I.574

नापि कालात्ययापदिष्टः; प्रत्यक्षेण, आगमेन वा वेदे वक्त्रभाव
निश्चयानुत्पादात् ॥


नापि सत्प्रतिपक्षः; 8प्रकरणचिन्ताहेतोः स्थाणुपुरुषविशेषानु
पलब्धेरिव हेतुत्वेनानभिधानात् ॥


नापि परमाण्वनित्यतायामिव मूर्तत्वं अप्रयोजकमिदं साध
नम्; रचनाव्यापाराणां कर्तृव्यापारसाध्यत्वावधारणात् । 9यथा
धूमस्य ज्वलनाधीन आत्मलाभः; ज्ञप्तिस्तु धूमादग्नेः—तथा कर्त्रधीना
रचनानामभिनिर्वृत्तिः, प्रतीतिस्तु ताभ्यः कर्तुरिति । तस्मात्
प्रयोजक एवायं हेतुः ॥


वेदपौरुषेयत्वानुमानस्य ससत्प्रतिपक्षत्वाशङ्कानिरासः


ननु ! सत्प्रतिपक्षत्वे विवदन्ते । तथा च मीमांसकैः प्रति
हेतुरिह गीयते श्लो. वा. १-१-७-३६६

10वेदस्याध्ययनं सर्वं गुर्वध्ययन पूर्वकम् ।

वेदाध्ययनवाच्यत्वात् अधुनाऽध्ययनं यथा

इति—नैतद्युक्तम्—एवंप्रायाणां प्रयोगाणामप्रयोजकत्वात् । न हि
11 तच्छब्दवाच्यत्वकृतं अनादित्वमुपपद्यते ॥


  1. प्रकरणचिन्तेति । यस्मात्प्रकरणचिन्ता स प्रकरणसमः न्या. सू. 1-2-7 सौत्रलक्षणानुरोधेन एवमुक्तिः । प्रकरणं—पक्षप्रतिपक्षौ, तावधिकृत्य चिन्तेत्यर्थः ॥

  2. ननु कर्तृपूर्वकत्वे रचनात्वं हेतुरिति कथम् ? रचनायां हि कर्ता हेतुः, न तु कर्तरि रचना हेतुरित्यत्राह—यथेति । तथा च कारकहेतोः, कार्यं ज्ञापकहेतुर्भवतीत्यर्थः ॥

  3. वेदस्येत्यादि । नन्वेतावताऽपि कथं वेदनित्यत्वसिद्धिरिति चेत्, एवमेव सर्वेषामध्ययनानां तत्तदध्ययनपूर्वकत्वे सिद्धे महाप्रलयानङ्गीकारात् संसारस्यानादित्वसिध्या वेदानादित्वसिद्धिः ॥

  4. तच्छब्दः—वेदाध्ययनशब्दः ॥