव तावपि यमौ वागुवाचाशरीरिणी ।
`धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा ॥
सत्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति ।
मासते तेजसाऽत्यर्थं रूपद्रविणसंपदा ॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः ।
भक्त्या च कर्मणा चैव तथाऽऽशीर्भिर्विशांपते ॥
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम् ।
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् ।
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ।
पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव ॥
महासत्त्वा महावीर्या महाबलपराक्रमाः ।
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः ॥
मुदं परमिकां लेभे ननन्द च नराधिपः ।
ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम् ॥
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम् ।
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् ॥
तमुवाच पृथा राजन् रहस्युक्ता तदा सती ।
उक्ता सक्वद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ॥
बिभेम्यस्याः परिभवात्कुस्त्रीणां गतिरिदृशी ।
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् ॥
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ।
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः ॥
संभूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः ।
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः ॥
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ।
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ ।
विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥
`जातमात्रानुपादाय शतशृङ्गनिवासिनः ।
पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान् ॥
वैशंपायन उवाच ।
ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः ॥
पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान् ।
तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः ॥
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः ।
योगध्यानपरो राजा बभूवेति च वादकाः ॥
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः ।
पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम संकथाः ॥
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः ।
पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः ॥
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन् ।
न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः ॥
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् ।
वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम् ॥
युक्तानि च कुमाराणां पारबर्हाण्यनेकशः ।
कुन्तीं माद्रीं च संदिश्य दासीदासपरिच्छदम् ॥
गावो हिरण्यं रौप्यं च प्रेषयामास भारत ।
तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः ॥
तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् ।
पूजयामास विधिवत्पाण्डुः परपुरञ्जयः ॥
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् ।
ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत् ॥
गर्भाधानादिकृत्यानि चौलोपनयनानि च ।
काश्यपः कृतवान्सर्वमुपाकर्म च भारत ॥
चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः ।
वैदिकाध्ययने सर्वे समपद्यन्त पारगाः ॥
शर्यातेः प्रथमः पुत्रः शुक्रो नाम परन्तपः ।
येन सागरपर्यन्ता धुषा निर्जिता मही ॥
अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः ।
आराध्य देवताः सर्वाः पितॄनपि महामतिः ॥
शतशृह्गे तपस्तेपे शाकमूलफलाशनः ।
तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः ॥
तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः ।
गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः ॥
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ ।
धनुर्वेदे गतः पारं सव्यसाची परन्तपः ॥
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो ।
अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान् ॥
धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम् ।
विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान् ॥
ददौ पार्थाय संहृष्टो महोरगसमप्रभान् ।
अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः ॥
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः ॥
एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः ।
अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च ॥'
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः ।
सर्वे ववृधिरेऽल्पेन कालेनाप्स्विव पङ्कजाः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥
1-133-2 विगुणे प्रजोत्पादनानधिकृते । अवरत्वे कनिष्ठात्वे ।
वरार्हायाः कृन्त्या अपेक्षया ॥ 1-133-6 संरम्भोऽभिमानः ॥ 1-133-7 इष्टमनिष्टं
वा वक्ष्यसीति संदेहेन ॥ 1-133-8 प्रतिपत्स्यते अङ्गीकरिष्यति ॥ 1-133-9
सतानमविच्छेदम् ॥ 1-133-10 मम पूर्वेषां चापिण्डनाशाय पिण्डविनाशाभावाय । बहुषु
पुत्रेषु कस्यचिदपि पुत्रस्य संततेरविच्छेदसंभवादित्यर्थः ॥ 1-133-11 यशस इति
कृतकृत्या अपि यशोर्थं देवगुर्वाद्याराधनं कुर्वन्तीत्यर्थः ॥ 1-133-20
अत्यश्विनौ अश्विभ्यामधिकौ ॥ 1-133-24 अनुसंवत्सरं संवत्सरमनु पश्चाज्जाता अपि
देवताभावात्सर्वे पञ्चसंवत्सरा इवादृश्यन्तेत्यर्थः ॥
त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥