I.702 तथाविधात्मरूपाधिगतये 453सत्यासत्यस्वभावनामरूपप्रपञ्चविला
पनद्वारेण तत्रोपयुज्यत इति सिद्धसाध्यम् ॥


सर्वेषामपि कर्मणां आत्मज्ञानाङ्गत्वम्


तिष्ठतु वा यमनियमप्राणायामप्रत्याहारधारणाद्यात्मज्ञानो
पयोगीतिकर्तव्यताविधिः ! अन्येऽपि ज्योतिष्टोमादिविधयः
तन्निष्ठा एवेति वेदान्तवादिनः 454455 साध्यस्य सर्वस्य क्षयित्वे
नानुपादेयत्वात्, सिद्धस्य ब्रह्मण एव अनाद्यविद्यातीतस्यानपायिनः
पुरुषार्थत्वात्, स्तोकस्तोकप्रपञ्चविलापनद्वारेण उत्तमाधिकार
योग्यत्वापादनात् ब्रह्मप्राप्तयौपयिका एव सर्वविधयः । तथा च
मनुः—म. स्मृ. २-२५


स्वाध्यायेन ब्रतैर्होमैः त्रैविद्येनेज्यया सुतैः ।

महायज्ञैश्च यज्ञैश्च 456ब्राह्मीयं क्रियते तनुः इति ॥

सर्वविधीनामपि ब्रह्मप्राप्तिपर्यवसायित्वम्


तदेवं सिद्ध एवार्थे वेदस्यादुः प्रमाणताम् ।

सर्वा हि विधयो ब्रह्मप्राप्तिपर्यवसायिनः ॥ १४४ ॥

आस्तां वाऽयं विषयः बहु वक्तव्यः, प्रमाणता तु गिराम् ।

सिद्धे कार्ये चार्थे तुल्यैव प्रमितितुल्यत्वात् ॥ १४५ ॥

  1. सत्यासत्येति—जगतः स्वरूपतः सत्यत्वं, विकारतः असत्यत्वं च वेदान्तिभिः समर्थितम् ॥

  2. वेदान्तवादिन इति । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा वृ. ४-४-२२ इत्यादिना निष्काममनुष्ठितकर्मणां ब्रह्मज्ञानोपयोगित्वमुक्तम् ॥

  3. साध्यस्य—प्रयत्नसाध्यस्य ॥

  4. ब्राह्मी—ब्रह्मसम्बन्धिनी ॥