अध्यायः 184
प्रस्थानसमयागते व्यासेन पाण्डवान्प्रति द्रौपदीवृत्तान्तकथनपूर्वकं भविष्यद्द्रौपदीलाभकथनम् ॥ 1 ॥ व्यासस्य प्रतिनिवर्तनम् ॥ 2 ॥
वैशंपायन उवाच ।
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु ।
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः ।
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् ।
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः ।
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते ॥
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः ।
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥
आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः ।
तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥
तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम् ।
वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः ॥
अथेश्वरमुवाचेदमात्मनः सा वचो हितम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥
तामथ प्रत्युवाचेदमीशानो वदतां वरः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः ॥
एवमुक्ता ततः कन्या देवं वरदमब्रवीत् ।
एकमिच्छाम्यहं देव त्वत्प्रसादात्पतिं प्रभो ॥
पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ।
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः ॥
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ।
व्यास उवाच ।
द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी ॥
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ।
पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः ।
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥
एवमुक्त्वा महाभागः पाण्डवान्स पितामहः ।
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥
1-184-6 विलग्नमध्या विलग्नं समदेशे शयने भूतलास्पृष्टं मध्यं शरीरमध्यभागो यस्याः सा कृशमध्येति यावत् ॥ चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥