II.3

भागः २

द्वितीयसंपुटः


पञ्चममाह्निकम्—शब्दपरीक्षा


जात्यङ्गीकाराक्षेपः


  1. प्रपन्नायेति । कर्मणि क्तः । विपन्नानामिति कर्तरि शेषे वा षष्ठी । अथवा सर्वत्र ऐकरूप्येण विपन्नानामित्यादौ—निर्धारणे षष्ठी । दृढाशानां— अपूर्णानामिति यावत्र । आशा हि अपूर्णतैव । विपन्नानां जीवानां मध्ये तैः रक्षकत्वेन प्रपन्नः । विपन्नकर्तृकप्रपत्तिकर्मीभूत इत्यर्थः । नित्यापूर्णानामिति यावत् । अपूर्णतैव आशानिदानम् । विपन्नानां, दुःखितानां, दृढाशानां इतिपदैः जीवानां निर्देशेन—प्रपन्नाय, सुखात्मने, संपूर्णाय इति पदैः परमात्मनश्च निर्देशेन जीवपरमात्मनोश्चेतनत्वेन साम्येऽप्यत्यन्तवैलक्षण्यमभिहितम् । जीवानां दृढाशत्वादेव दूःखित्वम्, दुःखित्वादेव विपन्नत्वं च सूचितम् । तथा ईश्वरस्यापि संपूर्णत्वादेव सुखात्मत्वं, तत एव च प्रपन्नत्वं च सूचितम् । परमात्मनि सुखसद्भावः जयन्तभट्टसंमतः ॥ कारणबन्धवे—जगत्कारणभूत