I.571

तेन यदुच्यते—श्लो. वा. १-१-५, अनु. २१

जातिमत्त्वैन्द्रियत्वादि वस्तुसन्मात्रबन्धनम् ।

शब्दानित्यत्वसिध्यर्थं को वदेत् ? यो न तार्किकः ॥

इति—तदविदिततार्किकपरिस्पन्दस्य व्याहृतम् ॥


मीमांसकोक्तशब्दनित्यत्वहेतूनामेवाप्रयोजकत्वम्


इह त्वप्रयोजका हेतवो भवन्ति—


ह्यस्तनोच्चारितस्तस्मात् गोशब्दोऽद्यापि वर्तते ।

गोशब्दज्ञानगम्यत्वात् यथोक्तोऽद्यैष गौरिति ॥ ३२४ ॥

विज्ञानग्राह्यता नाम वस्तुस्वाभाव्यबन्धना ।

नित्यत्वे कृतकत्वे वा न खल्वेषा प्रयोजिका ॥ ३२५ ॥

अप्रयोजकता चैवंप्रायाणां चैवमुच्यते ।

स्वयं चैते प्रयुज्यन्ते हेतुत्वेनेति किं न्विदम् ॥ ३२६ ॥

शब्दानित्यत्वविचारनिगमनम्


एवं नित्यत्वे दुर्बलो युक्तिमार्गः

तस्मान्मन्तव्यः कार्य एवेति शब्दः ।

वाचोयुक्तित्वे वैदिको योऽनुवादः

न्याये प्रत्युक्ते किंफलस्तत्प्रयोगः ॥ ३२७ ॥

कृतकत्वसावयवत्वादिप्रयुक्तेऽनित्यत्वे वक्तव्ये, वस्तुसत्तामात्रनिबन्धनं
सर्ववस्तुसाधारणं जातिमत्त्वैन्द्रियकत्वादि तार्किकादन्यः को वदेत्—इत्युपहासः ।
अविदितेत्यादि । परिस्पन्दः—व्यवहार इति यावत् । न हि तार्किकाः
जातिमत्त्वं, ऐन्द्रियकत्वं वा सर्ववस्तुसाधारणं वदन्ति ॥


वस्तुस्वाभाव्यबन्धनेति । ज्ञेयत्वं हि केवलान्वयि; न तु जाति
मत्वादि ॥