अध्यायः 236
सौभद्रतीर्थे स्नानार्थमवतीर्णस्यार्जुनस्य ग्राहेण ग्रहणम् ॥ 1 ॥ जलादुद्धरणेन ग्राहरूपं परित्यज्य नारीरूपं प्राप्तया वर्गानाम्नया स्वप्रभृतीनां ब्राह्मणेन शापदानकथनम् ॥ 2 ॥
वैशंपायन उवाच ।
ततः समुद्रे तीर्थानि दक्षिमे भरतर्षभः ।
अभ्यगच्छत्सुपुण्यानि सोभितानि तपस्विभिः ॥
वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः ।
अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः ॥
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् ।
कारन्धमं प्रसन्नं च महमेधफलं च तत् ॥
भारद्वाजस्य तीर्थं तु पापप्रशमनं महत् ।
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः ॥
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः ।
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥
तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः ।
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥
तापसा ऊचुः ।
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् ।
तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥
वैशंपायन उवाच ।
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः ।
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् ।
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः ॥
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् ।
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥
उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना ।
बभूव नारी कल्याणी सर्वाभरणभूषइता ॥
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ।
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ॥
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ।
का वै त्वमसि कल्याणिकुतो वाऽसि जलेचरी ॥
किमर्थं च महत्पापमिदं कृतवती पुरा ।
वर्गोवाच ।
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी ॥
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ।
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः ॥
ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम् ।
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् ॥
रूपवन्तमधीयानमेकमेकान्तचारिणम् ।
तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम् ॥
आदित्य इव तं देशं इत्वं सर्व व्यकाशयत् ।
तस्य दृष्ट्वा तपस्तादृग्रूपचाद्भुतमुत्तमम् ॥
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ।
अहं च सौरभेयी च समीची बुद्बुदा लता ॥
यौगपद्येन तं विप्रमभ्यगच्छाम भारत ।
गायन्त्योऽथहसन्त्यश्च लोभयित्वा च तं द्विजं ॥
स च नास्मासु कृतवान्मनो वीर कथंचन ।
नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ ।
ग्राहभूता जले यूयं चरिष्यथ शतं समाः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥
1-236-5 धर्मबुद्धिभिर्दुर्मरणज दोषं तीर्थेनाप्यविनाश्यं पश्यद्भिः ॥ 1-236-15 चर्चोवाच इति घ पाठः ॥ षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥