I.572

शब्दस्यास्थिरत्वोपसंहारः


क्षणभङ्गिभावस्याभावादपि शब्दस्य क्षणिकतां न वक्तुमलम् ।
स्थूलविनाशभावादिति यदुक्तं पु. 540तदप्यनृतम्


सृक्ष्मविनाशापेक्षी नाशः स्थूलस्थिरस्य कुम्भादेः ।

3 प्रकृतितरलस्य नाशः शब्दस्य स एव हि स्थूलः ॥ ३२८ ॥

सत्त्वाद्यदि क्षणिकतां कथयेत्, पुरा वा

शब्दस्तदैष कथमक्षणिकोऽभिधेयः ।

युक्त्यन्तराद्यदि तदेव हि तर्हि चिन्त्यम्

4 किं प्रौढिवादबहुमानपरिग्रहेण ॥ ३२९ ॥

अलमतिविततोक्त्या त्यज्यतां नित्यवादः

कृतक इति नयज्ञैः गृह्यतामेष शब्दः ।

सति च कृतकभावे तस्य कर्ता पुराणः

कविरविरलशक्तिः युक्त एवेन्दुमौलिः ॥ ३३० ॥

इति श्रीजयन्तभट्टकृतौ न्यायमञ्जर्यां तृतीयमाह्निकम्



  1. प्रकृतीति । निरवयवस्य शब्दस्य नाशः न ह्यवयवनाशाधीन इत्यर्थः ॥

  2. स्थूलविनाशभावादित्येतत् अंगीकृत्यवाद इति चेत्, तत्राह— किमिति ॥

    इति न्यायसौरभे तृतीयमाह्निकम्