कारिकार्थ–


प्रत्यक्षाभम् इत्युपलक्षणम्, तेन परोक्षाभमपि य5046देकान्तेन वादिनां लोकानां
वा प्रसिद्धं तत्कथञ्चित् स्याद् भवेत् प्रमाणम् नैकान्तेन तदा
भासम् इत्यभिप्रायः । किं तद् ? इत्यत्राह–तैमिरादिकमिति ।
तिमिरादागतं तैमिरम् आदिर्यस्य आ5047शुभ्रमणादिज्ञानस्य तत्तथोक्तम् । कुत एतद् ? इत्याह–
यद्यथा इत्यादि । यतो य5048द्विज्ञानं येनैव प्रकारेण अविसंवादि त5049द् विज्ञानं तेनैव
प्रकारेण प्रमाणमभिप्रेतम् । तथा च कल्पनापोढमभ्रान्तम्5050 न्यायबि॰ १ । ४ इत्यत्र,
इन्द्रि5051यार्थसन्निकर्षोत्पन्नमव्यभिचारि न्यायसू॰ १ । ४ इत्यत्र, 5052त्सम्प्रयोगे
जैमिनिसू॰ १ । १ । ४
इत्यादौ च यदभ्रान्ता5053दिग्रहणं भ्रान्तनिवृत्त्यर्थं त5054द् यदि सर्वथा अप्रत्य
क्षत्वात् तेना5055पसार्यते तदा प्रमाणविरोधः । अथ कथञ्चित्5056; तदा ए5057कान्तहानिरित्युक्तं भवति ।


  1. यदेकान्तवादिनां श्र॰

  2. तिमिरमक्ष्णोर्विप्लव, इन्द्रियगतमिद विभ्रमकारणम् । आशुभ्रमणमलातादे, मन्दं हि
    भ्रम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते, तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम्, एतच्च विषयगत
    विभ्रमकारणम् । सक्षोभो वातपित्तश्लेष्मणाम्, वातादिषु हि क्षोभ गतेषु ज्वलितस्तम्भादिभ्रान्ति
    रुत्पद्यते, एतच्चाध्यात्मगत विभ्रमकारणम् । सवैरेव च विभ्रमकारणै इन्द्रियविषयबाह्याध्यात्मिका
    श्रयगतैरिन्द्रियमेव विकर्त्तव्यम् । अविकृत इन्द्रिय इन्द्रियभ्रान्त्ययोगात् । आदिग्रहणेन काचकामलादय
    इन्द्रियस्था गृह्यन्ते । आशुनयनानयनादयो विषयस्था । आशुनयनानयने हि कार्यमाणेऽलातादावग्नि
    वर्णदण्डाभासा भ्रान्तिर्भवति । हस्तियानादयो बाह्याश्रयस्था गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था
    विभ्रमहेतवो गृह्यन्ते ।
    न्यायबि॰ टी॰ पृ १६–१७ ।

  3. यदि ज्ञानं आ॰

  4. –तज्ञानं आ॰

  5. प्रत्यक्षम् इति शेष ।

  6. इन्द्रि
    यार्थसन्निकर्षोत्पन्न ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मक प्रत्यक्षम् ।
    न्यायसू॰ १ । १ । ४ ।

  7. सत्सम्प्रयोगे पुरुषस्येन्द्रियाणा बुद्धिजन्म तत्प्रत्यक्षमनिमित्त विद्यमानोपलम्भनत्वात् ।जैमिनिसू॰
    १ । १ । ४ ।

  8. आदिपदेन अव्यभिचारिसत्सम्प्रयोगजयो परिग्रहः ।

  9. भ्रान्तम् –आ॰ टि॰

  10. अभ्रान्तादिग्रहणेन ।

  11. अप्रत्यक्षत्वात्तेनापसार्यते इति सम्बन्ध ।

  12. एकांशत हानि श्र॰