I.3

न्यायौषधिवनेभ्योऽयमाहृतः परमो रसः ।

इदमान्वीक्षकीक्षीरात् नवनीतमिवोद्धृतम् ॥ ७ ॥

कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः ।

वचोविन्यासवैचित्र्यमात्रमत्र विचार्यताम् ॥ ८ ॥

तैरेव कुसुमैः पूर्वमसकृत्कृतशेखराः ।

अपूर्वरचने दाम्नि दधत्येव कुतूहलम् ॥ ९ ॥

यद्वा निर्गुणमप्यर्थं अभिनन्दन्ति साधवः ।

प्रणयिप्रार्थनाभङ्गसंविधानमशिक्षिताः ॥ १० ॥

तदियं वाङ्मयोद्यानलीलाविहरणोद्यतैः ।

विदग्धैः क्रियतां कर्णे चिराय न्यायमञ्जरी ॥ ११ ॥

अक्षपादप्रणीतो हि विततो न्यायपादपः ।

सान्द्रामृतरसस्यन्दफलसन्दर्भनिर्भरः ॥ १२ ॥

च ते कीर्तिः त्रैलोक्ये प्रभविष्यति । अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् ।
भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः । इत्येवं शङ्करात् प्राप वरं मुनिवरस्स वै ।
त्रैलोक्ये विततश्चासीत् पूज्यश्च यदुनन्दन । इति ॥ ४ ॥ न्यायौषधीत्यादि ॥
पूर्वोत्तरार्धे भिन्नवाक्ये ॥ ७ ॥ पूर्वश्लोकोक्तमेव समर्थयति—कुतो वेत्यादि ॥ ८ ॥
अनपूर्वत्वेऽनुपादेयता स्यादित्यत्राह—तैरेवेत्यादि ॥ ९ ॥ यद्वेत्यादि ।
साधवः—सुसंस्कृतमनस्काः निर्गुणमप्यर्थमभिनन्दन्ति । अशिक्षितास्तु—
असंस्कृतमनसः प्रणयिप्रार्थनाभङ्गसंविधानमेवाभिनन्दन्तीत्यर्थः । अथ वा प्रणयि
प्रार्थनाभङ्गसंविधानमित्यत्र विषयत्वरूपं कर्मत्वं द्वितीयार्थः । प्रणयिनां
प्रार्थनाया भङ्गाचरणदिषये अशिक्षिताः—अनभिज्ञा इति साधवो विशेष्यन्ते
साभिप्रायम् । यतस्तादृशाः साधवः अतो निर्गुणमप्यभिनन्दन्त्येवेति ॥ १० ॥
एवं साधूनभिनन्द्य स्वप्रार्थनां कथयति—तदियमित्यादिना ॥ ११ ॥
आक्षपादीयेषु कतिपयसूत्रेष्वेव कुतः पक्षपातः ? प्रतिसूत्रं कुतो न व्याख्याति
भवान् ? इत्याशङ्कामपनुदति—अक्षपादेत्यादित्रिभिः श्लोकैः । गभीरं
न्यायपादपं पङ्गुरहमारोढुं कथं प्रभवेयम् । तद्वैभवप्राग्भागगतातिशयं द्रष्टुमपि