II.581

असाधारण्यनिरासकत्वपक्षः, तन्निरासश्च


ये तु यथाश्रुतसाध्यनिर्देशात्मकप्रतिज्ञापुनर्वचनसमर्थनलोभा
द्यापि प्रतिज्ञायाः सिद्धिमबुध्यमानाः असाधारणाशङ्काव्यवच्छेदाय
निगमनवचनमिच्छन्ति—ते न सम्यगभ्ययुः—असाधारणाशङ्कायाः दृष्टा
न्तवचनेनैव निरस्तत्वात् । 1581विशेषस्य हि हेतुत्वसंभावनायामसाधा
रणाशङ्का स्यात् । यत् कृतकं, तदनित्यं इति तु दृष्टान्तवचसा
सामान्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाङ्क्येत ?


यदि पुनरुपनयवचनेन साध्ये धर्मिणि हेतोरुपसंहारात् असाथारण
त्वमाशङ्क्येत, तन्पुनर्दृष्टान्तधर्मिवृत्तित्वमस्य दर्शयितव्यम् । तस्मिन्
दर्शिते पुनः तद्वृत्तित्वात् धर्मिण्यसिद्धत्वमाशङ्कनीयम् । पुनस्तद्व्या
वृत्तये धर्मिणि हेतोरुपसंहारो विधेय इत्येवमसाधारणासिद्धायशङ्काभ्यां
गच्छेदिति न कदाचित् साध्यप्रतीतिर्भवेदिति नासाधारणशङ्काव्युदासाय
तत्प्रयोगः, किन्तु पूर्वरीत्यैवेति ॥


तस्माद्विवक्षितेऽर्थे यथोदितक्रमनिवेशिनोऽवयवान् ।

एकत्र संघटयितुं निगमनवचनं प्रयोक्तव्यम् ॥

परार्थानुमानपरमफलम्


त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पंचावयवाः यथासंभवमागमादि
प्रमाणानुगृहीताः परस्परानुषक्ताश्च स्वार्थं साध्यन्ति । तत्र मुख्यया
वृत्त्या प्रतिपाद्येनानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते । प्रपंचाय तु प्रमाणा
न्तरानुग्रह एषामुच्यते ॥


  1. विशेषस्य—पक्षमात्रवृत्तेः ॥