I.575

अनैकान्तिकश्चायं हेतुः, भारतेऽप्येवमभिधातुं शक्यत्वात् ।
भारताध्ययनं सर्वं गुर्वध्ययनपूर्वकम्, भारताध्ययनवाच्यत्वात्,
इदानींतनभारताध्ययनवत् इति ॥


वेदस्यापौरुषेयत्वे भारतादेरप्यपौरुषेयत्वप्रसङ्गः


ननु ! भारते कर्तृस्मृतिरविगीता विद्यते; यद्येवं वेदेऽपि
प्रजापतिः कर्ता 12 स्मर्यत एव ॥


13 अथ वैदिकमन्त्रार्थवादमूलेयं प्रजापतिकर्तृत्वस्मृतिः;
प्रजापतिना चत्वारो वेदा असृज्यन्त, चत्वारो वर्णाः चत्वार
आश्रमाः
इति तत्र पाठादिति—उच्यते—हन्त तर्हि भारतेऽपि
तत्रत्यवचनमूलैव पाराशर्यस्मृतिरिति शक्यते वक्तुम् ॥


पौरुषेयत्वापौरुषेयत्वयोः वेदभारतयोस्तौल्यम्


यथा प्रजापतिर्वेदे तत्र तत्र प्रशस्यते ।

भारतेऽपि तथा व्यासः तत्र तत्र प्रशस्यते ॥ २ ॥

अथ प्रणेता वेदस्य न दृष्टः केनचित् क्वचित् ।

द्वैपायनोऽपि किं दृष्टः भवत्पितृपितामहैः ॥ ३ ॥

सर्वेषामविगीता चेत् स्मृतिः सत्यवतीसुते ।

प्रजापतिरपि स्रष्टा लोके सर्वत्र गीयते ॥ ४ ॥

  1. स्मर्यते । तथा च प्रदर्शयिष्यत्युत्तरत्र ॥

  2. अथेति । मन्त्राणामर्थवादानां च न स्वप्रतिपाद्यार्थे प्रामाण्यम् । अपि च मन्वादिस्मृतयो हि वेदानुसारादेव प्रमाणानि । वेदस्तु स्वविषये स्वयं कथं प्रमाणं भवेत् । न हि विप्रतिपत्तिस्थले विप्रतिपन्नवाक्यमेव प्रमाणीकर्तुं शक्यमिति भावः ॥

    तत्रत्येति । भारतस्थेत्यर्थः ॥