I.703

वेदविचारोपसंहारः


457 किं तन्त्रता भवति कस्य तयोरितीयं

चर्चा चिराय न महत्युपयुज्यते नः ।

संतोषवृत्तिमवलम्ब्य वयं हि वेद-

प्रामाण्यमात्रकथताय गृहीतयत्नाः ॥ १४६ ॥

प्रामाण्यसाधनविधाबुपयोगि यच्च

वक्तव्यमत्र तदवादि यथोपयोगम् ।

वक्तव्यमिष्टमपि किञ्चिदिहाभिदध्मः

तच्छ्रूयतां यदि न धीः परिखिद्यते वः ॥ १४७ ॥

इति श्रामज्जयन्तभट्टकृतौ न्यायमञ्जर्था चतुर्थमाह्निकम्

  1. किं तन्त्रतेति । भूतं भव्याय वा, भव्यं भूताय वेति इयं चर्चा नातीवप्रयोजना, व्यवहारस्यैतदनधीनत्वात् । तयोः—सिद्धसाध्ययोर्मध्ये कस्य किन्तन्त्रतेति चिराय चर्चा महति फले नोपयुज्यत इत्यन्वयः ॥

    इति पण्डितरत्नेन विदुषा वरदार्येण विरचिते न्यायसौरमे चतुर्थमाङ्किकम्