अध्यायः 199
अर्जुनेन अनुरूपपुरोहितसंपादनं पृष्टेन गन्धर्वेण धौम्यवरणाक्ष्यनुज्ञा ॥ 1 ॥ गन्धर्वाय आग्नेयास्त्रदानम् ॥ 2 ॥ उत्को चतीर्थे पाण्डवैः धौम्यस्य पौरोहित्ये वरणम् ॥ 3 ॥
अर्जुन उवाच ।
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् ।
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥
गन्धर्व उवाच ।
यवीयान्देवलस्यैष वने भ्राता तपस्यति ।
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यीच्छथ ॥
वैशंपायन उवाच ।
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि ।
गन्धर्वाय `स च प्रीतो वचनं चेदमब्रवीत् ॥
मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे ।
उपकारकृतं मित्रं प्रतिकारेण योजये ॥
गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम ।
एवमुक्तोऽर्जुनः' प्रीतो वचनं चेदमब्रवीत् ॥
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम ।
कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत् ॥
तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह ।
रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे ॥
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते ।
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ॥
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः ।
वन्येन फलमूलेन पौरोहित्येन चैव ह ॥
ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः ।
ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे ॥
पुरोहितेन तेनाथ गुरुणा संगतास्तदा ।
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ॥
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः ।
वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः ॥
तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया ।
मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः ॥
स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि ।
तेन धर्मविदा पार्था योज्या सर्वविदा वृताः ॥
मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः ।
बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे ॥
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः ।
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि एकोनद्विशततमोऽध्यायः ॥ 199 ॥ ॥ समाप्तं चैत्ररथपर्व ॥