I.2

नमामि यामिनीनाथलेखाऽलङ्कृतकुन्तलाम्

भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ २ ॥

सुरासुरशिरोरत्नमरीचिखचिताङ्घ्रये ।

विघ्नान्धकारसूर्याय गणाधिपतये नमः ॥ ३ ॥

जयन्ति पुरजिद्दत्तसाधुवादपवित्रिताः ।

निदानं न्यायरत्नानां अक्षपादमुनेर्गिरः ॥ ४ ॥

ग्रन्थावतरणम्


अक्षपादमताम्भोधिपरिमर्षरसोत्सुकाम् ।

विगाहन्तामिमां सन्तः प्रसरन्तीं सरस्वतीम् ॥ ५ ॥

नानागुणरसास्वादखिन्नाऽपि विदुषां मतिः ।

आलोकमात्रकेणेममनुगृह्णातु नः श्रमम् ॥ ६ ॥

दुःखापेक्षयैव प्राचुर्यस्य सुखे बोधनात्—उच्यते—प्राचुर्यं हि द्विविधं—स्वसमा
नाधिकरणविजातीयाल्पत्वसापेक्षं, स्वव्यधिकरणसजातीयाल्पत्वसापेक्षं चेति । आद्यं
सुखमयं जीवनमित्यादौ । तत्तु न प्रकृते । द्वितीयं च सूर्यप्रकाशप्राचुर्यतात्पर्यके
प्रचुरप्रकाशः सविता इत्यादौ । न हि तत्र सूर्यगताप्रकाशांशापेक्षया
सूर्यगतप्रकाशांशप्राचुर्यं बोध्यते; सूर्ये अप्रकाशांशस्यासम्भवात् । किन्तु
सूर्यव्यतिरिक्तलौकिकसर्वतेजोगतप्रकाशापेक्षया सूर्यप्रकाशप्राचुर्यमेव । प्रकृतेऽपि
जीवगतानन्दाद्यपेक्षया ब्रह्मानन्दस्य प्राचुर्यमेव मयडा बोध्यत इति न दोषः ।
ननु भोः ! सिद्धान्ते, ब्रह्मण्यानन्दस्याप्यनङ्गीकारात् कथमिदम् ? अत्यल्प
मेतत्—किं आनन्दो ब्रह्म इत्यादिश्रुतिरेव सैद्धान्तिकैर्न श्रुता ? श्रुतापि न
प्रमाणं वा ? युक्त एव तथा व्यपदेशः । निर्वाहस्तु स्वावसरे भविष्यति ॥ १ ॥
यामिनीनाथेत्यादि । ईश्वरस्यार्धनारीत्वात्, पार्वत्याः भवानीत्वाद्वा तथा
वर्णनम् । चन्द्रकलायाः वामभाग एव सत्त्वेन अर्धनारीमूर्तौ पार्वत्या
वामार्धगतत्वेन वा तथोक्तिः ॥ २ ॥ जयन्तीत्यादि । एतच्छलोकार्थः ग्रन्थकारेणैव
ग्रन्थान्ते न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितो वादे येन इत्यादि
श्लोकेन किञ्चिदिव विवृतः । तथोक्तं शैवपुराणे उमासंहितायां द्वितीयाध्याये—
गौतममधिकृत्य—तुतोष, भगवानाह, ग्रन्थकर्ता भविष्यसि । वत्साक्षय्या