I.1

भागः १

प्रथममाह्निकम्—प्रमाणसामान्यपरीक्षणम्


मङ्गलाचरणम्


नमः शाश्वतिकानन्दज्ञानैश्वर्यमयात्मने ।

सङ्कल्पसफलब्रह्मस्तम्बारम्भाय शम्भवे ॥ १ ॥

विश्वं सृजन् करुणया परिपालयन् यः

विश्वक्रियासु यमयत्यखिलान्तरात्मा ।

विद्यास्वयंवरपतिर्विदधातु सोऽयं

विश्वस्य मङ्गलममेयमहाविभूतिः ॥

अनुगृह्णन्तु सद्भावपवित्रितजगत्त्रयाः ।

आघ्राय मञ्जुलं न्यायमञ्जर्याः सौरभं बुधाः ॥

इह खल्वनन्यसाधारणशेमुषीविभवसमाकृष्टसकलसुधीजनहृदयः श्रीमान्
जयन्तभट्टः प्रारीप्सितप्रबन्धस्य निर्विघ्नपरिसमाप्तिप्रचयगमनाद्यर्थं स्वेष्टदेवता
नमस्काररूपं मङ्गलमारचयति—नम इत्यादि । नात्र विकारार्थे मयट्,
ब्रह्मणो निर्विकारत्वात्; किन्तु प्राचुर्यार्थे । ननु तर्हि ब्रह्मण्यज्ञानादयोऽपि
प्रसज्येरन् । सुखप्रचुरजीवनतात्पर्येण प्रयुक्ते हि सुखमयं जीवनम् इत्यादौ